Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
गूढार्थतत्वालोकव्याख्यासहितः ।
६९ तेन समं विभक्त्यन्तार्थविशिष्टलाक्षणिकराजादिपदोपस्थाप्यराजसंबन्ध्यादेरभेदान्षयबोध एवेति न दोषः। एवं मुखं चन्द्र इत्यादिरूपकस्थले चन्द्रादिपदस्य चन्द्रादिसइशलक्षणया चन्द्रादिसदशाभेदान्वयबोध पथ, न तु सादृश्यादिसंबन्धेन चन्द्रादेर्मुखादावन्वय इति न तत्र व्यभिचार के चित्तु रूपकस्थले चन्द्रादिपदस्य चन्द्रादिसदृशे न लक्षणा किंतु तत्र मुख्यार्थचन्द्रादेरेवाभेदभ्रमो मुखादौ । मुखं न चन्द्र इत्यादि विशेषदर्शनदशायां च न तत्र शाब्दोऽभेदप्रत्ययः अपि तु शब्दजन्यविशकलितपदार्थोपस्थितिमूलको मानस एवाहााभेदभ्रम इत्याहुः। परे तु तादात्म्यातिरिक्तप्रस्तुतानल्पजल्पनेन । चन्द्रादिसहशाभेदान्वय बोध एवेति । नन्वेवमालङ्कारिकसिद्धान्तसिद्धस्योपमास्थलापकालङ्कारस्थले विलक्षणचमत्कारस्यानुपपत्तिः उभयत्रापि चन्द्रसादृश्यस्यैव प्रत्ययादिति चेन्न यथाहि गङ्गायांघोष इत्यत्र गङ्गातीरे घोषइत्यत्रेव गङ्गातीरप्रत्ययस्याविशिष्टस्वेऽपि गङ्गाप्रल्यायकगङ्गापदजप्रत्ययनिबन्धनः शैल्यपावनत्वादिविशेष प्रत्ययस्तथारूपकोपमास्थलयोः साश्यप्रत्ययस्या विशिष्टत्वेऽपि चन्द्राभेदप्रत्ययप्रयोजकसमान विभक्तिकत्वरूपाकाडाज्ञानचन्दपदाधीनचन्द्रोपस्थितिघटितसामग्रीप्रयुक्तलाप्रयुक्तत्वकृतश्चमत्कारवैलक्षण्य निर्वाह इति । नन्वभेदावगाहिप्रत्ययादेवोपमास्थल विलक्षणस्य चमत्कारस्योदयइष्टो नोक्तसामग्रीप्रयुक्तज्ञानमात्रात् तथासति तजनितज्ञानानुव्यवसायस्यापि तत्प्रयुक्ततया ततस्तत्सामग्रीविगमकालेऽपि चमत्कारोदयापत्तेरिति बाधबिरहकालेऽभेदशाब्दबोधात्तत्काले चेच्छाजनितादभेदमानसाचमत्कार उपपादनीयइति केषांचिन्मतमुपन्यस्यति । केचित्वित्यादिना । अत्रेदमवधेयम् यद्यभेदबोधादेव चमत्कार प्रत्ययः सहृदयहृदयसाक्षिकस्तदा सबोधः शाब्दबोधएवाभ्युपेयः श्रुतोयमर्थश्चेतश्चमत्करोतील्यनुभवप्रामाण्यानुरोधात् श्रुधातोहि शाब्दबोधार्थकलं श्रोतव्यइत्यादौ व्यवस्थापितम् । नच बाधनिश्चयेन प्रतिबन्धान शाब्दबोधसंभवइति वाच्यं तथाहि अनुभवानुरोधाद्वाधानश्चयदशायामिच्छो विनैव लौकिकसनिकर्षजन्यं दोषविशेषजन्यं च ज्ञान मिच्छादशायां च चाक्षुषाद्यलौतिकविषयताकं ज्ञानमभ्युपेयते तथा शाब्दबोधोप्यभ्युपेयो यशःशुभ्रमित्यादौ बाधितार्थके श्रुतोऽयमर्थश्वेतश्चमत्करोतीत्यनुभवात् बहिना सिञ्चतीत्यादौ श्रुतोवहिकरणकः सेकः सच प्रमाणबाधित इत्यनुभवात्कथमद्रवेणवहिनासेकंचवीषीत्युपहासदर्शनादमुमर्थशाब्दयामीलनुभवस्य बाधकाले परोक्षं ज्ञानं नोत्पद्यतइत्यादिसिद्धान्तवासनादोषास्पृष्टमनसां समनसां निराबाधमुत्पत्तेश्च । नचोक्तानुभवानां सविवादत्वेन लाघवेन परोक्षवजात्यवच्छिन्नं प्रति प्रत्यक्षभिन्नज्ञानखावच्छिन्नं प्रति वा प्रतिबन्धकलमभ्युपेयं तथाच न शाब्दबोधसंभवः उक्तानुभवादयश्च शब्दमूलकमानसज्ञानादेवोपपादनीय इति वाच्यम् एवंहि सतिचाक्षुषाधलौकिकस्थलेऽपि इच्छया मानसप्रत्यक्षमभ्युपेत्य यथाकथञ्चिचक्षुरादिप्रयुक्तेन तेन सर्वानुभवादिरुपपादनीयो मानसलावच्छिन्नंप्रत्येव प्रतिबन्धकतायामिच्छाया उत्तेजकलस्य वाच्यत्वेन चाक्षुषलाद्यवच्छिन्नं प्रति तदिच्छाविरहवटितरूपेण प्रतिबन्धकत्वपञ्चकाकल्पनेन लाघवात् तथाच सिद्धान्तविरोधप्रसङ्गः । किञ्चापेक्षाबुद्ध्यात्मकबाघोत्तरम्परामशर्सत्त्वे सामान्यतस्साध्यसिद्धीच्छायां मानसस्य संभवेन तस्य यथाकथञ्चित्परामर्शप्रयुक्तत्वेनानुमितोयमर्थो बाधितोऽमुमर्थमनुमिनोमीत्याधुपपादकलसंभवेन तादृशानुभवाद्यापत्ते१रतापत्तरेवमुक्तवाक्यस्थलेमानसाभ्युपगमेऽनपेक्षणीय स्यादाकाङ्कायाः तथासति निराकाहादप्युत्पद्यमानान्मानसाचमत्कारोदयः स्यात् सचायं शाब्दबोधः परोक्षं ज्ञानमनाहार्यमेवेति सिद्धान्तादरे योग्यताज्ञानादेव बुभुत्सयोत्पादितत्वेन आहार्यादभ्युपेयः तदनादरेच बुभुत्साजन्यत्वेनाहार्यात्मा खयमेवाभ्युपेय इति । यत्तु शक्त्यानिरूढलक्षणया वा यत्र सादृश्यप्रतीतिस्तत्रोपमालङ्कारः निरूढलक्षणयेति वाचकलुप्तायाः संग्रहाय यत्राधुनिकलक्षणया सादृश्यप्रतीतिस्तत्र रूपकमित्युपमारूपकयोः शाब्दबोधमादायैव वैलक्षण्योपपादनसंभवे आहार्यमानसानुधावन व्यर्थमित्यखरससूचनाय केचिदुक्तमिति तन्न चमत्कारवैलक्षण्येन ह्यलङ्काराणां लक्षण्यं सिद्धान्तसिद्धं तच विषयलक्षण्यनिमितकभेवानुभविकम् सादृश्यस्यैवोभयत्र विषयत्वे शक्तिलक्षणाप्रतिपादितत्वलक्षण्यस्या किश्चित्करत्वमेव सहृदयहृदयसाक्षिकचमत्कारवलक्षण्यप्रयोजकत्खाभावादिति । यन्नामार्थयोरभेदान्वयोऽभिहितस्तनाभेदस्खवृत्तिधर्मवत्त्वमेव वृत्तिताच सामान्यावच्छिन्ना तदनवच्छिन्नोभयावृत्तिधर्मनिष्टाच संसर्गतया भासमाने तस्मिन्निविशते अयञ्च तत्रानुभवसाक्षिको नियमः यत्रभिन्नयोरपि चमत्कारविशेषोदयायाभेदान्वयो विशेषदर्शितात्पर्य विषयस्तत्रैव सामान्यावच्छिन्नावृत्तिता तत्रान्तर्भवति यथा मुखंचन्द्रइत्यादौ चन्द्रनिरूपितसुखविशेषजनकतावावच्छिन्नवृत्तितावन्मुखनिष्ठसुखविशेषजनकलवस्वसंसर्गे यत्र च भिन्नयोरभेदो ज्ञायमानोऽपि न चमत्कारायपर्याप्तो न तत्रसामान्यावच्छिन्ना वृत्तितान्तर्भवत्यतश्चनीलंजलमिति न विशेषदर्शिनां प्रयोगः। अस्तु वा सर्वत्रैव वृत्तिलस्याविशिष्टस्यैव संसर्गकोटी भानं मशकइव हस्तीत्याधुपमावन्नीलं जलं जलन्तेजइत्यादिरूपकमपि म चमत्कारायालमिति न प्रयुज्यत इत्यभिप्रायवताम्परेषाम्मतमुपन्यस्यति ! परेत्वित्यादिना । अत्रत्र प्रतियोग्यभावान्वययोस्तुल्ययोगक्षेमत्वेन मुखंपद्यमित्यादावुक्ताभेदस्य संसर्गत्वे मुखनपद्ममित्यादावपिनत्येतव्यत्वेन तस्यबाधिततया नप मुखमेवेदं नभृशौचक्षुपीइमे इत्यादेरप्रामाणिकलप्रसङ्गः संबन्धान्तरावच्छिन्नाभावबोधाभ्युपगमे नीलंजलन्नीलन्नजलमित्युभयविधप्रयोगादेकदैवानान्तानां शाब्दप्रसङ्गः स्यादित्यस्वरसो वदन्तीत्युक्त्या सूचित इति ।

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218