________________
गूढार्थतत्वालोकव्याख्यासहितः ।
१६३ पात्रादेरपि खरूपयोग्यतया करणत्वापसेः । लिङ्गशानस्थानुमितिकरणतामते धूमेन वहिमनुमिनोतीत्यादौ धूमादिपदं तमानपरम् । व्याप्तिविशिष्टहेतुशानस्य व्यापारस्तद्विशिष्टवैशिष्ट्यावगा. हीपरामर्शः । स चात्ममनोयोगादिरूपानुमातृपुरुषव्यापाराधीन इति तस्य निरुककरणत्यमबाधितमेव । धूमादिलिङ्गकवन्धनुमितौ यत्र लिनान्तराद्धटादिभानं तत्र तेन घटमनुमिनोमीति न प्र. योगः । अन्वयितावच्छेदकतद्विधेयकानुमितित्वावच्छेदेनैवान्वयितावच्छेदकधूमादिविषयकज्ञानत्वावच्छिन्नत्वेन भासमानस्य करणत्वस्य निरूपकत्वभानोपगमात् निरूपकत्वं तु करणतामात्रस्य तृतीयार्थतावादिनां प्राचां मते संसर्गः । नव्यमते तु करणतानिरूपकत्वस्यैव नर्थाभावे प्रतियोगित्वेनाम्वयात्तावत्पर्यन्तस्य तृतीयार्थतया प्रकारतेत्यन्यदेतत् । __ परेतु लिङ्गमानस्य करणत्वेऽपि धूमेनानुमिनोतीत्यादौ धूमादिपदं मुख्यार्थमेव हेताविति सूत्रेण तत्र तृतीया । हेतुत्वस्य कारणतावच्छेदकसाधारणप्रयोजकत्वरूपस्य तत्र विवक्षितत्वात् । जनकमानविषयधूमादेश्चानुमितिकारणतावच्छेदकतया प्रयोजकत्वमक्षतमेव । उक्तसमूहालम्बनस्थलेऽतिप्रसङ्गध वद्विविधेयकानुमितित्वावच्छेदेन प्रयोजकतानिरूपकत्वभानाभ्युपगमेन वारणीयः । वस्तुतो जनकतावच्छेदकादिनिष्ठप्रयोजकतानिरूपकत्वं कार्यस्येव कार्यतावच्छेदकस्याप्यक्षतं प्रतीतिसाक्षिकं च । तथाचानुमितिविशेषणतत्तद्विधेयकत्वरूपसुबन्तार्थएव तृतीयार्थान्वय उपगम्यते । समूहालम्बनानुमितिनिष्ठघटादिविधेयकत्वस्य धूमाद्यप्रयोज्यतया नोक्तार्थातिप्रसङ्गः । धूमेन यतिमनुमिनोति न घटेनेत्यादावनुमितौ घटादिप्रयोज्यत्वाभावो नान्वेति अपितु नअर्थाभावप्रतियोग्यन्वयिनि धन्यादिविधेयकत्वएवातो यत्र धूमादिलिङ्गचन्ह्यनुमिती घटादिरूपलिनाधीनं द्रव्यस्वादिभानं तत्र धूमेन वह्निमनुमिनोति न घटेनेति प्रयोगोपपत्तिः । समूहालम्बनरूपतादृशानुमितौ घटादिरूपलिङ्गप्रयोज्यत्वाभावस्यासत्वेऽपि वन्ह्यादिविधेयकत्वे तदबाधात् । मह्यमुमितावपि द्रव्यत्वादिविधेयकत्वावच्छिन्नघटादिलिङ्गप्रयोज्यत्वस्य वन्ह्यादिविधेयकत्वावच्छेदेनाभायो बाधित इति संभवति । प्रयोज्यताया व्याप्यवृत्तित्वात् । एतेनानुमितौ धूमादिलिनशानकरणकत्वं तृतीयया प्रत्याय्यते। करणएव तृतीया तत्रेति मतं प्रत्युक्तम् । उक्तस्थलेऽनुमिती नअर्थान्वययोग्यताया अनुपपत्तेः । वयादिविधेयकत्वे धूमादिशानरूपकरणजन्यतावच्छेदकत्वतदभावौ तृतीयान्ततत्समभिव्याहृतनबुभ्यां प्रत्याय्येत इत्यपि न सत् । कारकविभत्त्यर्थस्य क्रियातिरिक्तेऽनन्वयात् । न चोक्तस्थले वहयादिविधेयकत्वावच्छेदेन घटादिरूपलिनशानजन्यतावदनुमितिमत्त्वाभावः पुरुषनिष्ठो नत्रा प्रत्याय्यते तादृशानुमितिघंटादौ वयादिलिङ्गत्वभ्रमदशायां प्रसिद्धति वाच्यम्। धूमेन वढेरनुमानमिदं न घटेनेत्यादावनुमितिमत्त्वाद्यभावबोधानुपपत्तेरिति प्राहुः। पर्वतो धूमेन यति मानित्यादौ क्रियायोगाभावाद्धेतुतृतीयैव तत्र ज्ञापकज्ञानविषयत्वं हेतुत्वं ज्ञानज्ञाप्यत्वरूपं वा हेतुमत्त्वं तृतीयार्थः । हेतुशब्दो यद्यपि कारणपर्यायो न तु सापकपर्यायस्तथापि हेतावितिसूत्रस्थहेतपटन समभिव्याहृतनिरूपितहेतुतामात्रपरमपितु समभिव्याहृततज्शानान्यतरनिरूपितहेतुतापरमेवेति स.
पटिहानतमानविषयधमादिपदादपि तृतीया तत्सूत्रेणानुशिष्यते । गणहती प. श्चम्या विकल्पेन विधायकसूत्रान्तरमप्यन्यतरनिरूपितहेतुताविषयकमेवातो जाड्यावद्धो जाये घेत्यत्र जाड्यहेतुतावद्भूमावह्निमान् धूमेन वेत्यादौ धूमादेर्वयादिशानहेतुता प्रतीयते । हेतुत्वं च
---- --------- ----- समासापटकेन तेन साकावत्वे सापेक्षखापस्या समाससाधुता न स्यादिति भावः । अनुमितित्वावच्छेदेनैवेति । इदशावच्छेदकलं खरूपसंबन्धरूपमेव नबनतिरिक्तवृत्तित्वम् आलोकादिलिङ्गकवलिविधेयकानुमितावपि तादृशकरणखनिरूपकलशल्ये वतिविधेयकानुमितिलस्य सत्त्वात् । नचैवं बहिविधेयकानुमितित्वस्य धूमज्ञानलावच्छिन्नकरणतानिरूपकतायां न खरूपसंबन्धरूपावच्छेदकत्वस्यापि संभव इतिवाच्यम् । अवच्छेदकलपर्याप्तिभानानभ्युपगमेन धूमलिङ्गकवचनुमितिलावच्छिन्ननिरूपकल एव तत्संभवात् । अनुमानमिदमिति । अनुमितिरियमित्यर्थः ।