________________
गूढार्थतत्वालोकव्याख्यासहितः । व्यापकतयाधिककालव्यापकस्य होमस्य शास्त्रार्थतावारणायैकपदोपादानात् । तथा सति तस्य केवलार्थतया मालमात्र व्यापकतालाभात्तादृशप्रयोजनोपपत्तेः । अतपवच यावजीवमग्निहोत्रं जुहो। तीतिश्रुतियोधिताग्निहोत्रानुवादेन सतिलबीहिचरुरूपद्रव्यस्य मासैकरूपकालस्यच विधाने वाक्यभेदः स्यादिति तादृशद्रव्यकालोभयविशिष्टस्य गौणाग्निहोत्रपक्षप्रतिपाद्यस्य कर्मान्तरस्यैव विधायिका तादृशी श्रुतिरिति सिद्धान्ते यावजीवकालान्तर्गतमासरूपकालांशेऽप्यनुवादकतासम्भवात्प्राप्ताग्निहोत्रानुवादेन द्रव्यस्यैव विधानमुचितमिति पूर्वपक्षो निरस्तः । यावज्जीवमित्यादिश्रुत्या यावज्जीवव्यापकत्वे बोधितेऽर्थतो मासैकव्यापकतालाभेऽपि उपसच्चरकरणकत्वविशिष्टहोमे तन्मात्रव्यापकताया अलाभेन तस्यापिविधेयतया वाक्यभेदस्य प्राप्ताग्निहोत्रानुवादेन द्रव्यविधिपक्षे दुर्वारत्वात् । अथ तादृशश्रुते व्यकालोभयविशिष्टस्य गौणाग्निहोत्रप्रतिपाद्यस्य कर्मान्तरस्य विधायकत्वेऽपि न कथं वाक्यभेदः । विधेयभेदस्यैतावताप्यपरिहारात् । प्रत्युत धर्मिणोऽप्यधिकस्य विधानात् । एवंच 'प्राप्त कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नत' इत्यपि नियुक्तिकमिति चेन्न । यत्र विधेयांशे युगपदनेकधर्माणां विशेषणतया भानं तत्र विधेयविशेषणमेदेऽपि विशिष्टनिष्ठविधेयत्वाभेदेन वाक्यभेदविरहात् । अन्यथा भूतलं नीलघटवदित्यादावपि नीलबद्धटवदित्यादाविव वाक्यभेदप्रसङ्गात् । अनुवाद्यांशे विशेषणतया यत्रानेकेषां विधानं तत्र तेषां विधेयता भिन्नैवेति वाक्यभेदः । यद्यपि तत्रोक्सचरकरणक होमाधिकरणतात्वेन बाधिकारिविशेषकृततादशहोमाधिकरणतात्वेन वा मासैकव्यापकता मा. सन्यूनकालहोतृकृतहोमाधिकरणतायामप्यन्यान्यदिने पुरुषान्तरकर्तृकहोमाधिकरणतासरवेनाक्षतैव, तत्तत्पुरुषकर्तृकतादृशहोमाधिकरणतात्वेन व्यापकतायाः श्रुतितात्पर्यविषयत्वे च विधेयानन्त्यम्, तथापि विभिन्नपुरुषकर्तृकहोमाधिकरणताद्वयावृत्तितादृशचरुहोमाधिकरणतामात्रवृत्तिधर्मत्वेनानुगतीकृत्य तत्तत्पुरुषकर्तृकतारशचरुहोमाधिकरणतात्वावच्छिन्नव्यापकतानां संसर्गविधया विव. क्षितत्वान्न दोषः । तारशाधिकरणताद्वयावृत्तित्वं . च, स्ववृत्तित्वस्वनिरूपकहोमकर्तृनिष्ठभेदप्रतियोगिकर्तृकहोमाधिकरणतावृतित्वोभयसंबन्धेनाधिकरणताविशिष्टान्यत्वरूपमनुगतं बोध्यम् । मासमधीतइत्यादावपि चैत्रादिकर्तृकाध्ययनाधिकरणतात्वरूपव्यापकत्तावच्छेदकधर्मस्योक्तानुगतरूपेणैवानुगमः कार्यः अतो मासमधीयानो दृष्ट इत्यादी विशिष्य चैत्रत्वाद्यनुपस्थितावपि नान्वयबोधानुपपत्तिः। अन्यत्स्वयमूहनीयम् ।
दण्डं विना न घट उत्पद्यते, रासभं विनापि घट उत्पद्यत, इत्यादौ विनापदार्थोऽभाववान् । तत्पदसमभिव्याहृतद्वितीयाया अभावान्वयिप्रतियोगित्वमनुयोगित्वं वार्थः। अभाववतश्चोत्पत्तावाधारत्वेनान्वयः, तथाच दण्डाभावववृत्त्युत्पत्तिकत्वाभाववान् घटो, रासभाभावववृत्त्युत्पत्तिको घट इत्याकारको बोधः । यद्यपि निपातार्थे नामार्थस्य साक्षादपि भेदेनान्वयः तथापि संभवति सार्थकत्वे विभक्तनिरर्थकत्वमनुचितमिति द्वितीयायाः सार्थकत्वमुपेयते । भूतले न घटश्चन्द्रश्व मुखमित्यादौ प्रथमायाः प्रतियोगिताद्यर्थकत्वे प्रथमैव न साधुः स्यात् । प्रातिपदिकार्थान्वयिनोन्यपदेनाभिधानस्थल एव प्रातिपदिकार्थत्यादिसूत्रेण प्रथमाविधानादिति तत्र प्रतियोगित्वादिः संबन्धविधयैव भासत इत्युपेयते । दण्ड विना न घटोत्पत्तिरित्यादौ च विनान्तार्थे घटोत्पत्याद्यभावान्व येऽनुयोगिविशेषणदण्डाद्यभावस्य च तदनुयोगितावच्छेदकत्वं भासते । द्रव्ये न गन्ध इत्यप्रयोगात् उपलक्षणीभूतधर्मावच्छिन्ने न नञर्थाभावान्वय इतिव्युत्पत्तेरिति रासभंविना न घटोत्पत्तिरिति
तवं भवत्येवेति । सतिलबीहिचरुरूपद्रव्यस्येति । उपसचस्करणकलविशिष्टेति च कथमुक्तमिति न प्रतीयते मीमांसाद्वितीयाच्यायतृतीयपादचतुर्विंशतिसूत्रभाष्यवार्तिकन्यायसुधादिपर्यालोचनयोपसत्संज्ञककर्मोत्तरकाललरूपगुणवैशिध्वस्यैव प्रतीतेः अ. मिहोत्रसंज्ञोत्थापितातिदेशादेवाग्निहोत्राङ्गद्रव्यस्यैव प्राप्तेश्चेति । अन्यपदेनाभिधानेति । नेहार्थवत्वं पदलं तथासति तादृश्या