________________
१५०
व्युत्पत्तिवादः । न प्रयोगः। अतिप्रसक्ततया रासभाभावस्य घटोत्पत्याद्यभावानुयोगितावच्छेदकताविरहात् । अथवा अभाव एव विनार्थः दण्डं विना न घट इत्यादौ च विनान्तास्याभावस्य नार्थे घटाद्यभावे प्रयोज्यतासंबन्धेनैचान्वयः । अतएव रासभं विना न घट इत्यादयो न प्रयोगाः । अतएव दण्डादभाववति घटादत्तावपि जायते इत्यस्याध्याहारं विनव दण्ड विना न घट इति प्रयोगोपपत्तिः रासभं विना घट इत्यादौ च विनार्थस्याभावस्य सामानाधिकरण्यसंबन्धेन घटादायन्वयः । दी. धितिकृताप्यविनाभावो व्याप्तिरित्यत्र साध्यं विना साध्याभाववति योभाव इति यद्व्याख्यातं तत्र सप्तम्यन्तेन संसर्गविधया भासमानं तदधिकरणनिष्ठत्वमेवोपात्तं नतु विनार्थत्वेनाधिकरणम् । अभावाधिकरणपर्यन्तस्यविनापदार्थत्वेऽपि सप्तम्याधेयत्वरूपापदार्थविवरणरूपताया आवश्यकत्वात् । नच विनापदोसरलतसप्तम्यर्थ एवाभाववतीति सप्तम्या विवृत इति वाच्यम् निपातो. त्तरविभक्तेर्निरर्थकत्वात् । अतएव सर्वत्र निपातोत्तरं साधुत्वार्थ प्रथमैवेति शाब्दिकाः । पृथिव्यामेव गन्ध इस्यादावेवकारप्रकृतिकसप्तम्या यदाधेयत्वबोधकत्वमङ्गीकृतं दीधितिकृद्धिस्तत्रापि तेषां न निर्भरः । अस्तु वा तत्र प्रतियोगितया पृथिव्यम्यवृत्तित्वभानानुरोधेनवकारस्यान्यवृत्तित्वार्थकत्वं गौरवादुपेक्ष्य तत्राधेयत्ववाचकत्वेन क्लप्तायाः सप्तम्याः कल्पनम् । प्रकृते चाधेयत्वस्य संसर्गतयैवोपपत्ती विनापदसाकासाधेयत्वार्थकसप्तमीकल्पनं दुष्कल्पनमेव । एवकारस्थलेचाभावरूपपवान्यरूपतदर्थान्तरस्याधेयतासम्बन्ध इति न सम्भवति आधेयतादेस्तद्वत्येव संबन्धत्वात् नत तदभावे । नच तत्राधेयत्वाभावो न प्रतीयत अपितु तत्सम्बन्धावच्छिनप्रतियोगिताकथिव्याधन्याभाव इत्युपेयम् । तादृशप्रतियोगिताकत्वमेवाभावेऽन्यस्य सम्बन्धोस्त्विति वाच्यम् । आधेयतासंबन्धस्य प्रतियोगिन आधारस्यानुयोगिन्याधेये वृत्त्यनियामकत्वेनाभावप्रतियोगितानवच्छेदकत्वात् । चैत्रः पचतीत्यादौ कृत्यादिसंबन्धस्यापदार्थत्वेऽपि पाककृतिमानित्यादी मतुबादि. पदेन विवरणवत् उक्तस्थले सामानाधिकरण्यस्य पदेन विवरणमपि न विरोधमासादयति । विवरणीयार्थस्याप्यन्यलभ्यत्वेऽपदार्थतोपपत्तेरित्यलमसदावेशेन । विना वातं वृक्षः पतित इत्यादौ वि. नापदार्थस्याभावस्याश्रयतासंबन्धेन वृक्षेऽन्वयाद्वाताभापविशिष्टो वृक्षः पतित इति शब्दतो लभ्यते । पतनेऽनुभवसिद्धौ चातजन्यत्वाभावलाभश्चार्थः, अन्यतायाः पदानुपस्थाप्यत्वात् । तदभावस्य तस्यवृत्यनियामकसंबन्धत्वात्तदवच्छिन्नवाताभावस्य च शब्देन बोधयितुमशक्यत्वात् । पुत्रं विना गत इत्यादौ पुत्रादिपदं लक्षणया पुत्रगमनादिपरम् विनापदबोध्यतदभावश्च समानकालीनत्वादिसंबन्धेन गमनेऽन्वेति। समानकालीनस्वघटकं कालनिष्ठं स्वाधिकरणत्वमनवच्छिन्न बोध्यमतो गमनादिकाले तदनधिकरणदेशावच्छेदेन गमनाद्यभावसत्त्वेऽपि नातिप्रसङ्गः । केचित्तु उक्तस्थलेऽसाहित्यमेव विनापदार्थः तस्य च गमनादिकर्तर्यान्वयः असाहित्यं च स्वकर्तृकसमभिव्याहृत- ---.-
.- -.. . प्रशासन प्रातिपदिकार्यान्वितप्रतियोगित्वस्याभिधानापत्तेरपि तु सुप्तिङन्तत्वं पदवं बोध्यम्। नप्रयोग इति । धर्मिविशेषणेविधेयसामानाधिकरण्यमात्रभाने दण्डं विना न घटोत्पत्तिरितिवत् रासभंविना नघटोत्पत्तिरित्यपि स्यादनुयोगितावच्छेदकत्वभाने च घटोत्पत्तिमत्त्यपि रासभाभावस्य सत्त्वेनानुयोगिताविशेषणेऽतिप्रसक्ततया तदवच्छेदकलासंभवान्न तादृशप्रयोग इतिभावः। प्रयोगोपपत्तिरिति । उत्पत्यनन्तरं घटस्य दण्डाभाववत्यपि सत्त्वेन घटाभावानुयोगिताव्यभिचारित्वेन तदवच्छेदकत्वासंभवात् तदनुपपत्तिः स्याज्जायत इत्यस्याध्याहारेच दण्डाभाववबृत्तिजन्माभावस्य घटे प्रतीत्या तदुपपत्तावष्यध्याहारदोष एव स्यात् विनार्थाभावस्य प्रयोज्यत्वेनाभाव एवान्वये च विनैवाध्याहारमुक्तप्रयोगोपपत्तिरित्यर्थः । तद्वत्येवेति । आधेयखवत्येव आधारस्याधेयत्वं संबन्धो नत्वाधेयलाभावे तथाच तदन्यवृत्तित्वस्यैवकारार्थत्वंविना न तदन्यनिरूपितवृत्तित्वाभावबोध इति भावः । स्वकर्तृकसमभिव्याहृतेति । नन्वत्र खपदं यदि प्रकृतक्रियाकर्तृपरं तदा द्वितीयाप्रकृत्यर्थस्य चरमकर्तृत्व एवान्वयस्य वाच्यतया तद्रूपसाहित्यस्य पुत्रनिष्ठस्याभावो गमनकर्तरि सहगमनस्थलेपि सत्त्वेन तत्रापि पुत्रचिनागत इति प्रयोगापत्तिः समानकालिकत्वादेव॒त्यनियामकत्वेन तेन तदभावो बोधयितुमशक्यः यदि पुत्रपर तत्तदा तेनान्विते प्रथमकतत्वे पुत्रपदार्थस्यान्वयायोगश्चरमकरीत्वं च पितुनिष्ठमिति तत्रापि तदन्वयासंभव इति चेन्न खपदार्थस्य समभिव्याहृतपुत्रादिपदादेव लाभ