________________
व्युत्पत्तिवादः । पूर्वोक्त प्रयोजकत्वमेघ । गुणपदं च न रूपादि चतुर्विशतिपरम् , धूमादिहेतौ तत्त्वासम्भवात् । नच तत्र धूमादिपदं तज्ज्ञानपरमेवेति तादृशगुणत्वमेष बयादिहेतोरिति वाच्यम्। तत्र धूमादिशानलाक्षणिकत्वेऽप्यक्षानाद्ध इत्यादावभावरूपबन्धादिहेतोस्तथात्वासंभवात् । नापि धर्ममात्रपरम् ।गगनावरपि कालिकसंबन्धेन धर्मतयाऽव्यावर्तकत्वात् । समवायादिना धर्मत्वं चाभावाद्यसंग्राहकम् । नापिद्रव्याश्रितत्वम् । सत्तावान् गुणत्वादित्यादौ पञ्चम्यन्तस्यालाक्षणिकत्वपक्षे पञ्चम्यनुपपत्तेः। किन्तु कार्यस्य ज्ञाप्यस्य वाश्रये आश्रितत्वम् । जाड्यादेः स्वप्रयोज्यबन्धाश्रये धूमादेश्व स्वज्ञाप्यवलया. द्याश्रयाश्रितत्वाहुणत्वम् । हेतो तद्विशेषणप्रयोजनंच पितुः पाण्डित्येन पुत्र आहूतो धूमस्य स्वस्मिन्सस्वेन पर्वतो वह्निमानित्यादौ पञ्चमीवारणम् । शापकत्वं च तज्ज्ञानजनकप्रमाविषयत्वं ज्ञाप्यत्वमपि प्रमा. जन्यज्ञानविषयत्वम् । अतो वह्नयादेव्योप्यताभ्रमेण धूमादिज्ञापकत्वसत्वेऽपि वहिनावहेवो धूमवानय मित्यादयो न प्रयोगाः । प्रमात्वंच, याचमभिन्नत्वरूपं विवक्षणीयम् । तेन धूमव्याप्यो वह्रिरित्यादि. झानस्य वहिवायंशे प्रमात्वमादाय नोक्तातिप्रसङ्गीद्रव्यत्वादेःप्रमेयत्वावच्छिन्नवहयादिशाएकस्वेऽपि विशिष्टद्रव्यत्वादिनावद्वित्वाद्यवच्छिन्नशापकत्वेऽपि च पर्वतो वद्विमान् द्रव्यत्वाद दिने प्रयोगः। अन्वयितावच्छेदकवहित्यद्रव्यत्वत्वादिना ज्ञाप्यज्ञापकभावस्य तृतीयादिना बोधनात् तत्र तेन रूपेण ज्ञाप्यज्ञापकभावविरहात् । एवं शाप्यवह्नयादिमत्वान्वयितावच्छेदकपर्वत च्छिमांशे झापकत्वं शाप्यत्वं वा प्रतीयतइत्यपि नियमः। तेन पर्वतो वहिमान् महानसत्वान्महानसेन वेत्यादयो न प्रयोगाः। अत्रेदमवधेयम् । पर्वतो वहिमान् धूमान्न द्रव्यत्वात्रापि महानसत्वादित्यादौ नत्रा वयादी द्रव्यत्वमहानसत्वादिज्ञाप्यत्वाभावबोधने बाधः तत्र प्रमेयत्वादिना द्रव्य स्वादिज्ञाप्यत्वस्य महानसादौ महानसत्वादिज्ञानशाप्यत्वस्य चसत्त्वात् वह्रिस्वादिना द्रव्यत्वादिशाप्यत्वस्य पर्वतादी महानसत्वज्ञाप्यत्वस्य चाप्रसिद्भया नाभावप्रत्यायनसंभव इति झानजन्यतावच्छेदकत्वरूपं समभिव्याहतपर्वतादिविशेष्यतानिरूपितं विधेयरवन विशकलितं पश्न. म्यर्थः विशिष्टलाभोऽन्वयबलात् । पवंचोक्तस्थले ना विधेयतायां द्रव्यत्वमहानसत्वादिशानप्रयोज्यत्वाभावः प्रत्याय्यते । तत्प्रयोज्यत्वं च प्रमेयत्वाद्यवच्छिन्नविधेयतायां प्रसिद्धम् । नचैवं पर्वतो पह्निमान् न धूमादित्यादेरपि प्रसङ्गः धूमत्वाचवच्छिन्नविषयकशानाप्रयोज्यतत्तद्वह्नित्वाद्यवच्छिन्नविधेयताया वह्नयादावबाधितत्वादिति वाच्यम् । पर्वतादिविशेष्यतानिरूपितवह्नित्वावच्छिन्नविधेयतात्वावच्छेदेन विधेयतायां नमाऽभावान्वयबोधोपगमात् । यत्र वह्नित्वावच्छिन्नविधेयतात्वमन्वयितावच्छेदकं तत्रैव तदवच्छेदेनेतरान्वयः संभवति । अत्रच वहित्वावच्छिन्नत्वाविशेषितं विधेयतात्वमेव तथेति कथं तदवच्छेदेनाभावान्वय इतितु न शक्यम् पञ्चम्याद्यर्थविधेयताया वयादी वद्वित्वाद्यवच्छेदेनान्वयोपगमासरच्छेदेन तदन्वये चावच्छेदकतपस्य तद्विशेषणांशे धर्मिपारतम्येण प्रकारत्वात् । प्रकृते स्वरूपसंबन्धरूपवतित्वाद्यवच्छिन्नत्वेन सहितस्य विधेयतात्वस्यैवान्वयितावच्छेदकत्वात् । वलयादिपदमेव तदवच्छिन्नविधेयताशालिज्ञानपरम् तदुत्तरमतुबादिप्रत्ययो विशेष्यतारूपसंबन्धपर इति प्राचीनमतेतु वह्नित्वाद्यवच्छिन्नविधेयतात्वस्यान्वयिसावच्छेदकत्वमविवादमेव । विधेयतायास्तत्तत्संबन्धावच्छिन्नविधेयतात्वेन पञ्चम्याद्यर्थत्वं स्वीकर. णीयम् । तेनायं जानाति, आत्मत्वान्न द्रव्यत्वादित्यादी विषयतासंबन्धावच्छिन्नायां प्रकृतविशेष्यतानिरूपितज्ञानविधेयतायां द्रव्यत्वादिरूपलिङ्गज्ञानप्रयोज्यत्वसत्त्वेऽपि नावच्छेदकावच्छेदेनाभावाघयायोग्यत्वम् संबन्धविशेषावच्छिन्नविधेयतात्वरूपान्वयितावच्छेदकायच्छेदेनाभाववत्वबोधात ।
आश्रितत्त्वमिति । हेतुतानिर्वाहकसंबन्धेन कालिकाद्यन्यसंबन्धेन वा बोध्यम् । स्वस्मिन्निति । पर्वतइत्यर्थः । झापकत्वं ज्ञाप्यत्वंचेति । पश्चम्यास्तृतीयाया वा ज्ञानजन्यज्ञानविषयत्वरूपो योर्थस्तद्धटकस्य प्रथमस्य ज्ञानस्य विषयलं ज्ञापकवं द्वितीयस्य ज्ञाप्यत्वं तत्र प्रथमज्ञाने प्रकृत्यर्थस्य विषयतानिरूपकत्वमानं न संसर्गोऽपि तु सममिव्यहारविशेषतात्पर्यज्ञानादिनलारपर्वतलावच्छिन्नविषयतानिरूपितखनिष्पविषयताकत्वं द्वितीयज्ञानस्य वा वह्नयादौ विषयत्वस्य