________________
१४८
व्युत्पत्तिवादः । दकदिनपर्याप्तत्रिंशत्त्वादेर्धर्मिविशेषणतापन्नस्य द्वितीयार्थाधिकरणतायां चैत्रकर्तृकाध्ययनाधारतात्वादिव्याप्यधर्मावच्छिन्नं खरूपसंबन्धरूपमवच्छेद्यत्वं संसर्गतया भासतइत्युपगमेन सामञ्जस्यात् । यत्किञ्चिदेकमासं व्याप्य यत्राधीतं तत्राध्ययनाधारतानामवच्छेद्यतावच्छेदकाधारतावृत्त्यन्यतमत्वविशेषादिरूपोक्तधर्मावच्छिम्नानतिप्रसक्तत्वेन तवृत्तित्रिंशत्त्वेनावच्छेदात् न्यूनकालाध्ययनस्थले च अतिप्रसक्ततया ताशस्थ मासत्वस्योक्तरूपावच्छिन्नाधारतानवच्छदकत्वाचाप्रसङ्गातिप्रसङ्गयोरन घकाशात् । मासादिपदप्रवृत्तिनिमित्तधर्म चैत्राध्ययनाधारताया व्याप्यत्वस्य शब्दादलाभेऽप्यर्थतस्तल्लाभादितिद्वितीयाया अस्यन्तसंयोगार्थपरत्वमिति नानुशासनविरोधः । नच भूतलेघटः भूतलं घटवदितिप्रत्ययबलादतिप्रसक्तोऽपि धर्म आधेयत्वाधारत्वयोरवच्छेदकइति वाच्यम् । तादृशप्रत्ययेऽवच्छेदकत्वभानानुपगमात् । आधेयताया अतिप्रसक्तधर्मावच्छेद्यत्वे साध्यसामानाधिकरण्यावच्छेदकधर्मात्मकच्याप्तिशरीरेमिश्रादीनां स्वरूपसम्बन्धरूपावच्छेदकत्वनिवेशस्य व्यभिचारिण्यतिव्याच्या न हातिप्रसक्तमवच्छेदकमिति तत्स्थलीयचिन्तामणिफक्तिकाविरोधेनचासंभवदुक्तिकतापत्तेः। आधारताया अतिप्रसक्तधर्मावच्छेद्यत्वे यद्धेवधिकरणत्वं साध्याधिकरणावच्छेदकमिति तलक्षणव्या. ख्यापक्षे स्वरूपसंबन्धरूपावच्छेदकत्वमवेशं व्यभिचारिण्यतिव्यात्याऽदृषयित्वा विरुद्धदिक्कालाच. च्छिन्नवृत्तिकस्येत्यादिदूषणान्तरेण तत्परित्यज्य दीधितिकृतामनतिरिक्तवृत्तित्वरूपावच्छेदकत्वविवक्षाया असङ्गत्यापत्तेः । अस्तुवाऽव्यासज्यवृत्तिधर्मस्यातिप्रसक्तस्यापि दर्शितप्रतीतिचलादाधाराधेयभावावच्छेदकत्वम्। व्यासज्यवृत्तेस्त्वतिप्रसक्तस्य तदवच्छेदकत्वमप्रसक्तम, क्षितिजलोभयं गन्धवत स्नेहगन्धोभयं क्षितावित्याधप्रतीतेः । अथवा द्वितीयाद्यर्थेऽध्ययनाधारत्वे तत्तन्मासादिरूपप्रकृत्यर्थविशेषणताव तत्तन्मासस्वादिव्यक्तीनां व्यापकतासंबन्धेन पारतमयेणविशोषणावमपेयते । तादृशंच व्यापकत्वं स्वसमानाधिकरणव्याप्यवृत्त्यभावप्रतियोगितावच्छेदकत्वसंयन्धेन स्वावच्छिन्नस्य यो भेदस्तदाश्रयधर्मवरवं, तादृशधर्मश्व चैत्रोऽधीतइत्यादौ चैत्री. याध्ययनाद्याधारतात्वं विशेष्यैव संबन्धेऽन्तर्भावनीयम् । मासान्तरनिष्ठतादृशाभावप्रतियोगितावच्छेदकत्वस्य तादृशधर्म सत्त्वेऽपि तत्तन्मासत्वसमानाधिकरणाभावप्रतियोगितानवच्छेदकतादृश धर्म उक्तसंबन्धेन तत्तन्मासत्वाद्यवच्छिन्नस्य यो भेदस्तदाश्रयत्वमक्षतमेवेति यत्किञ्चिदेकमासादिमात्रव्यापकाध्ययनादिस्थलेऽपि ताशप्रयोगनिर्वाहः । प्रतिमासमधीतइत्यादी प्रत्यादिशब्दानां मासादिपदोपस्थाप्यानुगतरूपावच्छिन्नमासत्वादिमन्निष्ठाभावप्रतियोगितावच्छेदकत्वसामान्याभाव. घटितब्यापकताबोधकतया यत्किञ्चिदेकमासव्यापकाध्ययनादिस्थले न तादृशः प्रयोगः । अथात्यन्तसंयोगार्थकद्वितीयाया एकादिपदं विनापि यत्किश्चिदेकमासादिव्यापकताबोधकत्वउपसद्भिश्चरित्वा मासमेकमग्निहोत्र होतीत्यत्र एकपदवैयर्थ्यमिति चेन्न । तन्त्र मासाधिककालव्यापकत्वेऽपि मास
करणतालव्याप्यधर्मावच्छिन्नमवच्छेद्यवं संसर्गोऽप्रसङ्गातिप्रसङ्गानापादकं संभवत्येवेत्याह । चैत्रकर्तृकाध्ययनाधारतात्वादिव्याप्यधर्मावच्छिन्नमिति । यद्यपि चैत्रीयाध्ययनाधिकरणत्वं नैकं तत्तद्दिननिष्ठतत्तदधिकरणत्वञ्च न खातिप्रसक्तोक्तत्रिंशत्त्वावच्छेद्यं संभवति तथापि तत्तदधिकरणतागतान्यतमत्वेन तदनतिरिक्तवृत्तिवं त्रिंशत्वस्य संभवतीति तादृशान्यतमत्वेन तासु तदवच्छेद्यखसंभव इत्याह । अन्यतमत्वविशेषादीति । अर्थतइति । यस्य यनिष्ठावच्छेद्यत्वनिरूपकरवं तस्य तल्याप्यत्वमिति सामान्यतोव्याप्त्यनुगृहीतागृहीतोक्तावच्छेद्यत्वनिरूपकत्वत इत्यर्थः । अत्यन्तसंयोगार्थपरत्वमिति । उक्तरीत्या यथाकथञ्चिदुक्तसंयोगबोधतात्पर्यकत्वमित्यर्थः । अदूषयित्वेति । अतिप्रसक्तस्याप्यवच्छेदकरवे समानाधिकरणव्यभिचारिमात्रातिव्याप्त्यैव दूषणेन स्वरूपसंबन्धरूपावच्छेदकत्वपरित्यागस्यौचित्यापत्तिरिति भावः । विरुद्धदिकालेति। दिगिति देशस्याप्युपलक्षकम् । तथाच वृक्षः तत्प्राच्यवच्छिन्नसंयोगवान् तत्प्रतीच्यवच्छिन्नविभागात् । वृक्षोमूलावच्छिन्नसंयोगवान् शाखापच्छिन्नविभागात् । तत्कालावच्छिन्नसंयोगवान् । एतत्कालावच्छिन्नविभागादिति स्थलत्रयलाभः । तेपुच साध्याधिकरणतायाः खरूपसंबन्धरूपावच्छेदकत्वस्य हेखधिकरणत्वे ह्यसंभवाव्याप्तिदोषो यद्यप्यतिव्याप्यपेक्षया बलवानिति संभवतोप्यतिव्याप्तिदोषस्योपेक्षेवोचिता तथाप्यतिव्याप्तेः प्रसिद्धस्थलीयत्वेनाप्रसिद्धस्थलीयाच्यायपेक्षया प्रथमोपस्थितत्वेन निर्बीजतत्परित्यागस्यानुचि