Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 141
________________ गूढार्थतत्वालोकव्याख्यासहितः । १३७ राशा आरोग्यत्वेन कवेरुत्प्रेक्षितत्वात् । नरषमाख्यातस्य । तथा एको द्वौ ज्ञायते इत्याद्युभयार्थाभेदारोपस्थलीयवाक्ये एकादि पदार्थस्यारोपविशेषस्याख्यातार्थविशेष्यतयान्वय विशेष्यतया तत्पदसमानवचनत्वमाख्यातस्य । नचैत्रम मानि तत्तेन निजायशोयुगं द्विफालबद्धाश्चिकुराः शिरः स्थितमित्यत्र कथमारोप्यविशेष्यवाचकपदविरुद्धवचनत्वममानीतिक्रियापदस्येति वाच्यम् । तत्रायशोद्रयस्य वास्तवत्वं न चिकुर भागद्वयस्य आख्यातार्थविशेष्यतान्वयविशेष्यत्वेना यशोयुगस्यैष विवक्षितत्वात् । इच्छार्थक धातुस्थले मुख्यविशेष्यत्वरूपं कर्मत्वं द्वितीयाद्यर्थः अतो वृष्टिसाध्यं सुखं भवत्वित्यादि इच्छास्थले सुखमिच्छतीत्यादिवदृष्टिमिच्छतीत्यादयो न प्रयोगाः । अथ अहं सुत्री स्यामित्यादीच्छायाः सुखादिविशेषणकतया तत्र सुखमिच्छतीत्यादिप्रयोगानुपपत्तिरिति चेन । मम सुखं भवत्वित्यादिसुखविशेष्यकेच्छाया एव कदाचित्सुखादिविशिष्टात्मबोधकशब्देन विषयाभिलापात् । स्वकृत्यधीनसिद्धिकत्वरूप स्वकृतिसाध्यत्वप्रकारक पाक विशेष्य केच्छाया एव पार्क कृत्या साधयामीतिपाक सिद्ध्यनुकूल कृत्यभिन्नव्यापार विशिष्टबोधकशब्देन विषयाभिलापयत् । यदि चोद्देश्य सुखादेर्विशेषणतयापि कचिद्वानमानुभविकं तदोद्देश्यादिव्यवहार नियामकः कचित्किचि द्विशेषणसाधारणो विषयताविशेषोऽभ्युपेयः । अनुमितौ विशेष्यतया काचित्कभानविषयसाध्यनिष्टविधेयताख्यविषयतावत् । स पवच सुखमिच्छतीत्यादौ द्वितीयाद्यर्थः । ग्राममिच्छतीस्यादौ ग्रामादिपदं ग्रामस्वत्वादिपरम् । अत एवच सिद्धस्य ग्रामादेर्मुख्यविशेष्यताया उपदर्शि तविलक्षणविषयतया विरहेपि न क्षतिः । ग्रामादेः सिद्धत्वेऽपि स्वस्वत्वाद्य सिद्धोपरक्तस्येच्छायां प्राधान्येन क्वचिद्भानं, विशिष्टस्यासिद्धत्वात् । तत्रैव च ग्राममिच्छतीत्यादिप्रयोग इत्यपि वदन्ति । पाकं चिकीर्षतीत्यादौ द्वितीयाया विशेष्यतारूपकर्मत्वार्थकतया कृतिप्रकारकपाकविशेष्य केच्छा प्रतीयते । सा च पार्क कृत्या साधयामीतीच्छा । अथवा सनो धात्वर्थविशेष्यकेच्छावाचित्वात्कृतिविशेष्यकेच्छा चिकीर्षापदार्थः । सा च पाककृतिर्भवत्वितीच्छेव । प्रवर्त्तिका च सा भवतु मा वे त्यन्यदेतत् । पाकादेश्व कृतिकर्मत्वमेव द्वितीयया प्रत्याय्यते, न विच्छाया विषयत्वरूपं कर्मत्वम् । गृहस्थितीच्छामादाय गृहं तिष्ठासतीत्यादिप्रयोगापत्तेः । युक्तं चैतत् सनो धात्वर्थप्रकारकेच्छावाचित्वे ओदनभोजनेच्छादशायामोदनं बुभुक्षतइति प्रयोगो न स्यात् । तत्र भोजनस्याप्रकारत्वात् । न च कर्मता संबन्धेन भोजनप्रकारिका यदा ओदनविशेष्यिकेच्छा तदैवैतादशप्रयोगः । सा चेच्छा भोजनधर्मिकेष्टसाधनताज्ञानाद्भोजनविशिष्टोद्नधर्मिकेष्टसाधनताज्ञानाद्वा । ओदनस्य सिद्धतादशायामपि विशिष्टधर्मिकेष्टसाधनताज्ञानाद्विशिष्टधर्मिकासिद्धत्वज्ञानसहिताद्विशिष्टेच्छासंभवात् । यत्र भोजनसिद्धतादशायां भोजनोत्तरकालीनगमनत्वादिप्रकारिका भुक्तौदनजन्यपुष्टित्वादिप्रकारिका वेच्छा तत्र वुभुक्षतइति प्रयोगस्य न प्रसङ्गः । मुख्य विशेष्यविशेषणतापन्नकर्मत्यांशे इच्छाप्रकारताया एव सन्प्रकृत्यर्थभानोपगमादिति वाच्यम्, भोजनं भवत्वित्यादिभोजनविशेष्यकेच्छादशायामपि बुभुक्षतइतिप्रयोगस्य सर्वसिद्धत्वात् । धात्वर्थविशेष्यकेच्छाबोधकतायाः सम्प्रत्ययस्यावश्यमुपेयत्वात् । न च द्वयी व्युत्पत्तिरेवोपेयते पकव्युत्पत्त्यैव निर्वाहे व्युत्पत्तिद्रयकल्पने गौरवात्, अतपवच स्थित्यादिगोचरेच्छाया गृहादिविशेष्यकत्वस्योकरीत्या संभवेऽपि गृहं तिष्ठासतीत्यादयो न. प्रयोगाः । भोजनप्रकारकौ दन विशेष्य के च्छाविशेषदशायां बुभुक्षतइति प्रयोगसत्वे तु उद्देश्यताव्यविषयताया एव धात्वर्थे भानोपगमेन तस्य निर्वाहात् । नत्र धात्वर्थविशेष्य केच्छायाः सन्प्रत्ययार्थत्वे पाकं चिकीर्षति ओदनं बुभुक्षतइत्यादी पाकौदनादेर्द्वितीयया कृतिभोजनादिकर्मत्वप्रत्याय विशेषणत्तापन्नकर्मत्वांश इति । ओदनं भोजन कर्म भवत्वितीच्छाभिप्रायेणेदम् कर्मशइति युक्तः पाठः कर्मपदं धात्वर्यपरमिच्छाविषयपरं वा तेन कर्मतासंबन्धेनभोजनप्रकारिकेति पूर्वप्रन्धस्य नासंगतिः नवाधिकरणत्वसंबन्धेन गृहविशेष्यकस्थितित्रकारकेच्छादशायां तिष्ठासतीतिप्रयोगानुपपत्तिः । अतएवेति । धात्वर्थप्रकारकेच्छायाः सन्तयत्वस्य तदन्वनिविशेष्यलस्य १८ व्युत्प०

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218