Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
गूढार्थतत्वालोकव्याख्यासहितः । तावादिनेति गौरवम् । एवं तादृशसमभिव्याहारज्ञानघटितसामय्या भिन्नयोग्यताशानघटितत्वेन द्वैविध्यमिति भिन्नविषयकप्रत्यक्षादिकं प्रति तादृशशाब्दसामग्रीप्रतिबन्धकताया अप्याधिक्यमिति वाच्यम अभेदस्य संसर्गतावादिनोक्तस्थलेपि तत्संसर्गकबोधस्यैवोपगमादिति दिक। स्तोकं पचति
द्वैविध्यस्य दुष्परिहरत्वात् उक्तप्रकारेण कार्यकारणयोरनुगमकधर्मस्य कथंचित्सम्भवेप्यन्वयव्यतिरेकतानवच्छेदकस्य तस्यान्यतमत्वादिवत्तादृशधर्मान्तरेणाकार्यकारणाभिमतानुगमसंभावनाप्रयोजकत्वेन कार्यानुपलब्धिलिङ्गकानुमानभङ्गभीत्यन्यथासिद्धिनिरूपकत्वस्यैव खीकरणीयत्वात् । यद्वोक्तक्रमेण द्वैविध्यासंभवं मनसि निधायैवमित्यादिना दूषणान्तरस्योपक्रमः यथा च कारणानन्तर्यमात्रकार्यतावच्छेदकलपक्षस्य यथा कथंचिनिर्वाहस्तथाग्रे वक्ष्यते ।
उक्तस्थलेपि तत्संसर्गकबोधस्यैवोपगमादिति। अथाभेदस्य दुबोधयिषितस्य प्रकारतयाभानप्रयोजकतया कप्तमस्ति चेत्साकाजुपदवृत्तिज्ञानजन्योपस्थितिविषयत्वं कथं संसर्गतया भानमभ्युपेयं तस्य वृत्तिज्ञानस्य हि प्रमावं वाचकादपि शक्तिभ्रमादर्थप्रत्ययदर्शनानापेक्षणीयं येन विशेषणविभक्केः शक्तिज्ञानस्याप्रमात्वे तत्कृतः कश्चिद्विशेषः स्यात् नहि कस्यचिदभ्युपगमः कश्चित्सामन्यां सत्यां कार्यस्योत्पत्ति रो मीटेऽतएबोक्तं प्राक् सर्वमत एवेत्यादिशङ्काग्रन्थे । नच वाच्यमभेदसंसर्गकशाब्द प्रत्येवोक्तसमभिव्याहारज्ञानस्य कारणलमित्याकाङ्क्षाज्ञान विरहात्सामग्येवनास्तीति फलखरूपानिर्णये प्रागेव द्रागेव तस्य गृहीतुमशक्यलात् विपरीते विनिगमकाभावाच संसर्गसंसर्गाविषयत्वप्रयुक्तं लाघवमेव फलवरूपनिर्णयमुखेन विनिगमकमित्यपि न वाच्यं तथासति ततोऽपि लाघवात्समवायेन नीलप्रकारकबोधे संयोगेन वहिप्रकारकबोधे च नीलोघटः संयोगेन वहिमान्पर्वत इत्यादिसमभिव्याहारज्ञानानां कारणलप्रसङ्गात् प्रवृत्त्याद्यथै वुबोधयिषितस्य घटे नैल्यस्य पर्वते वहेश्च तावतैवहि प्रतिपत्तनिर्वाहः । तादृशकारणबिरहादेव चान्यत्रापत्तेरभावात् नीलपदाश्रयस्य मतुपः संयोगस्योपस्थितत्वेपि तस्याकिञ्चित्करीकरणात् नच व्युत्पत्तीनां विरोध इति शयं लाधवसहकृतमाह केणोक्तकार्यकारणभावे सिद्धे तदनुसारेणैव व्युत्पत्तेर्निर्वाच्यखात् कथमन्यथा न नामार्थत्यादिव्युत्पत्तिविरोधमुद्भाव्यैव विभक्त्यर्थसंसर्गवखण्डने निर्वृत्तो भवति प्रकारतावादीति प्रामाणिकमर्थमन्यथाकर्तुं न शक्नोति व्युत्पत्तिसहस्रमपीत्यभ्युपेयमिति चेदुच्यते, वाक्येनैकेन हि धर्मान्तरसंबद्धत्वेन व्यावृत्तो धर्थको भवति प्रतिपिपादयिषित इति व्यावतकश्च धर्मिधर्मान्तरसंबन्धोऽपि तथा, सच यावद्भिरेव पदैः शक्यप्रतिपादनस्तावत्स्वेव पदेषु व्यापृतो भवत्येव प्रतिपादयिता यतो न्यूनमधिकं च प्रतिपादयन् भवति गर्हितः, धर्मान्तरसंबन्धश्च प्रसिद्धानेकधर्मधर्मतादात्म्यमुखेन कथंचिदनकधर्मप्रतिपत्तिरूपफलप्रतिसंधानेन स्वरसतो बा कचित्प्रतिपिपादयिषितः कचिच्चार्थान्तरद्वारा यतस्सर्पत्वसंबद्धं पुरोवर्तिनं नैल्यसंबद्धं घटादिकं वहिसंबद्धं पर्वतादिकं च प्रतिपिपादयिषन् व्यावर्तकसर्पयादिसंबन्धप्रतिपत्तिरूपमुख्यफलायोग परिहरन् वाक्यं प्रयुक्ने व्युत्पन्नसमाजः सायं नीलोघटः वह्निमान्पर्वत इति कदाचिदस्मिन् सर्पलं घटे नैल्यं पर्वते वह्रिरित्यादिकं न जालपि सर्पलमयं नैल्यं घटो वह्निः पर्वत इति न वा सर्पमयं नीलंघटइत्यादि नापिच सर्याय घटोनीलेत्यादि नत्र रजुरियं सर्पःस पीतो घटः नीलः पट इत्यादि तत्र च कारणगवेषणे कियमाणे सर्पलादेराश्रयासंसृष्टस्य सपादिशब्देन संवन्धाग्रहःसाश्रयस्योपस्थितस्य तस्याश्रयापेक्षस्याश्रयातिरिक्तानपेक्षस्य चोपस्थिताश्रयपरित्यागेनाश्रयान्तरेणान्येन वा संबन्धानौचित्यम् । संबन्धस्य च कस्यचित्तत्वेनाभाने बोधस्य समूहालम्बनवलक्षण्यानुपपत्तिर्यावत्पर्यन्तस्य भानाभ्युपगमेनानुपपत्तिपरिहारो बुभुत्सितसंप्रतिपत्तिश्च तदधिक्रभानाभ्युपगमे गौरवंचकारणमुन्नीयते यथा पुरोवर्तिनि सर्पवसंबन्धो बुबोधयिषितः सर्प इति शब्द प्रयुक्त ततश्चोपस्थितस्य साश्रयस्य सर्पखस्य निराकाङ्कतया खतात्र समवायेन भानासंभवादाश्रयस्य च लब्धधर्मकतयाऽनाकाङ्कितधर्मयोगस्य तादात्म्येन तत्र भाने बाधकाभावात् तावन्मात्रभानेनापि जातनिर्वाहो न तादात्म्यप्रतियोगिकखरूपसंबन्धभानमपेक्षते इति तद्भानाभ्युपगमे गौरवम् । एवं सर्या दिशब्दात्खतन्त्रोपस्थितस्य सर्पलस्य बहेश्च यदि पदार्थान्तरभानमनपेक्ष्य पुरोवादिना स्वतः समवायादिभिर्भवेत् संसृष्टतया भानं सर्पवमयं वह्निः पर्वत इत्यादावपि स्यात्संबन्धभानस्योपस्थापकपदानपेक्षस्यैवाभ्युपेयवादुपस्थितस्योपस्थितान्तरविशेषकाभावेन संवन्धभानप्रसङ्गे तदर्थमपिपदस्यापेक्षितत्वेऽनवस्थापातात् । उपस्थापकापेक्षाया आवश्यक्रत्वे वान्योपस्थापननियोगोर्वरिता प्रथमैव हि स्यात्तथा. नहि किञ्चिद्विशेष उपलभ्यते येन तादात्म्यस्य सास्यात्तथानान्येषां संबन्धानां, तादात्म्यस्यासंसर्गत्वपक्ष एव स्याद्विशेषोपलम्भस्तस्य च संसर्गाभावान्योन्याभाववैलक्षण्यानुपपत्यानिरस्तत्वात् । असंसर्गत्वे तस्य तत्वेन भानासंभवेन तत्संसर्गान्तरोपस्थापकपदापेक्षाप्रसंगापाताच्च पदार्थान्तरभानापेक्षायां चाधेयवरूपस्याश्रयतादात्म्यरूपस्य वा तस्योपस्थापकानपेक्षस्य भाने शुक्तस्थलेऽपि स्यादेव भानमन्यस्य चोपस्थापकविशेषस्याकल्पने तूक्तरीत्याप्रथमैव स्यात्तथेतिसपरवमयमित्याद्यप्रयोगबी दुर्लभं स्यादतउक्ततादात्म्यभानान्यथोपपत्तिबहिष्कृततादात्म्यभानाश्रयोपस्थापकतया मतुबाधेयत्वोपस्थापकतया सप्तम्येवाबापोद्वापाभ्यां भवति सिद्धा तथासति तदभावानुभुत्सितार्थप्रतिपत्त्यसंभवादुक्तवाक्यानामप्रयोगः, पर्वतो वहिमान् पर्वते बहिरित्यादीनां प्रयोगस्तत्सद्भावेन बोधसंभवादुपपद्यते इत्येतदपि बीजम् एवं यदि तादात्म्योपस्थापने विनियोगो भवेद्विशेषणविभक्तस्तदा ततस्सव तत्र विनिवर्तेत न या स्यात्तत्र शक्ता गृहीतशक्तिश्च स्यात्तेन तेनासाधारणेन सुवादिरूपेण प्रथमा

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218