Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 134
________________ व्युत्पत्तिवादः । गाहित्यनियमात अम्पयितानवच्छेदकावच्छिन्नप्रतियोगिताया संबन्धत्वासंभवाचेति वेत्ताह क्रियान्वयिभेदप्रतियोगितावच्छेदकत्वमेव द्वितीयार्थोऽस्तु । भेदे प्रकृत्यर्थस्थाधेयतासंवन्धेनान्वय इति न काचिदनुपपत्तिः। न चैवमपि विहगो भूमि प्रयातीतिवद्विहगो विहगं गच्छतीति प्रयोगो दुर्षार विहगनिष्ठभूमिसंयोगजनकतक्रियाया विहगान्तरनिष्ठभेदप्रतियोगितावच्छेदकतया विहगनिष्ठभेदप्रतियोगितावच्छेदकविहगवृत्तिसंयोगजनकक्रियाश्रयत्वस्याबाधितत्वादितिवाच्यम् । वि. इगो विहगं गच्छतीत्यादौ विहगादिप्रकृत्यर्थवृत्तित्वविशिष्टसंयोगस्य क्रियायो जनकत्वस्वाश्रयनिष्ठभेदप्रतियोगितावच्छेदकत्वोभयसंबन्धेनान्वयोपगमात्, विहगनिष्ठक्रियायास्तद्विहगनिष्ठसंयोगजनकत्वेन तजनकतासंयन्धेन तत्संयोगवरवेऽपि विहगवृत्तित्वविशिष्टतत्संयोगाश्रयतद्विगनिष्ठभेदप्र. तियोगितावच्छेदकत्वाभावात्रोक्तोभयसंबन्धेन विशिष्टसंयोगवस्वमित्यनतिप्रसङ्गात् । एवं सति परसमवेतत्वं संबन्धघटकमेव न तु द्वितीयार्थ इति चेत् का क्षतिः । विहगो विहगेन गम्यते इत्या. छावपि जन्यत्वखावच्छिन्नभेदसामानाधिकरण्योभयसंबन्धेन क्रियायाः संयोगेऽन्वय इष्यते तत्तक्रियावच्छिन्नभेदवति भूम्यादावेव तादृशभेदसामानाधिकरण्यसंबन्धेन तत्तक्रियाविशिष्टसंयोगादिमत्त्वोपगमात्,तत्र तरिक्रयाश्रयविहगे तद्वाधेन नातिप्रसङ्ग इति ध्येयम। झानादिरूपसविषयकस्त्वभिधायकधातुसमभिव्याहृतद्वितीयायाःप्राचीनमते निरूपकतासंबन्धेन धात्वर्थान्वयि विषयत्वमर्थः। तत्र प्रकृत्यर्थस्याधेयतासंबन्धेनान्वयः। वृत्यनियामकसंबन्धस्याभावप्रतियोगितानवच्छेदकतया घटं जानाति, पर्ट नेत्यादावनुपपत्तेस्तत्र विषयित्वार्थकत्वमेव नवीना उपवर्णयन्ति । तत्र च प्रकृत्यर्थस्य निरूपितत्वसंबन्धेन तस्य च धात्वर्थ आश्रयतासंबन्धेनान्वयः। घटादिनिष्ट ज्ञानादिकर्मत्वं च ज्ञानादिविषयत्वमेव । विषयित्वादौ च द्वितीयाया लक्षणैव न तु शक्ति रिति सांप्रदायिकाः। वस्तुतस्तु विषयितात्वस्य संयोगत्वाद्यपेक्षया आधेयतात्वाद्यपेक्षया चागुरुतया किंधर्मावच्छिन्ने शक्तिः कल्प्यते इत्यत्र विनिगमकं दुर्लभम् । एकस्मिन् प्रयोगे भूयस्त्वमप्यशक्यनिर्णेयमिति तत्रापि शक्तिः सिझ्यतीस्यवधेयम् । चैत्रेण ज्ञायते घट इत्यादौ कर्माख्यातस्थले आख्यातेन घटादौ धात्वर्थनिरूपितविषयत्व बोध्यते । चाक्षुषत्वाद्यवच्छिन्नवाचकहश्यादिसमभिव्याहृतद्धि खस्मिन्सत्त्वाद्विशिष्टवैशिष्ट्यावगाहिन्यां च विशेषणतानवच्छेदकावच्छिन्नप्रतियोगिलस्य संसर्गलानुपगम एव घटवति घटो नास्तीत्यप्रतीतेरितिभावः । एतेन नअभिलप्यमानाभावबुद्धेर्विशिष्टवैशिष्ट्यावगाहित्यनियमेप्यन्यत्र तथावं नोपगन्तव्यमिति निरस्तम् । उभयसबंन्धेनेति । अथ प्रकृत्यर्थस्य खप्रतियोगिकरवसंबन्धेन संयोगेन्वयस्तस्य च जनकलसामानाधिकरण्याभ्यांव्यापारेऽन्वयः खीकरणीयो लाघवात्खप्रतियोगिकत्वेन विशिष्टस्य संयोगस्य खस्मिन्नसत्वात् खंगच्छतीत्यस्य वारणसंभवादिति चेन्न प्रतियोगिलानुयोगिलाभ्यां खरूपसंबन्धविशेषाभ्यामाधेयाधारनियताभ्यामन्यस्य संबन्धनिरूपकत्वस्य स्वरूपसम्बन्धात्मकस्यातिरिक्तस्य वाभावात् ग्रामपुरुषयोस्संयोगस्योभयत्र सत्त्वेपि संयोगेन ग्रामे पुरुषस्संयोगो ग्रामे पुरुषस्य संबन्ध इति वत् पुरुषे ग्रामस्संयोगो ग्रामस्य पुरुषे सम्बन्धइति प्रत्ययाभावात् ग्रामएवानुयोगिलं पुरुषएव च प्रतियोगित्वं सम्बन्धत्वे मख्यतस्तदुपरागेण संबन्धेनापि निरूपितमुपेयमिति ग्रामनिष्ठप्रतियोगिताकत्वेन संयोगे प्रामस्यान्वयासंभवात् नच ग्रामस्य खनिष्टानुयोगिताकत्वेनैवास्वन्बय इति वाच्यं तथासति सामानाधिकरण्योपादानस्य वैद्यर्थ्यात् खनिष्ठानुयोगितानिरूपकसंयोगजनकक्रियाया आश्रयलस्य खस्मित्रसंभवात् नचेष्टापत्तिर्यत्रोभयोस्संयोगे तेन परस्परविशिष्टधियः प्रमालं तत्रैकस्यैव संयोगस्योभयानुयोगिकत्वोभयप्रतियोगिकखस्योपगमेन खनिष्ठानुयोगितानिरूपकसंयोगजनकक्रियाश्रयत्वस्य स्वस्मिन् सत्त्वेन संगच्छतीति प्रयोगस्य दुर्वारलात् यदि तयोरन्योन्यसंसृष्टत्वमात्रबुद्धि धाराधेयभावप्रत्यय इति नानुयोगिलोपगमस्तदा संबन्धमात्रस्यैकानुयोगिकत्वापरप्रतियोगिकवनियमभाप्रसङ्गस्तयोरेकमन्योगच्छतीत्यस्याप्यनुपपत्तिश्च । ननु वहौ पर्वतस्य पर्वते वा वह्वरस्तिसंयोगो न पर्वते पर्वतस्य न बही बढेरिति प्रत्ययान्निरूपकापरपर्यायं प्रतियोगित्वं संबन्धखनिरूपित-विलक्षणप्रतियोगिलानुयोगित्वाश्रयद्यसाधारणविलक्षणं विलक्षणं च खनिछतन्निरूपितत्वविशिष्टसंयोगाधारत्वं खान्यवृत्तिस्वीकरणीय तथासति न कोपि दोष इति चेन्न संबन्धत्वनिरूपितप्रतियोगिखानुयोगिखातिरिक्तस्य तस्य कल्पनापेक्षया तयोभिननिष्ठयोरेव निरूप्यनिरूपकभावस्योपगन्तुमुचितत्वात् । बहौं पर्चतस्येत्यत्र संबन्धसामान्यबोधिकायाः षष्ठयाः अनुयोगित्वपरत्वस्य सप्तम्याशान्योगिलनिरूपितवान्यतरपरखस्योपगमायुत्पत्तिवैचित्र्येण प्रत्ययार्थयोः प्रतियोगित्वानुयोगिलयोर्निरूपितत्वेन साक्षार्मिभू

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218