________________
व्युत्पत्तिवादः । भूयते इत्यादयो न प्रयोगाः भावाख्यातस्य कर्तृत्वाबोधकत्वात् । कर्मत्वान्तरविशेषणतानापनकृ. त्यादौ कर्मत्वस्य संसर्गतया भानमव्युत्पन्न मिति काष्ठं भस्मराशिः करोतीत्यादयो न प्रयोगाः॥ __ अधिशीस्थासां कर्मेत्यादिना यत्राधारस्य कर्मसंशा तत्राधारत्वमाधेयत्वं वा द्वितीयार्थः, स्थलीमधिशेतइस्यादौ ताशार्थे द्वितीयायाः स्थल्याअधिशयितत्यादौ कृद्योगे षच्याश्च साधुत्वार्थमे वाधारस्य कर्मसंशाविधानात् । अथ कृअर्थव्यापाररूपक्रियान्तरं धात्वर्थेऽन्तर्भाव्य शयनादिरूपफलावच्छिन्नव्यापारार्थकसोपसर्गशीप्रभृतिधात्वर्थतावच्छेदकशयनादिरूपफलाअयतयाधारस्य क. मत्वोपपादनसम्भवात् तारशसूत्राणां वैयर्थ्यमेव । अध्याद्युपसृष्टशीप्रभृतीनामेव च तादृशाथै निरूढलक्षणा, न त्वनुपसृष्टानामतो न स्थली शेतइत्यादयः खारसिकप्रयोगा इति चेन्न । धातोम. ल्यार्थपरत्वेऽपि दर्शितप्रयोगनिहाय भगवता पाणिनिमुनिना ताशसुत्रप्रणयनात् । तदप्रणीतवतां सर्वधर्मप्रभृतीनां मुख्यार्थपराणांस्थल्यामधिशेतइत्यादिप्रयोगाणां साधुताया दुरत्वाच ।
कालाध्वभावदेशानामकर्मकक्रियायोगे कैश्चित्कर्मप्रत्ययार्थ विभाषया कर्मत्वमनुशिष्यते । अ. न्यतु क्रियान्तरान्तर्भावेणोक्तरीत्या तत्र पाक्षिकं कर्मप्रत्ययमुपपादयन्तस्तन्नानुशासति । उक्तंचैतत् "कालभावाश्वदेशानामन्तर्भूतक्रियान्तरैः । सर्वैरकर्मकोंगे कर्मत्वमुपजायतइति” तन्मतेच भासमधीते मासमास्ते योजनं धावतीत्यादावभिव्याप्त्यर्थे कालाधनोरत्यन्तसंयोगइत्यनेन द्वितीयाविधानं यद्यप्यनर्थकं, धात्वर्थेऽध्ययनखित्यादिविशेषणतयाभिव्यापनक्रियाया अन्तर्भावेण तत्कर्मतया तत्र तत्र द्वितीयोपपत्तेः । ताहशधात्वर्थे व्याप्त्यनन्तीवे मासमास्तइत्यादी द्वितीयया ततोधनेऽपि आस्यते मास इत्यादी मासादौ स्थित्यादिव्याप्यत्वलाभानिर्वाहात्, तथापि मासं रमणीयाक्रोशं कुटिला नदीत्यादौ भवतीत्यस्यानध्याहारेऽपि द्वितीयायाः साधुतानिर्वाहकत्वेन भाष्यकृतस्तत्सूत्रं सार्थकयन्ति । तत्रहि रमणीयत्वाभिव्याप्यत्वं मासादौ प्रतीयते । नत्र तत्र क्रियासमभिव्याहारोऽस्ति यत्राभिव्याप्तिरन्तर्भविष्यति तत्कर्मतया द्वितीयाच स्यात् । एवं मासमासितेत्या. दापभिव्याप्त्यन्तर्भावण मासस्य कर्मत्वोपपादनेऽपि कृद्योगात् षष्ठ्येव स्यात् न द्वितीयेत्यतोऽपि त. सूत्रं सार्थकम् ।
मित्यर्थः । कर्मसंज्ञाविधानादिति । अन्यथा स्थल्यामधिशेते स्थल्यामधिशयितेत्येव स्यादिति शेषः। कालाथ्वभाव. देशानामिति । कालशब्देनोपाधिविशेषावच्छिन्नानां क्षणमुहूर्तयामदिवसमासर्गसम्बत्सरादीनामन्यतमत्वेन अध्वशब्देन गन्तव्यदेशपरिमाणानां क्रोशगव्यूतिप्रभृतीनां भावशब्देन भावप्रत्ययान्तधातूपस्थाप्यक्रियाया देशशब्देन कुरुपाञ्चालादिजनपदानां ग्रहणम् । एषु च कालभावयोरनुभवसिद्धाकालिकविशेषणतया देशाध्वनोः दैशिकविशेषणतयाऽधिकरणता सप्तमीद्वितीयाभ्यामभिधीयत आधेयतावेति । विभाषयेति । यद्यपि अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यमिति पाणिनिसूत्रवार्तिके विभाषा न प्रतीयते तथापि “कालानामध्वमानानां क्रियाणां नीबृतामपि ! आधारता ध्राव्यधातोः कर्मतास्याद्विभाषयेति" स्मृत्यन्तरेस्तीति विकल्पेन कर्मतोक्तेति बोध्यम् । धौव्यधातुरकर्मकधातुः नीबूजनपदम् । कालभावाध्वदेशानामित्यादि । अकर्मकैरकर्मकक्रियायाः शक्त्याभिधायकधातुप्रतिपाद्यैः अन्तर्भूतक्रियान्तः धारणादि. रूपाधारलपर्यवसन्नधालन्तरार्थघटितैः प्रकृतधातुतोनिरूढलक्षणयाबोध्यैः धारणावच्छिन्नशयनस्थितिकीडादिरूपैरित्यर्थः। तथाच मासमास्त इत्यादौ यदाधातोर्धारणावच्छिन्नस्थित्यादौ तात्पर्यंतदा धाखर्थतावच्छेदकधारणाश्रयत्वेनैव कालादीनां कर्मताप्राप्तैवेति नसाविधेयाशक्यार्थएव तात्पर्येतु धारणस्य धाखर्थतानवच्छेदकत्वेन कर्मलाप्राप्तेः क्रियाधारत्वेन कालादेः कालादिपदात्सप्तम्येवेति भावः । ननु धारणावच्छिन्नशयनादेर्धालर्थत्वे कुरून् खपितीतिवत् गेहं खपितीति कुतो न प्रयोगःकुरुवरेहस्यापि.धावर्थतावच्छेदकफलाश्रयत्वेन कर्मवादिति चेन्न कालादिबोधकपदसमभिव्याहृतानामेवाकर्मकधातूनामुक्कार्थे निरूढलक्षणा नान्यथेति खारसिकोक्तप्रयोगासंभवात् कालादिष्वेवोक्तकर्मवनियमस्थाभ्युपगमावा कालाद्यनुयोगिकखरूपेणैव धालर्थतावच्छेदकधारणादिबोधे द्वितीयान्तसमभिव्याहारस्याकाडाखप्राप्तेरुक्तप्रयोगासंभवादिति । द्वितीयाविधानं यद्यप्यनर्थकमिति । नचाभिव्याप्तेलकोटौ प्रवेशे धावर्थतावच्छेदकाभिव्याप्त्याश्रयत्वेन कालाध्वनोरिव गेहादीनामपि कर्मतया गेहमास्त आलोक इति प्रयोगः खारसिकः स्यादिति वाच्यम् विधानमनर्थकमित्यस्यैवोक्तेः कालाथ्वगतसंबन्धविशेषेणाभिव्याप्तिघटितार्थे धातोर्निरूढलक्षणाप्राहकत्वेन सार्थकत्वेपि क्षत्यभावादिति भावः । सूत्रसार्थकमिति । नचैवं मासआस्थत इत्यस्य का