Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 122
________________ व्युत्पत्तिवादः। गच्छति न महीरुहमित्यादौ महीरुहवृत्तिसंयोगादेर्जनकतासंबन्धावच्छिन्नाभाव एवं नअर्थो वाच्यः, सच वृत्त्यनियामकसंबन्धस्याभावप्रतियोगितानवच्छेदकतया अप्रसिद्धः।नव्यमते तु द्वितीयार्थस्याधेयत्वस्य फलनिष्ठाभाव एव तथेति नानुपपत्तिः । न च भूमिकर्मकगमनक दौमहीरहकर्मकगमनकर्तृस्वाधभावः प्रतीयते इति वाच्यम् कर्तृवाचकपदासमभिव्याहारस्थले तदसंभवात् । न च तत्रा प्याख्यातार्थान्वयबोधानुरोधेन कर्तृवाचकपदाध्याहारस्यावश्यकतया अध्याहृतपदोपस्थाप्यकर्तयेव तादृशाभावो ना बोधयिष्यते इति वाच्यम् आख्यातार्थविशेष्यकस्याप्यन्वयबोधस्य संभवेनाभ्याहारस्थानावश्यकत्वाद्भूमेर्गमनं न महीरुहस्येत्यादौ द्वितीयासमानार्थकषष्ठ्यर्थाभावबोधकताया आवश्यकत्वाच । न हि तत्राप्याश्रयतासंबन्धावच्छिन्नप्रतियोगिताकगमनाभावः प्रतीयते इति स म्यक । अनुयोग्यनुपस्थितेनोऽनुयोगिविनिर्मोकेंनाभावबोधकताया अव्यत्पन्नत्वादिति चेन्न । वृत्त्या नियामकसंबन्धस्याभावप्रतियोगितावच्छेदकत्वे दोषः कः। अथ जनकतादिसंबन्धावच्छिन्नप्रतियोगिताकसयोगाद्यभावस्यातिरिक्तस्य कल्पने गौरवमिति चेन्न । ताशाभावस्य संयोगजनकत्वाद्यमा. वसममियतत्वेन तत्स्वरूपत्वात्तस्यचोभयवादिसिद्धत्वादतिरिक्तप्रतियोगिताकल्पने गौरव मिति चेद स्त्वेतद् गौरवम् । उपदर्शितबहुविधलाघवेन ईदृशगौरवस्थाकिंचित्करत्वात् । अथ फलस्य द्विती. यार्थत्वे वृत्त्यनियामकसंबन्धस्याभावप्रतियोगितावच्छेदकत्वेऽपि द्रव्यं गच्छति न गुणमित्यादी गुणादिनिष्ठस्य संयोगादिरूपफलस्थाप्रसिद्ध्या नअर्थान्वयबोधानुपपत्तिरिति चेन्न । तत्राधेयतासं. बन्धावच्छिम्मप्रतियोगिताकप्रकृत्यर्थाभावस्यैव द्वितीयाथै फले नत्रा बोधनोपगमात । गुणोन गुणं गच्छतीत्यादिवाक्यस्य उभयमत पवाप्रमाणत्वात् । अस्तु वा तत्राभावस्य द्विधाभानोपगमेन गुणाभाववत्फलानुकूलस्पन्दाश्रयत्वाभाववान् गुण इत्याकारक पवान्वयबोधः। परेतु वृस्यनियामकसंबन्धस्याभाचप्रतियोगितानवच्छेदकत्वे नव्यमतेऽपि द्रव्यं गच्छति नाभाव. मित्यादी गतिविरहस्तथा हि । समवायसंबन्धावच्छिन्नाधेयतैव द्वितीयाओं वाच्यः । अन्यथा कालिकादिसंबन्धावच्छिन्नमामादिवृत्तिसंयोगादिकमादायातिप्रसङ्गात् । तथाचाभावादिनिरूपितत ---...----- दशकतात्पर्यज्ञानप्राममित्यानुपूर्वीज्ञानघटितसामग्रीदशकस्य प्रामाभावबदाधेयत्यविषयकप्रत्यक्ष प्रति प्रत्येकमेकैकम्प्रतिवन्धकलं तात्पर्यविषयफलान्यफलनवकविषयकप्रत्यक्षनवकं प्रति प्रत्येक प्रतिबन्धकलनवकमिति सङ्कलने शतं प्रतिबन्धकलानीति विप. रीतमौरवात् ग्राम गच्छतीत्यादिसमभिव्याहारज्ञानघटितसामग्रोप्रतिबन्धकवचिन्तायां गौरवातिशयस्य प्राचीनमते हि स्फुटतरतैवेतिचेत्र प्रतिबध्यतावच्छेदककोटाविच्छावदन्यत्लनिवेशेन भिन्नविषयकप्रत्यक्षप्रतिबन्धकलैक्योपपादने गौरवानवकाशात् तन्निवेशप्रकारस्य प्रथमाव्याख्याने दर्शितत्वात् तत्र प्रदर्शिततत्खडनरील्यनुसरणे गौरवस्थ दुर्वारलाभिप्रायेण वा चिन्यत इत्यस्योक्तत्वादिति अत एवाग्रे वस्तुतस्तु शाब्दबुद्धरधिकविषयल इत्यादिना प्राचीनमते गौरवं दर्शयिष्यति गुणो न गुणं गच्छतीति। ट्रव्यंगच्छति नाभावामिति । ननु गुणाभावपदोत्तरं कथं द्वितीया गुणस्याभावस्य च गमनकर्मलविरहाकर्मबोधकपदोत्तरद्वितीयाया एव साधुखस्य कर्मणि द्वितीयेति सूत्रेण बोधितवादिति चेन्न कर्मवान्वयितया तात्पर्यविषयार्थकपदाद्वितीयायाः साधुत्वे सूत्रतात्पर्यात् कर्मलान्वयिलं च साक्षान्नार्थद्वारा वा बोध्यम् वीजंवत्र प्रतियोग्यभावान्वययोस्तुल्य. योगक्षेमलम् यत्र प्रकृतधात्वर्थकर्मवंयस्य कदाचिदपि प्रसिद्धं तत्र तत्कर्मत्वस्याभावप्रकृतधावर्थेबोध्यतइति तत्र कर्मलसाक्षा. दन्वयित्वादेव द्वितीया यत्र यस्य प्रकृतधाखर्थकर्मखं बाधितमेव तत्र तस्याभावस्य कर्मलएवान्वयोपगमेम नअर्थद्वारा कर्मखा. न्वयाद्वितीया साध्वीति । यत्तु यत्र प्रकृतक्रियाकर्मवं प्रसिद्धं तत्र नसमभिव्याहारस्थले तस्यैवाभावो यत्र खप्रसिद्धं तत्र प्रकृत्यर्थे प्रसिद्धं यादृशं कर्मखं तस्यैवाभावो धाखथे बोध्यते तथाच ग्रामं गच्छति न महीरुह मित्यादौ पक्ष्या दिगमनकर्मलस्य महीरहादौ प्रसिद्धस्याभावबोधनाद्भवत्येव द्वितीयासाधुः अभावादी च गमनकर्मलमप्रसिद्धमिति प्रसिद्धस्य ज्ञानादिकर्मवस्याभावबोधनात्तादृशकर्मल एव द्वितीयासाधुरत एव ग्रामं गच्छति नाभावमपितु तंजानात्येवेत्यादिकं प्रयुजतेऽभियुक्ताः प्रकृतधावर्थक्रियाकर्मलान्यकर्मखाभावबोधने प्रकृत्यर्थे प्रकृतधाखर्थक्रियाकर्मवाभावनिश्चयस्य हेतुखोपगमात् प्रामनिष्ठज्ञानादिकर्म. वाभावतात्पर्येण ग्रामं गच्छत्यपि चैत्रे ग्रामं न गच्छतीति न प्रयोगस्तादृशभ्रमे चेष्यत एवं भ्रमं विना तादृशप्रयोगस्यैवानिष्टलादिति तन्न कर्मतावस्याखण्डस्यानभ्युपगमादभावनिष्टविषयत्वानिरूपकगमकर्तेति बोधस्यानुभवविरुद्धलादिति। अतिप्रसा दिति । प्राममगच्छत्यपि चैत्रे ग्रामं गच्छतीति प्रयोगप्रसंगादित्यर्थः ।

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218