Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 120
________________ व्युत्पत्तिवादः । स्यागगमनादिप्रयोगः । एवं स्यजिगमिप्रभृतिसमभिव्याहृतकर्मप्रत्ययस्य फलविशेषएव नियतं तादृशं तात्पर्यमिति न विभागादितात्पर्येण ग्रामं गच्छतीत्यादिप्रयोगः । तदर्थबोधकत्वमात्र तु न तदर्थतात्पर्येण खारसिकप्रयोगनियामकं तथा सति शक्तिभ्रमादिना घटपदस्यापि पटा. दिबोधकतया पटेऽपि घटादिपदप्रयोगापत्तिः । नापि शत्या बोधकत्वं तथा निरूढलक्षणयापि स्वारसिकपदप्रयोगात् । शक्तिभ्रमं लक्षणाशानं चान्तरेण गम्यादेविभागादिरूपफलविशेपितस्पन्दादिबोधकत्वाभावनियमोऽसिद्ध एवेति तात्पर्यभ्रमसहकृतशक्तिप्रमया तादृशबोधजननेऽपि न क्षतिः। विना लक्षणाग्रहं भ्रमानधीनताशबोधो गमिप्रभृतितो न संभवतीत्येव नियमः स च तात्पर्यभ्रमेणैव निर्वहति विभागाद्यर्थे पूर्वपूर्वेषामनादितात्पर्यभ्रमवतो वक्तुः स्वकीयतात्पर्यण प्रामं गच्छतीत्यादिप्रयोगो यत्र तत्रश्रोतुस्तात्पर्यभ्रमासंभवेऽपि वकृतात्पर्यानादित्वभ्रम एव प्रयो. गसंपादनद्वारा तदर्थशाब्दबोधप्रयोजक इति न तादृशनियमक्षतिरिति प्राचीनपथपरिष्कारप्रकार: नव्यास्तु संयोगादिरूपफलविशेषावच्छिन्नस्पन्दो गम्याद्यर्थः तद्धात्वर्थतावच्छेदकफलशालित्व. मेव तद्धातुकर्मत्वं नातो गम्यादिकर्मत्वस्य पूर्वदेशादौ प्रसङ्गः । न वा स्पन्देः सकर्मकस्वं तत्र फलस्य धात्वर्थतानवच्छेदकत्वात् । एवं च धातोरेव फलविशेषलाभात, फलान्ययिनी वृत्तिरेव द्वितीयार्थः । न च कर्मणि द्वितीयेत्यनुशासनविरोधः तस्य कर्मणि फलनिष्ठाधेयत्वान्वयिनि प्रकृतितात्पर्ये तदुत्तरं द्वितीयेत्यर्थकत्वात् । न चैवं तस्य शक्तिग्राहकत्वानुपपत्तिः अनादितात्पर्यग्रहसं. पादकत्वेन परंपरया शक्तिग्राहकत्वसंभवात् । न च फलस्य पदार्थकदेशतया तत्र द्वितीयार्थवृत्तेरन्वयासंभवः व्युत्पत्तिवैचित्र्येण प्रकृते एकदेशान्वयस्वीकारात्। अथ गमनं न स्पन्द इत्यादितो धात्वर्थतावच्छेदके भेदान्वयबोधसंभवेन एतादृशप्रयोगस्य वारणाय फलवि व्यकान्वयबोधे तद्विशेयकवृत्तिज्ञानजन्यफलोपस्थितिस्वेन हेतुत्वकल्पनस्यावश्यकत्वात् ताशकारणबाधेन धावताय. च्छेदकफले द्वितीयार्थान्वयासंभवः। न च यादृशपदसमभिव्याहारज्ञानातू फलविशेष्यकस्पन्दभेदान्वयबोधः प्रसिद्धः ताशपदसमभिव्याहारज्ञानताशपवज्ञानजन्यफलाधुपस्थितिघटितसामग्र्यास्ता. दृशान्वयबोधोत्पादप्रयोजिकाया असत्येनोक्तस्थले तदापत्त्यसंभव इति वाच्यम् यत्र गमनादिपदा. देव लक्षणया शक्तिभ्रमेण वा खातव्येण फलोपस्थितिस्तत्र फलविशेष्यकस्पन्दभेदान्वयबोधप्रसिद्ध्या गमनपदसमभिव्याहारतजन्यफलोपस्थितिघटितसामन्या फलविशेष्यकस्पन्दत्वाद्यवच्छिन्नभेदान्वय. बोधप्रयोजकताया आवश्यकत्वात् तदलेन शक्तिप्रमाधीनबोधेऽपि फलांशे रुपन्दभेदादिभानप्रसनः। एवं च फलव्यापारयोः पृथक्शक्तिस्वीकारपक्षेऽपि न निस्तारः। तथात्वेऽपि हि गमनं न स्पन्द इत्यादौ फले शक्तिप्रमया स्पन्दभेदान्वयबोधसंभवेन तादृशप्रयोगापत्ते१रित्वादिति चेन्न । तद्विशेयकवृत्तिमानजन्यतदुपस्थितिजन्यतावच्छेदककोटौ तादृशोपस्थित्यव्यवहितोत्तरत्वनिवेशनमावश्यकम । विशिष्य तत्तत्पदमन्तर्भाव्यैव पदार्थोपस्थितेरेकैकविधबोधे नानाहेतुताया व्यवस्थापि तत्वात् एकपदाधीनतद्विषयकशाब्दबोधे पदान्तरवृत्तिज्ञानजन्यतदुपस्थितेयभिचारस्य प्रकारान्तरेण वारणासंभवात् । एवं च धात्वर्थतावच्छेदकफले द्वितीयार्थान्वयबोधेऽपि क्षतिविरहात् तत्र ताहशकारणस्य व्यभिचाराप्रसक्तरिति वदन्ति । रित्यस्य नासङ्गतिरित्यपि बोध्यमिति । परम्परया शक्तिग्राहकत्वसंभवादिति । द्वितीयाघेयत्वशक्ताऽसति बाधके खघटितवाक्यघटकपदान्तराबोध्याधेयवान्वितखार्थतात्पर्यविषयप्रकृतिकवादित्यनुमानस्य शक्तिग्राहकस्य तात्पर्यघटितोक्तहे. तोग्रहोपयोगितात्पर्यग्रहसम्पादकत्वेनेत्यर्थः । यारशपदसमभिव्याहारज्ञानादिति । संयोगोन स्पन्दइत्यादिसमभिव्याहारज्ञानादित्यर्थः । व्यवस्थापितत्वादिति । कारणतावच्छेदककोटौ पदविशेषस्याप्रवेशे पदान्तरात्तदर्थोपस्थितौ तदर्थागृहीतशक्तिकपदसमभिव्याहारज्ञानात्तदर्थविशेष्यकशाब्दापत्तेर्वारणाय पदविशेषवृत्तिज्ञानघटितधर्मेण कारणताया व्यवस्थापितखादित्यर्थः । तादृशहेतुत्वे च पदविशेषघटितयोस्समभिव्याहारज्ञानोपस्थिस्योरेव सहकारिखकल्पनेन नोक्तापत्तिरिति भावः व्यभिचाराप्रसक्तरिति । विशिष्टशक्तिपक्षे फलविशेष्यकाधेयत्वप्रकारकबोधस्य फलविशेष्यकवृत्तिज्ञानजन्योपस्थित्यव्यवहि

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218