________________
गूढार्थतत्वालोकव्याख्यासहितः ।
१३७
राशा
आरोग्यत्वेन कवेरुत्प्रेक्षितत्वात् ।
नरषमाख्यातस्य । तथा एको द्वौ ज्ञायते इत्याद्युभयार्थाभेदारोपस्थलीयवाक्ये एकादि पदार्थस्यारोपविशेषस्याख्यातार्थविशेष्यतयान्वय विशेष्यतया तत्पदसमानवचनत्वमाख्यातस्य । नचैत्रम मानि तत्तेन निजायशोयुगं द्विफालबद्धाश्चिकुराः शिरः स्थितमित्यत्र कथमारोप्यविशेष्यवाचकपदविरुद्धवचनत्वममानीतिक्रियापदस्येति वाच्यम् । तत्रायशोद्रयस्य वास्तवत्वं न चिकुर भागद्वयस्य आख्यातार्थविशेष्यतान्वयविशेष्यत्वेना यशोयुगस्यैष विवक्षितत्वात् । इच्छार्थक धातुस्थले मुख्यविशेष्यत्वरूपं कर्मत्वं द्वितीयाद्यर्थः अतो वृष्टिसाध्यं सुखं भवत्वित्यादि इच्छास्थले सुखमिच्छतीत्यादिवदृष्टिमिच्छतीत्यादयो न प्रयोगाः । अथ अहं सुत्री स्यामित्यादीच्छायाः सुखादिविशेषणकतया तत्र सुखमिच्छतीत्यादिप्रयोगानुपपत्तिरिति चेन । मम सुखं भवत्वित्यादिसुखविशेष्यकेच्छाया एव कदाचित्सुखादिविशिष्टात्मबोधकशब्देन विषयाभिलापात् । स्वकृत्यधीनसिद्धिकत्वरूप स्वकृतिसाध्यत्वप्रकारक पाक विशेष्य केच्छाया एव पार्क कृत्या साधयामीतिपाक सिद्ध्यनुकूल कृत्यभिन्नव्यापार विशिष्टबोधकशब्देन विषयाभिलापयत् । यदि चोद्देश्य सुखादेर्विशेषणतयापि कचिद्वानमानुभविकं तदोद्देश्यादिव्यवहार नियामकः कचित्किचि द्विशेषणसाधारणो विषयताविशेषोऽभ्युपेयः । अनुमितौ विशेष्यतया काचित्कभानविषयसाध्यनिष्टविधेयताख्यविषयतावत् । स पवच सुखमिच्छतीत्यादौ द्वितीयाद्यर्थः । ग्राममिच्छतीस्यादौ ग्रामादिपदं ग्रामस्वत्वादिपरम् । अत एवच सिद्धस्य ग्रामादेर्मुख्यविशेष्यताया उपदर्शि तविलक्षणविषयतया विरहेपि न क्षतिः । ग्रामादेः सिद्धत्वेऽपि स्वस्वत्वाद्य सिद्धोपरक्तस्येच्छायां प्राधान्येन क्वचिद्भानं, विशिष्टस्यासिद्धत्वात् । तत्रैव च ग्राममिच्छतीत्यादिप्रयोग इत्यपि वदन्ति ।
पाकं चिकीर्षतीत्यादौ द्वितीयाया विशेष्यतारूपकर्मत्वार्थकतया कृतिप्रकारकपाकविशेष्य केच्छा प्रतीयते । सा च पार्क कृत्या साधयामीतीच्छा । अथवा सनो धात्वर्थविशेष्यकेच्छावाचित्वात्कृतिविशेष्यकेच्छा चिकीर्षापदार्थः । सा च पाककृतिर्भवत्वितीच्छेव । प्रवर्त्तिका च सा भवतु मा वे त्यन्यदेतत् । पाकादेश्व कृतिकर्मत्वमेव द्वितीयया प्रत्याय्यते, न विच्छाया विषयत्वरूपं कर्मत्वम् । गृहस्थितीच्छामादाय गृहं तिष्ठासतीत्यादिप्रयोगापत्तेः । युक्तं चैतत् सनो धात्वर्थप्रकारकेच्छावाचित्वे ओदनभोजनेच्छादशायामोदनं बुभुक्षतइति प्रयोगो न स्यात् । तत्र भोजनस्याप्रकारत्वात् । न च कर्मता संबन्धेन भोजनप्रकारिका यदा ओदनविशेष्यिकेच्छा तदैवैतादशप्रयोगः । सा चेच्छा भोजनधर्मिकेष्टसाधनताज्ञानाद्भोजनविशिष्टोद्नधर्मिकेष्टसाधनताज्ञानाद्वा । ओदनस्य सिद्धतादशायामपि विशिष्टधर्मिकेष्टसाधनताज्ञानाद्विशिष्टधर्मिकासिद्धत्वज्ञानसहिताद्विशिष्टेच्छासंभवात् । यत्र भोजनसिद्धतादशायां भोजनोत्तरकालीनगमनत्वादिप्रकारिका भुक्तौदनजन्यपुष्टित्वादिप्रकारिका वेच्छा तत्र वुभुक्षतइति प्रयोगस्य न प्रसङ्गः । मुख्य विशेष्यविशेषणतापन्नकर्मत्यांशे इच्छाप्रकारताया एव सन्प्रकृत्यर्थभानोपगमादिति वाच्यम्, भोजनं भवत्वित्यादिभोजनविशेष्यकेच्छादशायामपि बुभुक्षतइतिप्रयोगस्य सर्वसिद्धत्वात् । धात्वर्थविशेष्यकेच्छाबोधकतायाः सम्प्रत्ययस्यावश्यमुपेयत्वात् । न च द्वयी व्युत्पत्तिरेवोपेयते पकव्युत्पत्त्यैव निर्वाहे व्युत्पत्तिद्रयकल्पने गौरवात्, अतपवच स्थित्यादिगोचरेच्छाया गृहादिविशेष्यकत्वस्योकरीत्या संभवेऽपि गृहं तिष्ठासतीत्यादयो न. प्रयोगाः । भोजनप्रकारकौ दन विशेष्य के च्छाविशेषदशायां बुभुक्षतइति प्रयोगसत्वे तु उद्देश्यताव्यविषयताया एव धात्वर्थे भानोपगमेन तस्य निर्वाहात् । नत्र धात्वर्थविशेष्य केच्छायाः सन्प्रत्ययार्थत्वे पाकं चिकीर्षति ओदनं बुभुक्षतइत्यादी पाकौदनादेर्द्वितीयया कृतिभोजनादिकर्मत्वप्रत्याय
विशेषणत्तापन्नकर्मत्वांश इति । ओदनं भोजन कर्म भवत्वितीच्छाभिप्रायेणेदम् कर्मशइति युक्तः पाठः कर्मपदं धात्वर्यपरमिच्छाविषयपरं वा तेन कर्मतासंबन्धेनभोजनप्रकारिकेति पूर्वप्रन्धस्य नासंगतिः नवाधिकरणत्वसंबन्धेन गृहविशेष्यकस्थितित्रकारकेच्छादशायां तिष्ठासतीतिप्रयोगानुपपत्तिः । अतएवेति । धात्वर्थप्रकारकेच्छायाः सन्तयत्वस्य तदन्वनिविशेष्यलस्य
१८ व्युत्प०