Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 137
________________ गूढार्थतत्वालोकव्याख्यासहितः । १३३ ताया अनुपस्थितेस्तदवच्छेदेनाभावप्रत्यायनासंभवात् चैत्र आकाशं पश्यतीतिवाक्यजन्यबोधे चैत्रांशे दर्शनाश्रयत्वं विशेषणं दर्शनांशे लौकिकविषयिताविशेषणमिति रीत्यैव पदार्थानां ज्ञानात् चैत्रीयचाक्षुषादिनिरूपित विषयितात्वं नाकाशादिधर्मितावच्छेदकं, किन्तु शुद्धलौकिक विषयितात्वमेवेति तस्य शुद्धलौकिकविषयितात्वावच्छेदेनाकाशाद्यभावावगाहिज्ञानं प्रत्येव प्रतिबन्धकतया निरुकधर्मावच्छेदेनाकाशाद्यभावावगाहिज्ञानस्य तदप्रतिबध्यत्वाच्च । एतेन तत्राकाशादिपदस्याकाशादिनिरूपितत्वार्थकतां द्वितीयायाः खण्डशो निरूपितत्वलौकिकविषयितात्वोभयार्थकतां वा स्वीकृत्य लौकिक विषयिताया आश्रयतासंबन्धावच्छिन्न प्रतियोगिताका काशनिरूपितत्वाभावबोधोपगमेनापि न निस्तारः । घट आकाशं न पश्यतीत्यादौ नितरामेवागतिः । यत्तु नअर्थस्य द्विधा भानोपगमेन आकाशादिनिरूपितत्वाभाववल्लौकिकविषयताशालिचाक्षुषाश्रयत्वाभाववान् घट इत्याकारकस्तत्रान्वय इति । तदपिन । तथा सति चैत्रो घढं न पश्यति मैत्र आकाशं न पश्यतीत्यादिवाक्यजन्यशाब्दबोधाद विलक्षणबोधस्य सर्वानुभवसिद्धस्य तादृशवाक्यादनुपपत्तेः । नहि तत्रापि तादृश एंव शाब्दबोधः । तथा सति चैत्रो यदा घटादिकं न पश्यत्यपि तु पटादिकमेव तदा घटाद्यनिरूपिततल्लौकिक विषयिताशालिचाक्षुषाश्रयत्वाभावस्य तत्र बाधात् चैत्रो घटं न पश्यतीति प्रयोगानुपपत्तेः । यदा च भावमात्रं पश्यति तदा भावनिरूपितलौकिकविषयताशालिचाक्षुषाश्रयत्वाभावसस्वात् भावं न पश्यति चैत्र इत्यादिप्रयोगापतेः । एवमाकाशं न पश्यति घट इत्यादी आकाशाधनिरूपित लौकिक विषयताशालिचाक्षुषाश्रयत्वाभावस्य वाक्यार्थत्वे यदाकाशाद्यतिरिक्तपटादिविषयकचाक्षुषाश्रयत्वनिश्चयो घटादौ तदा तादृशनिश्चयरूपप्रतिबन्धकसत्वेन तादृशघाक्यजन्यशाब्दबोधानुपपत्तिः । यथा चैत्रो घटं पश्यतीत्यादिनिश्चयदशायां पटं न पश्यति चैत्र इत्यादिवाक्यजन्यशाबोधोत्पादोऽनुभवसिद्ध:, तथैवोक्तभ्रमदशायामाकाशं न पश्यति घट इत्यादिवाक्यजन्यबोधोत्पादोऽपीति न तत्रेष्टापत्तिः संभवति । यच्चालौकिक विषय ताशून्यचाक्षुषत्वाद्यवच्छेदेनाकाशाविषयकत्वघटादिवृत्तित्वोभयाभावोघट आकाशं न पश्यतीतिवाक्यात्प्रतीयते, उपनीताकाशादिविषयकचाक्षुषे आकाशादिविषयकत्वचैत्रादिवृत्तित्वोभयसत्त्वेन चैत्र आकाशं न पश्यतीत्यादिप्रयोगानुपपत्तिः । घटादौ तादृशचाक्षुषाद्याश्रयत्वभ्रमदशायां घट आकाशं न पश्यतीतिवाक्याच्छाब्दबोधानुपपत्तित्यलौकिककविषयताशून्यत्वेन चक्षुषादिकं विशेषितम् । आकाशविषयकचाक्षुषाद्युपनीतभानस्यापीतरांशे लौकिकत्वात् तादृशानुपपत्तितादवस्थ्यम् । अतो लौकिकत्वविशेषणमुपेक्षितम् । अत्रालौकिकविषयता शून्य चाक्षुषत्वाद्यवच्छिन्नस्य घटं न पश्यतीत्यादौ शक्त्या धात्वर्थत्वासंभवेऽपि प्रकृते तस्यैव लक्षणया धात्वर्थत्वमुपेयते, विषयतासामान्यमेव तत्र द्वितीयार्थः निरूपकत्वमपि लक्षयातदर्थः आश्रयत्वं द्वित्वं निरूपकत्वं चाख्यातार्थः । आश्रयत्वे व्युत्पत्तिवैचित्र्यात्प्रथमान्तपदार्थघटादस्तस्यनिरूपकत्वे विशेषणतयान्वयः । तादृशनिरूपकत्वद्वितीयान्तार्थाकाशादिविषयकत्वयोश्च प्रकारतया द्वित्वान्वयः द्वित्वाद्यवच्छिन्नप्रतियोगिताकत्वसंबन्धेन तादृशोभयस्य नञर्थाभावे तस्यान्वयितावच्छेदक निरुक्तधर्मावच्छेदेन धात्वर्थेऽन्वयः । धात्वर्थस्य प्रकृते मुख्यविशेष्यतयैव भा नम् । अथ वा स्वनिष्ठाम्योन्याभावप्रतियोगिता नचच्छेदकत्वरूपव्यापकतासंबन्धेन धात्वर्थस्य तारशोभयाभावेन्वयः । तस्य चाख्यतार्थनिरूपकरवे, तस्य च प्रथमान्तपदार्थे घटादौ, घटादेः प्रति• योगितावच्छेदकघटकतया तादृशाभावनिरूपकत्वात् । एवं चान्वयवोधस्य प्रथमान्तपदार्थमुख्यषिशेष्यकत्वनियमस्यापि न क्षतिरिति । तदपि न घटादिविषयकचाक्षुषादेः कालिकादिसंबन्धेन निरुक्तधर्मावच्छेदेनेति । विशिष्टधर्मस्यावच्छेदकावच्छेदेनापि बुद्धेः शुद्धधर्म सामानाधिकरण्यमानपर्यवसायिलात् तादृशबुद्धौ शुद्धलौकिक विषयतालावच्छेदेनाकाशनिरूपितत्वावगाहिन्या एवं बुद्धेर्निरोधित्वमुक्तवाक्यस्य च तादृशधर्मसामानाधिकरण्येन बोध एव साकाङ्गलमन्यथा घटं पश्यतीत्यादेरप्यप्रामाण्यापतेरिति तदप्रतिबध्यत्वमुक्तज्ञानस्य युक्तमिति भावः ।

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218