Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 148
________________ व्युत्पत्तिवादः । भूयते इत्यादयो न प्रयोगाः भावाख्यातस्य कर्तृत्वाबोधकत्वात् । कर्मत्वान्तरविशेषणतानापनकृ. त्यादौ कर्मत्वस्य संसर्गतया भानमव्युत्पन्न मिति काष्ठं भस्मराशिः करोतीत्यादयो न प्रयोगाः॥ __ अधिशीस्थासां कर्मेत्यादिना यत्राधारस्य कर्मसंशा तत्राधारत्वमाधेयत्वं वा द्वितीयार्थः, स्थलीमधिशेतइस्यादौ ताशार्थे द्वितीयायाः स्थल्याअधिशयितत्यादौ कृद्योगे षच्याश्च साधुत्वार्थमे वाधारस्य कर्मसंशाविधानात् । अथ कृअर्थव्यापाररूपक्रियान्तरं धात्वर्थेऽन्तर्भाव्य शयनादिरूपफलावच्छिन्नव्यापारार्थकसोपसर्गशीप्रभृतिधात्वर्थतावच्छेदकशयनादिरूपफलाअयतयाधारस्य क. मत्वोपपादनसम्भवात् तारशसूत्राणां वैयर्थ्यमेव । अध्याद्युपसृष्टशीप्रभृतीनामेव च तादृशाथै निरूढलक्षणा, न त्वनुपसृष्टानामतो न स्थली शेतइत्यादयः खारसिकप्रयोगा इति चेन्न । धातोम. ल्यार्थपरत्वेऽपि दर्शितप्रयोगनिहाय भगवता पाणिनिमुनिना ताशसुत्रप्रणयनात् । तदप्रणीतवतां सर्वधर्मप्रभृतीनां मुख्यार्थपराणांस्थल्यामधिशेतइत्यादिप्रयोगाणां साधुताया दुरत्वाच । कालाध्वभावदेशानामकर्मकक्रियायोगे कैश्चित्कर्मप्रत्ययार्थ विभाषया कर्मत्वमनुशिष्यते । अ. न्यतु क्रियान्तरान्तर्भावेणोक्तरीत्या तत्र पाक्षिकं कर्मप्रत्ययमुपपादयन्तस्तन्नानुशासति । उक्तंचैतत् "कालभावाश्वदेशानामन्तर्भूतक्रियान्तरैः । सर्वैरकर्मकोंगे कर्मत्वमुपजायतइति” तन्मतेच भासमधीते मासमास्ते योजनं धावतीत्यादावभिव्याप्त्यर्थे कालाधनोरत्यन्तसंयोगइत्यनेन द्वितीयाविधानं यद्यप्यनर्थकं, धात्वर्थेऽध्ययनखित्यादिविशेषणतयाभिव्यापनक्रियाया अन्तर्भावेण तत्कर्मतया तत्र तत्र द्वितीयोपपत्तेः । ताहशधात्वर्थे व्याप्त्यनन्तीवे मासमास्तइत्यादी द्वितीयया ततोधनेऽपि आस्यते मास इत्यादी मासादौ स्थित्यादिव्याप्यत्वलाभानिर्वाहात्, तथापि मासं रमणीयाक्रोशं कुटिला नदीत्यादौ भवतीत्यस्यानध्याहारेऽपि द्वितीयायाः साधुतानिर्वाहकत्वेन भाष्यकृतस्तत्सूत्रं सार्थकयन्ति । तत्रहि रमणीयत्वाभिव्याप्यत्वं मासादौ प्रतीयते । नत्र तत्र क्रियासमभिव्याहारोऽस्ति यत्राभिव्याप्तिरन्तर्भविष्यति तत्कर्मतया द्वितीयाच स्यात् । एवं मासमासितेत्या. दापभिव्याप्त्यन्तर्भावण मासस्य कर्मत्वोपपादनेऽपि कृद्योगात् षष्ठ्येव स्यात् न द्वितीयेत्यतोऽपि त. सूत्रं सार्थकम् । मित्यर्थः । कर्मसंज्ञाविधानादिति । अन्यथा स्थल्यामधिशेते स्थल्यामधिशयितेत्येव स्यादिति शेषः। कालाथ्वभाव. देशानामिति । कालशब्देनोपाधिविशेषावच्छिन्नानां क्षणमुहूर्तयामदिवसमासर्गसम्बत्सरादीनामन्यतमत्वेन अध्वशब्देन गन्तव्यदेशपरिमाणानां क्रोशगव्यूतिप्रभृतीनां भावशब्देन भावप्रत्ययान्तधातूपस्थाप्यक्रियाया देशशब्देन कुरुपाञ्चालादिजनपदानां ग्रहणम् । एषु च कालभावयोरनुभवसिद्धाकालिकविशेषणतया देशाध्वनोः दैशिकविशेषणतयाऽधिकरणता सप्तमीद्वितीयाभ्यामभिधीयत आधेयतावेति । विभाषयेति । यद्यपि अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यमिति पाणिनिसूत्रवार्तिके विभाषा न प्रतीयते तथापि “कालानामध्वमानानां क्रियाणां नीबृतामपि ! आधारता ध्राव्यधातोः कर्मतास्याद्विभाषयेति" स्मृत्यन्तरेस्तीति विकल्पेन कर्मतोक्तेति बोध्यम् । धौव्यधातुरकर्मकधातुः नीबूजनपदम् । कालभावाध्वदेशानामित्यादि । अकर्मकैरकर्मकक्रियायाः शक्त्याभिधायकधातुप्रतिपाद्यैः अन्तर्भूतक्रियान्तः धारणादि. रूपाधारलपर्यवसन्नधालन्तरार्थघटितैः प्रकृतधातुतोनिरूढलक्षणयाबोध्यैः धारणावच्छिन्नशयनस्थितिकीडादिरूपैरित्यर्थः। तथाच मासमास्त इत्यादौ यदाधातोर्धारणावच्छिन्नस्थित्यादौ तात्पर्यंतदा धाखर्थतावच्छेदकधारणाश्रयत्वेनैव कालादीनां कर्मताप्राप्तैवेति नसाविधेयाशक्यार्थएव तात्पर्येतु धारणस्य धाखर्थतानवच्छेदकत्वेन कर्मलाप्राप्तेः क्रियाधारत्वेन कालादेः कालादिपदात्सप्तम्येवेति भावः । ननु धारणावच्छिन्नशयनादेर्धालर्थत्वे कुरून् खपितीतिवत् गेहं खपितीति कुतो न प्रयोगःकुरुवरेहस्यापि.धावर्थतावच्छेदकफलाश्रयत्वेन कर्मवादिति चेन्न कालादिबोधकपदसमभिव्याहृतानामेवाकर्मकधातूनामुक्कार्थे निरूढलक्षणा नान्यथेति खारसिकोक्तप्रयोगासंभवात् कालादिष्वेवोक्तकर्मवनियमस्थाभ्युपगमावा कालाद्यनुयोगिकखरूपेणैव धालर्थतावच्छेदकधारणादिबोधे द्वितीयान्तसमभिव्याहारस्याकाडाखप्राप्तेरुक्तप्रयोगासंभवादिति । द्वितीयाविधानं यद्यप्यनर्थकमिति । नचाभिव्याप्तेलकोटौ प्रवेशे धावर्थतावच्छेदकाभिव्याप्त्याश्रयत्वेन कालाध्वनोरिव गेहादीनामपि कर्मतया गेहमास्त आलोक इति प्रयोगः खारसिकः स्यादिति वाच्यम् विधानमनर्थकमित्यस्यैवोक्तेः कालाथ्वगतसंबन्धविशेषेणाभिव्याप्तिघटितार्थे धातोर्निरूढलक्षणाप्राहकत्वेन सार्थकत्वेपि क्षत्यभावादिति भावः । सूत्रसार्थकमिति । नचैवं मासआस्थत इत्यस्य का

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218