________________
गूढार्थतत्वालोकव्याख्यासहितः ।
१४५ अथ केयमभिव्याप्तिाऽत्यन्तसंयोग उच्यते । न तावद्व्याप्यवृत्तिः कालिकः संबन्धः कालिकसम्बन्धस्य व्याप्यवृत्तित्वं व्याप्यकालानवच्छिन्नत्वं दिवसादिमात्रवृत्तमासादिनिष्ठसम्बन्धो दिधसाधवच्छिन्नइति तत्र मासमास्तइति न प्रयोगः । मासपदार्थश्चात्र त्रिशदिनमात्रस्थायी कश्चिदखण्डः पदार्थः, नतु क्रियाप्रचयस्तथासति दिनकादिमात्रस्थायिनोऽपि संबन्धस्य कासुचित् क्रियासु व्याप्यवृत्तितया तत्र तथा व्यवहारापत्तेरिति युक्तम् । चैत्रो मासं काश्यां तिष्ठतीत्यादौ काशीसंयोगस्य मासव्यापकस्यैकस्याभावेऽप्रामाण्यप्रसङ्गात् । संयोगव्यक्तीनां मासनिष्टकालिकसं. बन्धस्यावान्तरदिनाद्यात्मककालावच्छिन्नत्वात् । नच संयोगानां भेदेऽपि चैत्रीयसंयोगत्वाधवच्छिन्ननिरूपितकालिकसंबन्धावच्छिन्नाधारता मासव्यापिकैकैव साच नावान्तरकालावच्छिन्नेति तत्र तदनवच्छिन्नत्वबोधकमुक्तवाक्यं भवेदेव प्रमाणमिति वाच्यम् । सामान्यघटितविशेषधर्मावच्छिप्राधिकरणताकुटादेव सामान्यधर्मावच्छिन्नवत्ताप्रत्ययोपपत्तेः शुद्धसामान्यधर्मावच्छिन्ननिरूपिता. धिकरणतायामतिरिक्तायां मानाभावात् । यत्र त्रिशदिनेषुकमपिकालमधीते तत्र मासेऽध्ययनसंबन्धस्थाव्याप्यवृसितया मासमधीतइति प्रयोगानुपपत्तिरपि न शक्यते वारयितुम्-उच्यते अभिन्याप्तिविदवयवसम्बन्धः । यत्समुदायो मासादिपदार्थस्तएव तदवयवाः। एवंच शिद्दिनानां मास. पदार्थतया त्रिंशदिनेषु किञ्चित् किश्चित् कालावच्छेदेनाध्ययनसंबन्धेऽपि मासमधीतइतिप्रयोगोपपत्तिः। त्रिशद्दिनसम्बन्धश्च दिनपर्याप्तत्रिंशत्त्वव्यापकत्वम् । तादृशत्रिंशस्वादेश्च मासादिपदप्रवृत्तिनिमित्तस्य मासादिपदादेव लाभाद्व्यापकत्वमानं द्वितीयार्थः । व्यापकत्वं च व्याप्यविशेषाघटितमखण्डं दुर्वचमिति खण्डशोऽभावप्रतियोगितावच्छेदकत्वमभावश्च द्वितीयार्थः । प्रथमाभावे प्रकृत्यों मासादिराधेयतासंबन्धेनान्वेति, मासादिनिष्ठाभावप्रतियोगितावच्छेदकत्वत्वावच्छिन्नस्य च प्रतियोगितयाऽभावान्तरेऽन्वयः तस्य चान्वयितावच्छेदकचैत्रकर्तृकाध्ययनत्यादि रूपस्खाश्रयघटितपरम्परासम्बन्धेनाध्ययनादावन्धयः। प्रथमाभाये च प्रतियोगिव्यधिकरणत्वं विशेषणमुपादेयम् । तेन त्रिंशद्दिनेष्वेव च यत्राधीतं तत्र दिनावान्तरदण्डादायध्ययनाभावेऽपयुक्तप्रयोगोपपत्तिः । मासपदं च त्रिशद्दिनपरमेव नतु तावत्कालस्थाय्यखण्डवस्त्वन्तरपरम् । एकदि. नाध्ययनस्थलेऽपि तादृशाखण्डकाले प्रतियोगिव्यधिकरणाध्ययनाभावासत्त्वेन मासमधीतइति प्र. योगापत्तेः । मासघटकं च दिनं सूर्योदयावधि सूर्योदयान्तरपर्यन्तावस्थाय्यखण्डवस्तुरूपं, न तु गतिरिति वाच्यम् धातोरभिव्याप्तिघटितार्थलक्षणायां कर्तुरीप्सिततमं कर्मेत्यनेन मासस्य कर्मत्वे तत्र लकारसंभवात् । नचैवं तत्र मासस्यासितेति प्रयोगापत्तिरिति वाच्यं धातोरुक्तार्थलाक्षणिकल उक्त प्रयोगस्य च शक्यार्थपरत्वेबमासमासितेत्यस्य च संभवाद. भिव्यायथै कालादेः कर्मखमपुरस्कृत्यैव कालाध्बनोरित्यादिसूत्रेण द्वितीयाविधानादिति भावः। व्याप्यकालेति। तद्वयाप्यत्वं च खस्य खासंबन्धोपाधिसंबद्धतत्कत्वम् संबन्धश्च कालिकः अस्मिन् मासेत्र दिवस इदं वर्तते नात्रदिवसइति प्रतीतेर्मासनिष्ठस्य वस्तुनः कालिकसंबन्धस्य दिवसावच्छिन्नलमुपेयतेऽन्यथा तत्तदभावयोस्तत्र समावेशासंभवात् यस्य संबन्धो मासमभिव्याप्य वर्तते तस्मिन् न तस्य दिवसादिरवच्छेदकस्तदभावस्य तत्रासमावेशेन विरोधपरिहाररूपावच्छेदकत्वकल्पकयुक्तेरभावादिति स एव संबन्धो व्याप्यकालानवच्छिन्नतया व्याप्यवृत्तिासादिनिष्टोद्वितीयार्थस्तस्य प्रतियोगितयारमणीयखस्थित्यादाचन्वयइति । तथाव्यवहारेति । मासमास्त इति व्यवहारेत्यर्थः । काशीसंयोगस्येति । काश्यामिति सप्तम्यन्तार्थकाशीवृत्सित्वविशिष्टस्य स्थाधामर्थस्येत्यर्थः प्रकृत्यर्थव्याप्यकालानवच्छिन्न कालिकसंबन्धावच्छिन्नाधारतालेनैव यद्यप्यस्ति द्वितीयार्थता तथापि समभिव्याहारबलाच्चैत्रीयकाशीवृत्तिसंयोगत्वावच्छिन्नकालि कसंबन्धावच्छिन्नोक्तानबच्छिन्नाधारताप्रतीतिस्तस्या निरूपकत्वसंबन्धेन धात्वर्थादावन्वय इत्यभिप्रायेण शङ्कते-नचेति । यदि निरूपकांशेभासमानधर्मावच्छिन्नत्वमात्रस्याधिकरणत्वे भानं नतु ताहशधर्मपर्याप्तावच्छेदकताकलस्येत्यभ्युपगमस्तदा पर्वतसंयोगवानिति ज्ञानं प्रकारितया संयोगवदिति प्रत्ययस्यापि प्रामाण्यापत्तिरतोनिरूपकांशे भासमानधर्मपर्याप्तावच्छेदकताकत्वभानमुपेयम् । नच प्रकारिवादिसंबन्धस्थले तथात्वेप्यन्यत्र नेति वाच्यम् समानाकारप्रतीयोर्विलक्षणविषयत्वेऽनुभवविरोधादनेकेषु ज्ञानविषयलसंबन्धकल्पनापेक्षयाधिकरणत्वस्य तादृशस्यैकस्यकल्पनाया एव लघुवादन्यथा सामान्याभायोपि न सिद्धयेदित्यतो दोषान्तरमाह । त्रिशहिनेविति।मासघटकं च दिनमित्यादि। ननु सूर्योदयक्षणमारभ्यसूर्योदयान्तरपूर्वक्षणस्थायित्वं दिनद्वयादिस्थायिवस्तुन्यप्यस्ति तृतीयसूर्योदयस्यापि सूर्योदयान्तरत्वात्
१९ ब्यु.