Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 146
________________ १४२ व्युत्पत्तिवादः । यत्प्रकाशते । तन्निर्वत्यै विकार्य च कर्म द्वेधा व्यवस्थितम् । प्रकृत्युच्छेदसंभूतं किञ्चित्काष्ठादि भस्मवत् । किं चिह्नणान्तरोत्परया सुवर्णादिविकारवदिति” ॥ अत्र प्रकृतिरपि ग्राह्या । अन्यथा काष्ठसुर्वणादेस्तुरीयतापत्तेः । विकार्यपदेनैकव्युत्पत्त्या प्रकृतिविकृत्युभयायोधनेऽपि उभयसाधारणरूपावच्छित्रे पारिभाषिकमेव विकार्यपदम् । प्रकृतिरूपं कर्म च क्रियया वस्त्वन्तरनिष्पत्तये पूर्वभावविशिष्टस्य यस्यासत्त्वरूपो विकारो निर्वाह्यते तद्यथा पाकादेः तण्डुलादि, कृतेा पुष्पकाशादि तत्र प्रथमस्थले तण्डुलादिरूपधर्मिनाशादेव पूर्वभावविशिष्टं तदसत्वमोदनादिरूपकमन्तर निष्पादकमितरत्र धर्मिणः काशकुसुमादेः सखेऽपि कटसंदर्भादिविरह रूप पूर्व भावालत्वेन तद्विशिष्टस्यासत्वं कटसंदर्भादिनिष्पादकक्रियातो निर्वहति, एवंच तण्डुलानोदनं पचतीत्यादौ प्रकृतिकर्मोत्तरद्वितीयाया नाशकत्वमर्थस्तण्डुलाद्यन्वितं नाशकत्वं व पाकेऽन्वेति विकतिकर्मोत्तर द्वितीयायाश्च उत्पादकत्वमर्थः ओदनाद्यन्वितस्य तस्य नाशकत्वविशिष्टे पाकेऽन्वयः नाशे चोत्पत्तेः प्रयोजकत्व मुद्देश्यतावच्छेदकविधेयभाव महिम्ना नियमतो भासते । अतः पाकस्य तण्डुलाद्यारम्भकसंयोगनाशजनकत्वेऽपि तन्नाशस्य द्रव्यान्तरोत्पत्तौ द्रव्यनाशेनान्यथासिद्धतया प्रयोजकत्वबाधेन संयोगमोदनं पचतीति न प्रयोगः । वस्तुवस्तु निर्वर्त्यकर्मासमभिव्याहारस्थले संयोगं पचतीति प्रयोगवारणाय संयोगनाशद्वारा नाशत्वमेव द्वितीयार्थो वक्तव्य इति कृतं प्रयोज्य प्रयोजकभावबोधेन । तण्डुलमोदनं करोति, काष्ठं भस्म करोति, दुग्धं दधि करोतीत्यादावपि प्रकृतिकर्मोत्तरद्वितीयया तनाशकत्वं कृतौ प्रत्याय्यते विकृतिकर्मोत्तर द्वितीयया च विषयताविशेष उत्पादकत्वं वा मिलितं वा कृतौ बोध्यते । काशान् कटं करोति कुसुमानि मौक्तिकानि वानजं करोतीत्यादौ काशादिपदोत्तरद्वितीया कृतौ विषयताविशेषमेव बोधयति । काशाधुच्छेदकतायास्तत्र बाधात् । कटमित्यादौ द्वितीयार्थः पूर्ववत् । स्त्रगादिपदार्थविन्यासविशेषविशिष्टकुसुमादेर्न कुसुमाद्युपादानककृतिविषयता, अपि तु विन्यासादिरूपविशेषणस्यैव तस्यैव कृत्यधीनोत्पत्तिरिति स्रजमित्यादिद्वितीयान्तस्य विशिष्टसत्त्वनिर्वाहकत्वमर्थः । विशेषणोत्पादकस्यापि स्वरूपसंबन्धविशेषरूपं विशिष्टसत्त्वनिर्वाहकत्वमक्षतमेव । अग्निः श्यामं रक्तं करोतीत्यादावचेतनकर्तृव्यापारबोधकतया तत्समभिव्याहृतश्यामादिपदोत्तरद्वितीयाया अपि नोपादानताख्य पूर्वोक्तनिर्वर्याद वैलक्षण्यं चेति भावः । विकार्यच कर्मेत्यादि । अत्रच प्रकृतिसहितस्य विकार्यस्योदाहरणात् यत्प्रकृतिबोधकपदसमभिव्याहृत पदबोध्यं सत्प्रकृतिविनाशत्रयुक्तोत्पादयत् प्रकृतिनाशकत्वेन बोधितप्रकृत क्रियाप्रयुक्तोत्पत्तिमत्त्वेन बोधितं वा तदेकं विकार्यम् काष्ठादीनां भस्मादिवदित्यवगम्यते आदिपदात्तण्डुलादीनामोदनादिर्ग्राह्यः । यच्तोक्तपदबोध्यं सत् प्रकृतिगतविशेषप्रयुक्तनिष्पत्तिमत्तदपरम् यथा सुवर्णादेरलङ्कारादिकमिति च आदिपदात्कुशादेः कटादिकम् कुसुमादेः खजादिकम् बोध्यमेवंच सदित्यन्तोपादानात्र निर्वर्सेऽतिव्याप्तिः । प्रकृतिरपिग्राह्येति । अन्यतरत्वादिधर्मावच्छिन्नपारिभाषिकेन विकार्यपदेनेत्यर्थः । एवंच द्वेधाव्यवस्थितमित्यस्य द्विप्रकारकम् प्रकृतिरूपं विकृतिरूपं च तयोर्मध्ये किंचिद्विकृतिरूपं प्रकृत्युच्छेदसंभूतं काष्टादीनां भस्म यथाकिंचिदपरं विकृतिरूपं कर्मप्रकृतिगतपूर्वगुणविलक्षणगुणोत्पत्त्या निष्पन्नं सुवर्णादीनामलङ्कारादिकं यथेति व्याख्येयम् तेन विकार्यशब्देन प्रकृति विकृतिं चोक्खा द्वेधाव्यवस्थितमित्यादिप्रन्थः सन्दर्भविरुद्धइति निरस्तम् । निर्वर्त्यकर्मासमभिव्याहारेति । तथाच नाशकत्वविशिष्टे निर्वत्र्योत्पादकत्वस्याभानेन नाशउत्पत्तिप्रयोजकत्वाभानासंभवादुक्तप्रयोजकाभावभानस्वीकारेपि संयोगं पचतीत्यस्य न वारणमिति भावः । संयोगनाशद्वारानाशकत्वमेवेति । नाशप्रयोजकसंयोगनाशोद्वितीयार्थः प्रकृतिकर्मणः प्रतियोगितया नाशेन्वयः द्वितीयनाशस्य जनकत्वेन पाकादावन्वयस्तथाच संयोगनाशप्रयोजक संयोगनाशजनकत्वस्य पाके विरहानोतापत्तिरिति भावः । तदुद्देश्यककृतेस्तदुत्पादकत्वनियमादुद्देश्यलाख्यविषयत्वोत्पादकत्वयोर्विकल्पेन द्वितीयार्थतामाह । विषयताविशेषउत्पादकत्ववेति । अथ यत्रेषदुष्णदुग्धेप्रचुरोष्णत्वभ्रमादामिच्छोद्देश्यकप्रवृत्त्यादधिप्रक्षेपाधिनिष्पत्तिस्तश्रामिच्छोद्देश्यकप्रवृत्तेर्दध्युत्पादकत्वेपि दुग्धं दधि करोतीति प्रतीतिर्यदि नानुभविकी यदियोपायेभ्राम्यतोदभ्यनुपायगोचरदध्युद्देश्य कप्रवृत्त्यादभ्यनुत्पत्तिस्थले दुग्धं दधि करोतीति प्रतीतिर्नानुभविकी तदोक्तस्थलयोरुक्तवाक्यस्य प्रामाण्यवारणाय विषयताविशेषोत्पादकत्वयोर्मिलितयोरेव द्वितीयार्थत्वं वक्तमुचितमित्यभिप्रेत्याह । मिलितंत्रेति । विषयताविशेषमेवेति । उपादानत्वाख्यविषयत्वमित्यर्थः । पूर्ववदिति । साध्यत्वाख्य विषयत्वादिक

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218