Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 118
________________ ११४ न्युत्पत्तिवादः। लभ्यते जन्यजनकभावस्य च विनैव पदार्थत्वं संसर्गमर्यादया भामं संभवतीति फलमात्रं कर्मप्रत्ययार्थः। नच संयोगविभागरूपफलमपि धातुलभ्यमेव गमित्यजिप्रभृतीनां तवच्छिन्नस्पन्दादि. रूपव्यापारवाचकत्वादिति वाच्यम् व्यापारमात्रस्य धात्वर्थत्वात् । फलविशेषान्वयबोधे च धातुविशेषजन्यव्यापारोपस्थितेतुतया ग्रामं त्यजतीत्यादौ धात्वर्थस्पन्दे ग्रामनिष्ठविभागजनकत्वमेष ग्रामं गच्छतीत्यादौ च धात्वर्थस्पन्दे ग्रामनिष्ठसंयोगजनकत्वमेव प्रतीयते नतु विपरीतम ग्राम गच्छतीत्यादिवञ्च ग्राम स्पन्दतइत्यादयो न प्रयोगाः द्वितीयादेर्गम्याग्रुपस्थापितस्पन्दादावेव फलान्वयबोधकत्वात् । नतु स्पन्दिप्रभृत्युपस्थापिते तस्मिन् द्वितीयादिना फलान्वयबोधजननासंभवात् । न हि येन केन चिदुपस्थापितयोरेवार्थयोः परस्परमन्धयः प्रतीयते तथा सति घटकर्मत्वादिपदोपस्थापितयोरपि घटकर्मत्वाद्योः परस्परमन्वयबोधप्रसंगात् कृत्रादिसमानार्थकधातूपस्थाप्ययले विषयितार्थकद्वितीयार्थान्धयसंभवेन घटं करोतीतिवद् घटं यतते इत्यादिप्रयोगप्रसङ्गाश अपि तु ययोर्यादेशान्वयबोधे आकाङ्क्षा तदुपस्थापितयोरेव तादृशान्वयबोधः आकाङ्क्षा च द्वितीयादेर्गम्यादिना कृयादिना च कल्पते न तु तत्समानार्थकेनापि स्पन्दियतिप्रभृतिनेति । न चाकाङ्क्षात्र समभिव्याहार, स च गम्यादिनेष स्पन्दादिनापि समान पवेति वाच्यम् यतो द्वितीयादेर्गम्यादि समभिव्याहारस्यैव फलबलादन्वयबोधौपयिकत्वमुपगम्यते नतु स्पन्दिप्रभृतिसमभिव्याहारस्येति न तस्थाकाक्षात्वमन्वयबोधीपयिकसमभिव्याहारस्थय तथात्वात् । अतएव समानाथेकत्वेऽपि ग. स्यादेरिव न स्पन्द्यादेः सकर्मकत्वव्यवहारः फलान्वितव्यापारबोधकधातुत्वस्यैव तन्नियामकत्वात् । मुख्यमेव कर्मत्वं तच प्रकृतक्रियाकर्तृसमवेतेच्छीयक्रियाजन्यफलाश्रयत्वप्रकारतानिरूपितमुख्य विशेष्यताश्रयत्वं काश्यां च तदस्ति उभयसाधारणच स्वाश्रयत्वखनिष्ठतादृशेच्छीयप्रकारतानिरूपितविशेष्यताश्रयत्वान्यतरसंबन्धेन क्रियाजन्यफलवश्वं तत् अन्नच यत्र न फले प्रकृत्यर्थत्ववृत्तित्वस्य बाधग्रहस्तत्राधेयत्वमेव संसर्गतया भासते यत्र बाधन. हस्तन स्वनिष्ठविशेष्यतानिरूपिततादृशेच्छीयप्रकारत्वमितिबोध्यम् । नामार्थधात्वर्थयोः साक्षाद्भेदसंबन्धेनानन्वयनियमः प्रतिबध्यप्रतिबन्धकभावलाघवेन प्रथमायां व्यवस्थापित इति कर्मवस्य विभक्त्यर्थवमावश्यक नतु तस्य संसर्गलसंभवस्तत्र तद्धटकस्य समभिव्याहृतपदेनान्येन यस्य लाभस्तस्य तदर्थत्वन्नोचितमिति फलमात्रस्य तथात्वमाह । तत्रच क्रियेत्यादिना । एतेन जन्यजनकभाववत् फलस्यापि खवृत्तिफलजनकत्वरूपपरम्परासम्बन्धघटकतया भानसंभवात्तस्यापि पदार्थवं नोचितमिति निरस्तम् फलमात्रस्य तथात्वेप्यनन्यलभ्योहि शब्दार्थइति नियमभङ्ग निराकरोति । नचेत्यादिना । एतेन ययुक्त ग्रन्थस्य फलस्याप्यनन्यलभ्यतया निरुक्तकर्मत्वस्य समस्तस्यैवानन्यलभ्यत्वाद्वितीयायाः कोपि नार्थ इत्येतत्परता तदाऽसङ्गतिः नामार्थधात्वर्थयोदेनान्वयाभावपक्षावलम्बनेनैव विचारस्योपक्रान्तत्वादन्यथाफलस्य धाखलभ्यत्वेपि तद्धटितसम्बन्धेनान्वयादेव निर्वाहेण गौरवेण फले शक्तेरसंभवात्तदभिधानानुपपत्तेरतः कस्यापि तदर्थताया अवश्यं वाच्यत्वादिति निरस्तम् उक्तनियमभङ्गप्रसङ्गनिराकरणमानपरत्वादुक्तग्रन्थस्येति । व्यापारमात्रस्यधात्वर्थत्वादिति । मात्रपदेन फलस्य धात्वर्थताव्यवच्छेदः नतु व्यापारवरूपसामान्यधर्मावच्छिन्नस्येत्यर्थस्तस्य ज्ञानत्वप्रयत्नत्वाधवच्छिन्ने ज्ञानादेः शत्तयभ्युपगमात् सामान्यस्य शाब्दबोधविषयीभूतस्य व्यापारवखरूपस्य निर्वसुसशक्यखाच्च । व्यापारपदार्थस्त्वत्र न क्रियास्वरूपतृतीयपदार्थविभाजकधर्माश्रयो ज्ञानादेरपि धात्वर्थत्वात् यदि धातुपदेन प्रकृतत्वात्त्यजिगम्यादेरेव ग्रहणं तदा स्यादपि कथञ्चिन्नान्यथा नापि धाखर्थः धात्वर्थस्य धात्वर्थवादित्यस्य निराकासत्वात् । नापि फलानुकूलः सः सुखं साक्षात्करोतीत्यादौ चरमफलस्य सुखसाक्षात्कारस्य धात्वर्थत्वानापत्तेः नापि साध्यावस्थापनः फलस्थापि तादृशत्वात् नापि तिङन्तार्थजन्यबोधे भावनायां प्रकारीभूतोऽर्थः फलावच्छिनव्यापारस्यापि तादृशवादपितूक्तबोधीयभावनानिष्ठविशेष्यतानिरूपितप्रकारलावच्छिन्नविशेष्यताश्रयः तादृशश्च व्यापारमात्र न फलावच्छिन्न इति उक्तवाक्यस्य धातुशक्यतानुकूलबसंबन्धावच्छिन्नकिञ्चिन्निष्ठावच्छेदकलानिरूपितेति तात्पर्यार्थ इति । फलविशेषेति । द्वितीययेत्यादिः । हेतुतयेति । अथ निराकाङ्क्षः प्रकृतिद्वितीयाधातुभिस्तत्तदर्थोपस्थितावपि शाब्दबोधानुदयावामवृत्तिसंयोगजनकन्यापारानुकूलकृतिविशिष्टचैत्रादिबोधे ग्रामं गच्छति चैत्र इत्यादिसमभिव्याहारज्ञानत्वेन कारणताया आवश्यकतया ततएव गम्याद्यर्थे विभागादेरन्वयबोधवारणसंभवात् उपस्थितेरुक्तहेतुताकल्पनमनर्थमितिचेन्न उक्तसमभिव्याहारज्ञानसत्त्वे त्यजधातुतोव्यापारोपस्थितौ च निरुक्तशाब्दबोधापत्तेरिणाय निरुक्तहेतुत्वस्याप्यावश्यकत्वात् । बोधप्रसङ्गइति । द्वितीयादेरभावेन तदुपस्थापितफलविशेषविषयकवलक्षणवैलक्षण्यासंभवादिति भावः । अविलक्षणबोधप्रसंगइत्यतो विलक्षण

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218