________________
१४६
व्युत्पत्तिवादः ।
क्रियादिप्रचयः । तथासत्येकेक क्रियादिव्यकेरपि मासत्वाधिकरणतया तत्र प्रतियोगिव्यधिकरणाध्ययनाभावसत्वेन व्यापकत्वरूप द्वितीयार्थस्य बाधापत्तेः । दिवस स्वपितीत्यादौ च दिवसादिपदं सूर्योदयावधि सूर्योदयान्तरपर्यन्तक्षणकूट परमेवातो नैकदण्डादिमात्रस्वप्ने तथा प्रयोगः । अथ व्यापकत्वस्य द्वितीयार्थत्वएकमासादिव्यापकाध्ययनस्थलेऽपि मासान्तरेऽध्ययनाभावसत्त्वेन मासत्वादिव्यापकताया अध्ययने बाधेन मासमधीतइत्यादिप्रयोगानुपपत्तिः । नच मासपदेन यत्किचित्रिशद्दिनमात्र वृत्तिविशेषधर्मप्रकारेणानुपस्थापनेऽपि तद्धर्मवत्स्वनिरूपिताधेयत्व संबन्धेन मासपदार्थस्याभावेऽन्ययोपगमात् यत्किञ्चिन्मासनिष्ठाभावप्रतियोगितानवच्छेदकत्व मन्वयितावच्छेदके लभ्यतइति न काप्यनुपपत्तिरिति वाच्यम्, तत्तन्मासमात्रवृत्तिधर्मविशेषाणां संबन्धघटकत्वेऽपि शाब्दबोधे संसर्ग तात्पर्यज्ञानस्य हेतुतया संसर्गविशेषोपस्थितेरपेक्षितत्वात् । संबन्धघटकतादृशधर्मान विशिष्याविदुषः शाब्दबोधानुदयप्रसङ्गात् । नचेष्टापत्तिरनुभवविरोधात् । अनागतादिमासवृत्तिताशधर्माणां विशिष्यज्ञानसामय्या असर्वशस्य दुर्लभतयास्मदादीनां सर्वेषामेव तादृशमासत्वव्यापकताबोधोच्छेदप्रसङ्गात् । नच तादृशवाक्यार्थतात्पर्यमेव संसर्ग तात्पर्यमुक्तहाने च वाक्यार्धघटकः संबन्धः संसर्गमर्यादयैव भासतइति विशेषरूपेणानुपस्थितस्यैवोक्तधर्मघटित संबन्धस्य तात्पर्यज्ञाने बाधाभावबलाच्छाब्दबोधे च तात्पर्यज्ञानबलाद्भानमनपवादमेवेति वाच्यम् । एकपदार्थविशिष्टा परपदार्थरूपवाक्यार्थविशेषिततत्प्रतीतीच्छारूपतात्पर्यविषयकनिश्चयस्य प्राग्वाक्यानिश्चये दुर्घटतया तस्य शाब्दधीहेतुत्वे च योग्यतासंशयाच्छाब्दबोधानुपपत्तेर्विशकलिततत्पदार्थतत्तत्संसर्गविषयकत्व विशेषितप्रतीतीच्छाज्ञानस्यैव शाब्दधीहेतुताया उपेयत्वात् तत्रच तादृशसंसर्गोपस्थितेरवश्यापेक्षणीयत्वादितिचेत् । सत्यम् । मासादिघटक तावद्दिनादिनिष्ठ त्रिंशत्वादिरूपमासत्वादिर्मासादिभेदेन नानैव । मासादिपदप्रवृत्तिनिमित्तपरमनुगतरूपेण । अन्यथा शक्त्यानन्त्यप्रसङ्गात् । सर्वोपसंहारेण व्युत्पत्ति विना प्रागप्रतीतमासादेः शाब्दानुभवानिर्वाहाच । नच त्रिंशत्त्वादिकं बुद्धिविशेषविषयत्वरूपं वाच्यम् दिनादेर्द्रव्यानात्मकत्वेन तत्र गुणरूपसङ्ख्याया असम्भवात् द्रव्यात्मकत्वेऽपि क्रमिकेषु तेषु सहयोत्पत्तेरसम्भवात् तत्र बुद्धेरनतिप्रसक्तं वैलक्षण्यमनुगतं दुर्वचम् | जातिरूपस्य तस्य सङ्करप्रसङ्गनिरस्तत्वात् तत्तद्दिनविषयकत्वरूपस्य
तादृशवस्तुगतत्रिंशत्त्वविशिष्टस्य परिग्रहे वस्तुतः कतिपयदिनान्तरितदेिवसाधिकरणकत्रिंशद्वाराध्ययनकर्तर्यपि मासमधीत इति प्रयोगापत्तिः स्यादिति चेन्न सूर्योदयक्षणविशिष्टं हि वस्तु दिनमत्रोच्यते वैशिष्ट्यं च स्ववृत्तित्वखपूर्वक्षणावृत्तिलखोत्तरसूर्योदय क्षणाव्यवहितपूर्वक्षणवृत्तिलस्त्रोत्तरसूर्योदय क्षणावृत्तित्वैतश्चतुष्टयसंबन्धेन । तथाच नोक्तदोष इति भावः । दिवसादिपदसूर्योदयावधीत्यादि । सूर्योदयक्षणविशिष्टक्षणत्वावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगिकूटत्वावच्छिन्न परमिलर्थः । वैशिट्यंच स्वपूर्वत्वशून्यत्व स्त्रोत्तरसूर्योदयानुत्तरसूर्योदयक्षणपूर्वत्वोभयसंबन्धेनेति तथादिनद्वयघटकक्षणसमुदायस्य न दिनखापत्तिरिति भावः । कूटपरमेवेति । एवकारेण पूर्वोक्ता खण्डवस्तुनो दिनलव्यवच्छेदः । अस्य फलमाह । अतो नैकेति । एवं संवत्सरादिपदमपि प्रतिमासमेकैकदिनाध्ययनस्थले सम्वत्सरमधीत इत्यप्रयोगान्नाखण्डमासद्वादशकसमुदाय परमपितु निरुताखण्डदिनसमुदायात्मकमासद्वादशकपरमेवेति बोध्यम् । तद्धर्मवत्स्व निरूपिताधेयत्वेति । यत्र प्रकृताध्ययनादौ दिनवृत्तित्रिंशत्त्वेन येन विशिष्टमासवृत्तित्वं योग्यं तत्र तद्विशिष्टस्वनिरूपिताधेयत्वसंसर्गेणेत्यर्थः । परमनुगतरूपेणेत्यर्थः । तथाच मासपदादनुगतरूपोपग्रहेणाननुगततत्तत्रिंशत्त्वविशिष्ट सर्वस्योपस्थितत्वेन तत्तद्धर्मविशिष्टाधेयत्व संसर्गेण योग्येन मासादेरभावेन्वयेन भवति व्यापकत्वहानिः । तात्पर्यज्ञानमपि शाब्दबोधविषयलविशेषे विशेषणं तत्तद्धर्ममनुगतेन रूपेणावगाहमानं संभवत्यैवव्यापकत्वावगाहनं विनापि निर्वाहप्रकारोऽनुपदं वक्ष्यति । अथ तत्तत्रिंशत्वादीनामनुगतं धर्मे वकुमाशङ्कते । नचत्रिंशत्वादिकमिति । सूर्योदय मारभ्यसूर्योदयान्तपर्यन्तस्थायिपदार्थस्यैव पूर्व दिनलोक्त्या तेषां द्रव्यात्मकानामप्येकदा सत्त्वासंभवेनाविद्यमानसमवायिकारणकगुणोत्पत्तेरसंभवात् न तेषु त्रिंशत्वं संख्यात्मकं भवितुमर्हतीत्याह । व्यात्मकत्वेपीति । सङ्करेति । तादृशस्य बुद्धिविशेषस्य कदाचित्प्रत्यक्षस्य कदाचिदनुमितिशाब्दादिरूपस्य संभप्रत्यक्षत्वादिभिः संकरेत्यर्थः । प्रत्यक्षत्वादिव्याप्यानामनेकेषां समभ्युपगमे साङ्कर्यविरहेऽप्यननुगमस्यदुरुद्धरत्वान्न
我
वात्