Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
गूढार्थतत्वालोकव्याख्यासहितः ।
१२९ प्रामो याप्यते इत्यादयो न प्रयोगाः। एवं तण्डुलः सहायेन पाच्यते, चैत्रेणेत्यादौ धात्वर्थे सहायादिकर्तृत्वस्य तविशेषणण्यर्थव्यापारे च चैत्रादिकर्तृत्वस्य तृतीयान्तार्थस्य बोधः । शेषं पूर्ववदिति दिक। _ग्रामं गच्छतीतिवत्स्वं गच्छतीति प्रयोगवारणाय परसमवेतत्वमपि द्वितीयार्थ इष्यते । तस्य च धात्वर्थेऽन्वयः। परत्वे चैकदेशेऽपि आकाङ्क्षावैचित्र्यात् प्रकृस्यर्थस्य प्रतियोगितयान्वयः । एवं च ग्रामं गच्छति चैत्र इत्यादी ग्रामभिन्नसमवेता ग्रामनिष्ठसंयोगजनिका या क्रिया तदाश्रयतावांश्चैत्र इस्यन्वयबोधः । खनिष्ठसंयोगजनकक्रियायां स्वभिमसमधेतत्वत्य बाधात्वं गच्छतीति न प्रयोगः। यत्र चोभयकर्मभ्यां मल्लयोः संयोगस्तत्र मलान्तरसमवेतक्रियायाः स्वनिष्ठसंयोगजनिकाया: स्वभिन्नसमवेतत्वेऽपि तादृशक्रियाश्रयतायाः स्वस्मिन् बाधादू मलुः खं गच्छतीति न प्रयोगः । नच स्वनिष्ठसंयोगजनकस्वसमवेतक्रियायां स्खभिन्नसमवेतत्वस्यायोग्यतया तदभानेप्यबाधितं स्वनिष्ठसंयोगजनकत्वं विषयीकृत्य शाब्दबोधसंभवात् तदर्थमात्रतात्पर्येण स्खं गच्छतीति प्रयोगो दुर्वार पवेति वाच्यम् । परसमवेतत्वाविषयकस्य द्वितीयाधीनफलजनकत्वबोधस्य कुत्राप्यनभ्युपगमेन तद्बोधे तद्भासकसामध्या अप्यपेक्षणीयत्वात् । अथ स्वस्यापि द्वित्वावच्छिन्नखभेदवत्वात् खं ग.
छतीति प्रयोगस्य दुरितया द्वितीयाप्रकृत्यर्थस्य प्रकृत्यर्थतावच्छेदकावच्छिन्नप्रतियोगिताकत्वसंबन्धेनैव भेदेऽन्वयोवाच्यः तथा च चैत्रो द्रव्यं गच्छति, मल्लो मलं गच्छतीत्यादिवाक्यस्याप्रमाणतापत्तिः चैत्रमल्लादिनिष्ठक्रियायां प्रकृत्यर्थतावच्छेदकीभूतद्रव्यत्वमल्लत्वाद्यवच्छिन्नभिन्नासमवेतत्वात्। तत्तव्यक्तित्वानुपस्थितावपि शाब्दबोधोदयेन तत्तयक्तित्वावच्छिन्नप्रतियोगितासंबन्धेनान्वयोपगमासंभवात् । उक्तयुक्त्या संबन्धघटकोपस्थितेरपि शाब्दबोधेऽपेक्षितत्वात् । एकधर्मावच्छिन्नप्रतियोगिताया अन्यधर्मावच्छिन्नसंसर्गत्वे मानाभावात् प्रतियोगिविशेषिताभावबुद्धर्विशिष्टवैशिष्टयाव. मिकाक्रियेत्युक्तेः। तदोघेतद्भासकसामग्र्याइति । द्वितीयया फलस्य तदन्विताधेयत्वस्य वा बोधे परसमवेतलभासकसामम्यास्तदुपस्थितिभ्रमप्रमासाधारणतद्विषयकयोग्यताज्ञानादेरित्यर्थः ।। अपेक्षणीयत्वादिति । तथाच तदयोग्यलाहे द्वितीयाधीनफलविषयकबोधोत्पादिकायाः परसमवेतलयोग्यताज्ञानादिघटितसामथ्या अभावान तादृशबोधसंभव इति भावः ।। ननु संबन्धस्याविशेषणत्वेन पूर्वकाले तस्य तद्धटकस्य चोपस्थिति पक्षणीयेति तक्ष्यक्तिखानुपस्थितिकालेपि तदवच्छिन्नप्रतियोगिलस्य संसर्गलं संभवत्येवेत्यत आह । उक्तयुक्येति तात्पर्यज्ञानस्यापूर्ववाक्यार्थस्थले शाब्दबोधप्राकाले विशिष्टवाक्यार्थज्ञानासंभवेन वाक्यार्थविषयकत्वविशिष्टबोधविषयकत्वेन हेतुत्वासंभवात्तत्तद्धर्मावच्छिनतत्तत्संबन्धावच्छिन्नप्रकारतानिरूपिततत्तद्धर्मावच्छिन्न विशेष्यताकवविशिष्टबोधविषयकत्वेनैव हेतुत्यस्य वाच्यतया तात्पर्यज्ञाने संबन्धस्यापि विशेषणत्वेन तदर्थसंबन्धस्य तटकस्य चोपस्थितेरपेक्षणीयलादित्यर्थः अथापूर्ववाक्यार्थस्थले यद्यपि शाब्दबोधात्प्राक्वाक्यार्थविषयकज्ञानस्य कदाचिदप्यजनने निरूप्यनिरूपकभावापनविषयलग्राहकानुव्यवसायस्याप्यसंभवाद्विषयवान्तरविशिष्टविषयखोपस्थितेरसंभवेन विशिष्टवैशिष्ट्यावगाहितात्पर्यज्ञानस्य न संभवस्तथापि तद्धटकप्रत्येकपदार्थज्ञानजन्यानुव्यवसायगृहीततत्तद्विषयखोपस्थितिमूलकस्य विशेष्ये विशेषणमिति रील्या तात्पर्यज्ञानस्य संभवेपि यद्धर्मावच्छिन्ननिषेधबुद्धिः पुरुषस्य कदापि न जाता तत्र तद्धर्भावच्छिनप्रतियोगिलस्याग्रहेणानुवृत्त्यवसायेन तत्संसर्गलस्याप्यग्रहणाद्रिशेष्ये विशेषणमिति रीत्यापितद्धटिततात्पर्यज्ञानासंभवात् तादृशवाक्यस्थलानुरोधेन विलक्षणविषयतासंबन्धेन तत्तत्पदार्थविशिष्टबोधविषयकज्ञानत्वेन तात्पर्यज्ञानस्य हेतुताया आवश्यकत्वेन तद्रीत्या तात्पर्यहानस्य तस्यक्तिखावच्छिन्न प्रतियोगिखसंसर्गखानुपस्थितावपि संभवात्तात्पर्यज्ञानस्य सर्वत्र शाब्दबोधे चाहेनुलपक्षे तादृशसंसर्गज्ञानापेक्षाया अभावान्न तद्व्यक्तिलानुपस्थितिकाले तादृशशाब्दासंभवइत्यतआह । एकधर्मावच्छिन्नप्रतियोगितायाइति ।मानाभावादिति । प्रतियोगिविशिष्टाभावबुद्धेरेव तत्र मानत्वेन तस्याघटवति घटोनास्तीत्यादिबुद्धेस्सवानुमताप्रामाण्यनिर्वाहाय विशेषणतावच्छेदकावच्छिन्नप्रतियोगितसंसर्गावगाहिन्या एव स्वकारणेनोत्पत्तेरुपेयत्नातूविशेषणताचच्छेदकावच्छिन्नप्रतियोगिलसंसर्गस एव मानखादन्यस्याप्रमाणखान्मानाभावादित्यर्थः । ननूपलक्षितवैशिघ्यावगाहिस्थले उपलक्षणीभूतधर्मावच्छिन्नप्रतियोगिवस्य गुण्डो गुणकर्मान्यववसत्तावानित्यत्र समवायेऽभानात् द्रव्यत्वाापलक्षितस्यैवास्तु तत्र भेदे भान तथाच तव्यक्तिलायच्छिन्नप्रतियोगिवस्थापि संसर्गतासंभव इत्यत आह । प्रतियोगिविशेषिताभावबुद्धरिति । अवश्यमेव द्वितीयान्तसमभिव्याहृतगच्छतीत्यादिवाक्यजन्यबुद्धेः प्रकृत्यर्थतावच्छेदकविशिष्टप्रतियोगिनो द्वितीयार्थघटकभेदे वैशिष्ट्यावगाहित्वमेवोपगन्तव्यमन्यथा खंगच्छतीयादेःप्रामाण्यस्य दुर्वारलाव्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगित्वसम्बन्धेन खबिशेषितभेदस्य
१७ व्यु

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218