Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
व्युत्पत्तिवादः ।
नसंभवेऽपि पाकश्चिकीर्ण्यतओदनोबुभुक्ष्यत इत्यादौ कर्माख्यातेन तत्प्रत्यायनासंभवः तत्प्रकृतिभूतसन्नन्तधात्वर्थकृतिभोजनेच्छाकर्मत्वस्यैव तत्प्रत्ययेन बोध्यत्वात् प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वातू इच्छाविषयत्वविशेषितविशिष्टकृतिभोजनादेश्व प्रकृत्याप्रतिपादनादिति वाच्यम् । कत. प्रत्ययस्थले सन्प्रत्ययार्थेच्छाया धात्वर्थविशेभ्यतया भानेऽपि कर्मप्रत्ययस्थले तस्या धात्वर्थविशेषणतया भानोपगमात् । चिकीर्ण्यतेपाकइत्यादौ इच्छाविशेषितकृत्यादेरेव सन्नन्तेन प्रतिपादनात्, तादृशकृत्यादिकर्मताया आत्मनेपदादिना प्रत्यायनसंभवात् । आख्यातायुपस्थितवर्तमानत्वादेश्च कृत्यादिविषयकेच्छा यत्र प्रकृत्यर्थः यत्रवेच्छाविषयकृतिस्तत्रोभयत्रैधेच्छायामन्वयः, प्रकृत्यर्थकदे. शेऽपि नीलतरो घटइत्यादिस्थले नीलरूपादौ तरबाद्यर्थातिशयान्वयानुरोधात् । न चैवं कर्मप्रत्यय स्थलेऽपि कृतिविशेषितैवेच्छा सना प्रत्याय्यतां, विशेषणीभवन्ती कृतिरेव कर्मत्वेनान्वीयताम् भघन्मते विशेषणीभूतेच्छायां वर्तमानत्वाद्यपराख्यातार्थान्वयवदिति वाच्यम् । एकत्र विशेषणतयोपस्थितस्यान्यत्र विशेषणतयान्वयोव्युत्पन्न इति प्रथमान्तार्थविशेषणकर्मत्वे इच्छायां विशेषणतयोपस्थितस्य धात्वर्थस्य विशेषणतयान्वयायोगात् विशेष्यतया चान्वयस्याप्रसक्तत्वात् । धात्वर्थविशेषणतया इच्छाभानेपि तस्या धर्तमानस्वादिविशेष्यतयैव भानेनोक्तव्युत्पत्तिविरोधविरहात् । एवं धात्वर्थस्येतरविशेषणतयोपस्थितस्य खातम्यण कर्मताविशेषणत्वमयुक्ततममेव । प्रकृत्यर्थस्यैकदेशेऽपिप्रकृत्यर्थान्तर्गततया भासमानएव प्रत्ययार्थान्वयदर्शनात्, नतु स्वातम्येण भासमानइच्छारूपविशेष्यपारतन्येण कर्मत्वान्वयोपि, इच्छया कर्मत्वानन्ययेन दुर्घटः । विशेषयान्वयिन्येव विशेषणस्य पारतमयेणान्वयस्य विशिष्टान्वयस्थले व्युत्पत्तिसिद्धत्वात् , अथास्तु विषयतारूपकर्मत्वे विकीर्यते पाकरस्यादाविच्छायास्तत्परतन्त्रकृतेश्चान्वयः । उभयत्रैव पाकादेविषयत्वात् । स्थित्यादिकर्मत्वाप्रसि
याच गृहं तिष्ठास्यते इत्यादेरप्रसङ्गादिति चेत्, ओदनो बुभुक्ष्यते इत्यादौ का गतिः तत्रेच्छाकर्मताया विषयतारूपत्वात् , भोजनादिकर्मतायाश्च तदन्यत्वात्, विशेष्यीभवदिच्छान्वयिनि कर्मत्वे भोजनाद्यन्वयायोग्यत्वेन विशिष्टान्वयासंभवात् । वस्तुतः पाकश्चिकीर्ण्यतइत्यत्राप्यगतिरेव । कृतिविशेषणतया पाकनिष्ठेच्छाविषयतायाः कृत्यविशेषणतया तनिष्ठकृतिविषयताभिन्नतयेच्छान्वायनो विषयत्वरूपकर्मत्वस्य कृत्यन्वयायोग्यत्वात् । यदिच विशेष्यान्वयिव्यक्तावेव तत्पारतन्येण विशेषणान्वय. इति न नियमः अपितु तदन्वयितावच्छेदकावच्छिन्नएवेति । तथा च विषयतात्वावच्छिन्नस्योभया. न्वययोग्यतया न प्रकृतेऽप्यन्वयानुपपत्तिः । अतएवारुणयेत्यादावारुण्यनिरूपितसाध्यताया गोनिरूपितसाध्यताभिन्नत्वेऽपि न तृतीयाथै विशिष्टान्वयानुपपत्तिः । तत्र परम्परया विशेष्यान्वयिसोमक्रयव्यक्तेः परम्परया विशेषणान्वयिव्यत्यभेदवत् प्रकृतेऽपि परम्परयोभयान्वयिकर्मव्यत्यभेदोऽक्षत एवेत्युच्यते तदा भोजनकृतिर्भवतु पाकश्च भवत्वितिसमूहालम्बनेच्छामादाय पाकश्चिकीयतइति प्रयोगस्य कालान्तरीयकृतिविषयतामादाय दुरितैव । विषयितासंबन्धेनेच्छाविशेषणीभूतकृतिव्यक्तिकर्मत्वान्वयस्यैव तदिच्छान्धयिनि कर्मण्यन्वयानायमतिप्रसङ्ग इतिचेत्तथापि तदिच्छाकाले पाक इदानी नचिकीर्ण्यतइति प्रयोगानुपपत्तिः । अन्वयितावच्छेदककृतिविषयतात्वकृतिगोचर. वर्तमानेच्छाविषयतात्वावच्छिन्नाभावयोस्तदा पाकेऽसत्त्वात् । नच वर्तमानकालावच्छिन्नकृतिषिषयत्वत्वावच्छिन्नाभाव एव तत्र प्रतीयते स पाके बाधित इति वाच्यम् । यद्यतीतेच्छाधीनपाककृतिरपि तत्र घर्तते तदा तादृशामावस्यापि तत्र बाधात् पाककृतीच्छायामसत्यामुक्तेच्छासत्त्वेऽपि च तथा प्रयोगात् । कृत्यसवेऽपि पाककृतीच्छासत्वे तथा प्रयोगविरहात् । कृतिविषयत्वा
च द्वितीयार्थलानभ्युपगमादेवेत्यर्थः । स्वातन्त्र्येणेति । स विशेष्यस्य तत्रान्वयमनपेक्ष्यान्वयिलम् अतएव कृतिरेव कर्मत्वेनेतीच्छान्वयव्यावृत्त्यर्थमेवकारउपात्तः तनिष्ठरिशेप्यताविशिष्टप्रकारताश्रयत्वं तत्र खात येणान्वयित्वं पर्यवसितम् वैशिष्ट्यं च खनिरूपितलवावच्छेद्यविशेष्यतानिरूपितप्रकारखावच्छेद्य विशेष्यतानिरूपितप्रकारत्वावच्छेद्यत्वसंबन्धावच्छित्रप्रतियोगिताक- . खाभाववत्त्वोभयसंबन्धेन । पारतन्त्र्यमपि स्वनिरूपितलखातच्यघटकाभावप्रतियोगितावच्छेदकीभूतनिरुक्कप्रकारखावच्छेद्यत्वो

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218