Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 72
________________ व्युत्पत्तिबादः । तथासति समासस्थलेऽपि पृथगुपस्थितेः सम्भवादुद्देश्यविधेयभावेन बोधस्य दुर्वारतया तत्सिद्धान्तविरोधस्य दुरित्नात् । एवंचैवं समासशक्तिपक्षपरिष्कारे करणीये न्यायनये समासस्थलीयशाब्दबोधसामग्यामुपस्थितिद्वयप्रवेशेनगौरवमिति शङ्कापि निरस्ता वेदितव्या । प्रत्येकशक्तिग्रहजन्यत्वयं समुदायशक्तिजन्यत्वं विशिविषयवं च निरूप्यनिरूपकभावव्यत्ययप्रयुक्तविषयतात्रयरूपमिति षण्णां कारणविशेषणले व्यासज्यवृत्त्यवच्छेदकत्वानजीकारेण विशेष्यविशेषणभावे विनिगमनाविरहाद्बहुतरगुरुधर्मावच्छिन्नकारणवप्रसझेन समासशक्तिवाद एवं गौरवात् लाघवेनोपस्थितिद्वयस्य कारणत्वे व्यवस्थिते सामग्रीप्रतिबन्धकवादी गौरवस्य फलमुखत्वेनादोषत्वादिति ।। वस्तुतस्तु समासघटकपदार्थस्य विधेयताया अनुभवातीतत्वे तादात्म्येन नीलादिविधेयकघटायुद्देश्यकबोधे खाद्यन्तघटपदोत्तरवार्तवाद्यन्तनीलपदज्ञानत्वेनैव कारणवं राजसम्बन्ध्यादिविधेयकबोधेखाद्यन्तपुरुषादिपदोत्तरवर्ति खाद्यन्तराजसंबन्ध्यादिपदज्ञानत्वेन राजसंबन्धविधेयकबोधे खाद्यन्तपुरुषादिपदोत्तरवर्तिडसाद्यन्तराजादिपदज्ञानत्वेन कारणवमित्येव निर्वक्तव्यम् । ईदृकार्यकारणमूलकमेव च “उद्देश्यवचनं पूर्व विधेयस्य ततःपरम्" इति वचनम् । पृथगुपस्थितेः विधेयताप्रयोजकलोक्तिः पृथक्पदादर्थाद्विभक्त्यन्तपदादुपस्थित्यभिप्रायिका बोध्या । यतु समासेप्युद्देश्यविधेयभावेनान्वयोपगमे अविमृष्टविधेयांशस्य दोषत्वं तत्र नस्यात्तदोषतायां बीजस्य विधेयत्वेन बुबोधयिषितस्य तत्त्वेनाप्रत्ययस्य प्राङ्निर्दिष्टस्यैवोद्देश्यत्वं चरमनिर्दिष्टस्यैव विधेयत्वमिति नियमनिर्वाह्यस्य तत्रासंभवात्तदप्यबोधविलसितमेव । तथाहि विधेयस्यान्यत्रानुपसर्जनत्वे सति उद्देश्यपदानन्तरनिर्देशाभावो दोषताप्रयोजकः समासे विधेयस्योपसर्जनत्याद्वाक्येचोद्देश्यानन्तरनिदेशाभावाद्दोषत्वमित्यालङ्कारिकोपः समासे उद्देश्यविधेयभावेनाप्रत्यायकत्वस्य दोषत्वाप्राप्तेः समासस्थले उद्देश्यविधेयभावेन बोधस्यैवाभावे विधेयस्योपसर्जनत्वकथनं हि विरुभ्येत । नच तत्र विधेयपदं विधेयत्वेनाभिमतपरं तस्योपसर्जनत्वोक्तिश्च विशिष्टशक्त्यभिप्रायिकेति वाच्यं तथासति वाक्यस्थले विधेयस्य प्रानिर्देशे विधेयतया प्रतीत्यभावस्यावश्यकतया विधेयतया प्रत्यायकवाभावपर्यवसनेन विशेष्याभावदलेनैव पूर्वपदार्थप्रधानसमासेऽप्यभिमतसंप्रतिपत्तिसंभवात् । विशेषणाभावदलस्य हि दोषताप्रयोजकत्वकीर्तनमसंगतं स्यात् समासे चोद्देश्य विधेयभावेन बोधाभ्युपगमे हि विशेष्याभावदलस्य विधेयत्वेनाप्रत्यायकतापर्यवसम्नस्याप्यसंभवेन विशेषणाभावदलस्य विधेयतया प्रत्ययेऽपि दोषताप्रयोजकत्वेन पृथकीर्तनं संगच्छते । एवञ्चाविमृष्टविधेयांशस्य दोषताप्रयोजिकायुभुत्सितासंप्रतिपत्तिर्बोध्या । तत्र प्रयोजकमुभयमुपसर्जनत्वमुक्तनिर्देशाभावश्च अविमृष्टविधेयांशस्थले समा. सेचोपसर्जनत्वंनियतं वाक्येचोक्ताभावः सिद्धत्वनियतमुपसर्जनत्वमुद्देश्यस्य सिद्धात्मकस्य प्रानिर्देशस्य प्रचुरखात्सिद्धत्वनियतं प्रानिर्दिष्टत्वमपि गृहीतमस्तीत्यविमृष्टविधेयांशस्थले उद्देश्यविधेयभावेन शाब्दबोधे जातेऽपि उपसर्जनत्वं प्रानिर्दिष्टलादिप्रहतः साध्यस्वभावस्यापूर्वात्मनोविधेयस्य सिद्धलं गृह्यते ततश्च विधेयतया बुबोधयिषितवफलीभूतसाध्यत्वापूर्वलादिप्रत्ययो व्याहन्यते तथासति न्यारो ह्ययमेव मे यदरयइत्यादिवाक्यस्थले न्यक्कारस्य सिद्धवप्रतीत्याऽपूर्वत्वप्रत्ययकृतस्य वक्तूरावणस्य बुभुत्सितोत्कर्षप्रत्ययस्यानिर्वाहोपकर्षप्रत्ययापत्तिश्च, एवंजातमिथ्यामहिनामित्यादिसमासस्थले मिथ्यामहिमत्वस्य सिद्धवप्रतीतेर्वक्तरुत्कर्षाप्रतीतिरपकर्षप्रतीतिश्चेति बुभुत्सितासंप्रतिपत्तिरूपदोषताप्रयोजकसद्भावान्न दोषत्वहानिरिति । अत्रेदमवधेयम् । समासस्याशक्तत्वे शशक्षादिपदानां व्यपेक्षारूपसामर्थ्यमादाय समाससंभवः शक्तिपक्षे विशिष्टस्य शशश्शादिपदार्थस्यालोकतया शक्त्यसंभवेनैकार्थीभावस्याभावात्समासानुपपत्तिः प्रातिपदिकसंज्ञानुपपत्तिथ । नचासत्ख्यात्युपनीते तत्रशक्तिसंभव इति वाच्यं ज्ञानकारणेन्द्रियादिव्यापाराभावेनासत्ल्यातेरेवासंभवात् । किञ्च शक्तेरज्ञाताया अनुपयोगित्वेन ज्ञानं तस्यापेक्षितं नच तत्संभवति । तथाहि परबुद्धिविषयत्वेन विशेषत उपस्थिते तत्र शक्तिग्रहः सामान्यत उपस्थिते वा विशेषत उपस्थितिरपि बुद्धेस्सनिरूपकत्वेन बुद्धिनिरूपणेऽवश्यं भासमानत्वेन व्यवहारे शाब्दबुद्धावुन्नीयमानायां विशेषणतया विषयत्वेन वा । तत्र नायः परयुद्धेरप्रत्यक्षत्वानद्वितीयः अलीके व्यवहाराभावात् नापि शशशृङ्गादि शब्द उच्चारयितृतात्पर्यकः बालशुकादिशब्दभिन्नवाक्यवादित्यनुमानेन तात्पर्यसिद्धौ तात्पर्य सविषयकमित्यनुमानेन तात्पर्यविषये सिद्धे शशशृङ्गशब्दसंकेतग्रहइति सामान्यतउपस्थितिपक्षो युक्तः तादशसङ्केतग्रहस्य शाब्दबोधानुपयोगिलात् अन्यथा गोल विशिष्ट शक्तिमजानतः सामान्यतः शक्तिग्रहाच्छाब्दबोधप्रसन्नात् । नचान्यत्र तथा मास्तु निर्धर्मकेलीके तात्पर्यविपयखोपलक्षितएवशक्तिग्रहः शाब्दबोधोपयोगीति विशेषधर्म विनैव कल्पनामात्रविषयः शशशादिपदवाच्य इतिवाच्यम् कूर्मरोमशशजविकल्पयोरविशेषप्रसङ्गेन तद्विषययोावर्तकाभावेन कूर्मरोमशशशृङ्गादिपदजन्यबुद्धलक्षण्यस्यानुभवसिद्धस्यापलापप्रसङ्गात् । अतएव तेषु तेष्वर्थेषु समासं विदधता व्याकरणेन तेष्वर्थेषु शक्तिरेव प्रतिपाद्यतेऽन्यथा व्याकरणाच्छक्तिरेव नसियेदित्यवयं शशक्षादिवाच्यमेषितव्यमिति निरस्तम् । तत्र शक्तिग्रहस्यैवासंभवादसति बाधके तस्य शक्तिग्राहकलादित्यलम

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218