Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 127
________________ गूढार्थतत्वालोकव्याख्यासहितः। १२३ रूपफलाश्रयत्वाचनस्य कर्मता।धनं प्रतिगृहातीत्यादी स्वस्वत्वजनकेच्छारूपस्वीकारविशेषो धातोरर्थः खस्यत्वरूपफले च द्वितीयार्थाधेयत्वान्वयः तण्डुलंपचतीत्यादौ रूपादिपरावृसिजनकतेजःसंयोगो धातोरर्थः । रूपादिपरावृत्तिफले च तण्डुलादिवृत्तित्वान्वयः। ओदनं पचतीत्यादी ओदनादिपदस्य तनिष्पादकतण्डुलादी लक्षणा । अवयविनि पाकानभ्युपगमे च तण्डुलं पचतीत्यादौ तण्डुलादिपदस्य तदारम्भकपरमाणुषु लक्षणा । ओदनं भुङ्क्ते इत्यादौ गलाधोनयनं धात्वर्थः । तच गलाघः संयोगावच्छिन्नक्रियानुकुलव्यापारः । ताहशक्रियारूपफलएव ओदनवृत्तित्वान्वयः । उक्तयुक्त्या मलाधोदेशस्य न कर्मत्वम् । एवमन्यसकर्मकधातूनामप्यर्थाः खयमूह्याः । वितीच्छामात्रस्थले च चैत्राय धनं ददातीति प्रयोगवारणाय वखत्वेत्यादिनिवेशः । अथ गौर्मम मास्तु हिरण्यं चैत्रस्य भवत्वितीच्छायाउपेक्षारूपाया गवि खखवध्वंसानुकूलत्वात् चैत्रसंबन्धिभाविवर्णनिष्ठचैत्रनिरूपितखत्वप्रकारकत्वाच चैत्राय गां ददातीतिप्रयोगापत्तिरिति नच व्युत्पत्तिवैचित्र्यात् कर्मणःस्वत्वध्वंसे खत्वेचान्वयोपगमात्रोक्तदोष इति वाच्यमियोर्नममास्तु सा चैत्रस्य भववितीच्छास्थले सामान्यतो गां ददाति चैत्रायेति प्रयोगापत्तेः गोपदार्थस्य गोद्वयस्योभयत्रान्वययोग्यत्वात् सामानाधिकरण्येन स्वस्खत्वध्वंसस्य प्रकारीभूतखत्वे विशेषणत्वस्य विशिष्टरूपेण सर्वत्रेच्छाया खत्वस्याविषयीकरणेन बतुन शक्यलादिति चेन्न स्वत्वप्रकारकसविशिष्टेच्छायां स्वखलध्वंसस्यानुकूलत्वेन शाब्दमतौ भाने सामानाधिकरण्येन तत्र तस्य खत्वेपि भानाभ्युपगमात् एवं च स्वत्वध्वंसे फल एव कर्मणोन्वये तस्य खत्वे सामानाधिकरण्यभाने सत्युक्तदोषस्यासंभवादिति परच संप्रदानीभूतो न कर्तृभिन्नमात्रम् तेन संप्रदामबोधकपदस्थले तदर्थस्य संप्रदानतावच्छेदकावच्छिन्ननिरूपितत्वसंबन्धाव. च्छिन्नविषयतानिरूपितत्वेन खलप्रकारतायामन्वयलाभात् ब्राह्मणस्येदन ममेतीच्छाया चैत्राय ददातीत्यस्य नापत्तिः तत्र ब्राह्मणाय ददातीत्येव प्रयोगः यदि चैत्रस्येदन ममेतीच्छायां ब्राह्मणाय न ददातीत्यस्याप्रामाण्यमानुभविकं तदा नसमभि. व्याहारे खनिरूपितरवेन खत्वे खनिष्ठविषयतानिरूपितत्वेन प्रकारतायामेव वान्वयः संप्रदानपदार्थस्योपेयः यदि वा ब्राह्मणस्य भवतु न ममेतीच्छायां वैन्त्रेणखीकारे कृते चैत्राय ददातीत्यस्य चैत्रस्य भवतु न ममेतीच्छायाँ ब्राह्मणाय ददातीत्यस्य च प्रामाणिकरवे नमोऽसमभिव्याहारेपि स्थल एव तदानिरूपितत्वेन संप्रदानान्वयः स्वनिष्ठविषयतानिरूपितत्वेन खलप्रकारतायां वाभ्युपेयः अथ परशब्दः कर्तृभिन्नपरः तथाच परखलानुकूलेच्छाया अपिधालर्थत्वे संप्रदानेनाखीकारे कृतेपि "सर्वस्यब्राह्मणः प्रभुरिति"वचनात् कर्तृभिन्नब्राह्मणनिरूपितलस्य सलादानप्रसिद्धेः कुतस्तत्परित्यागः । नच संप्रदानेनाखीकारे कृते तन्निरूपितखखानुत्पत्तेाह्मणान्तरस्वत्वेपि चैत्राय ददातीत्यस्यानुपपत्तिरिति वाच्यं तस्यापि ब्राह्मणत्वेन तनिरूपितस्यापि सामान्यस्त्रलस्य त्यक्तधनउत्पत्तिस्वीकारात् तादृशस्य च स्वलस्य कदाचित्तद्धनपरिग्रहेपि स्तेयाद्यप्रसञ्जकलात्वीकाराभावस्य तत्र यथेविनियोगार्हत्वाभावबुद्धौ प्रयोजकत्वादिति चेन्न चैत्रस्य भवतु न ममतीच्छायां चैत्रेणास्वीकारे कृते साधारणस्खखस्य मैत्रस्याप्युत्पत्तेमैत्राय ददातीति प्रयोगापत्तेः शूद्रस्यानं भवतु न ममेतीच्छायां शुद्रेणास्वीकारे कृते सर्वस्य ब्राह्मणः प्रभुरिति वचनवच्छूद्र: साधारणखत्वे प्रमाणाभावाच्छूदाय ददातीत्यस्यानुपपत्तेश्च । नच परस्खलप्रकारकेच्छाया धात्वर्थेऽप्युफ्तदोषतादवस्थ्यम् स्वत्वनिष्ठप्रकारताया मैत्रनिष्ठविषयतानिरूपितलाभावात् खलप्रकारतायाःशुगनिष्ठविषयतानिरूपितखाचेति । स्वीकारविशेषइति । विशेषपदोपादानादानप्रयोज्यस्खलजनकेच्छालाभादलक्रयादितोधनस्वीकारस्थले प्रतिग्रहादिव्यवहारस्य नापत्तिः । रूपादिपरा. वृत्तिजनकतेजस्संयोगोधातोरर्थ इति । पाके सति रूपरसगन्धस्पर्शादिचतुर्णा परावृत्तेविनिगमकाभावात्सर्वेषा धालथंघटकता तत्र तादृशसमुदायावच्छिन्नतेजःसंयोग एका शक्तिश्चेद्विशेष्यविशेषणभावे विनिगमनाविरहात् गुरुधर्मावच्छिप्रशक्तिचतुष्टयापत्तेः मुख्यविशेष्यांशे मुख्यप्रकारस्य क्वचिदेकन दूयमिति रीत्या भानेप्यन्यत्र तथा भानस्यानुपगमात्तेजःसंयोगस्य शक्तावतथालात् प्रत्येकमेव रूपादिपरावृत्यवच्छिन्ने तेजस्संयोगे शक्तयइष्यत एवं नानार्थतातात्पर्याद्बोधनियमः अत एव यत्र रूपपरावृत्तेः स्फुटमुपलब्धिस्तत्र तद्धटितार्थस्य यत्र रसादिपरावृत्तः स्फुटमुपलब्धिस्तन तद्धटितार्थस्य प्रतीतिः पचतीत्यादितोनुभवसिद्धोपपद्यते अत्रानेापारान्तरासत्त्वेपि पाचकलव्यवहारोपपत्तये व्यापारमनन्तर्भाव्यरूपपरावृत्तिफलकतेजःसंयोगमात्रस्य धाबर्थतोक्ता लाघवाच अग्निः पचतीत्यादौ तण्डुलादिव्यावृत्तं संयोगस्याश्रयत्वमाख्यातेनोच्यते तेन तण्डुलः पचतीति न प्रयोगः चैत्रः पचतीत्यादौ च मुख्यमेव कर्तृत्वं चैत्रादौ पाकानुकूलकृतेः सत्वात् यद्यपि चैत्रादिकृतिर्न साक्षाद्रुपपरावृत्तिफलोद्देश्यकतेजस्संयोगोपादानगोचरा फूत्काराधिश्रयणादिद्वारैव पुरुषेण तेजःसंयोगस्य सम्पादनीयलात् तथापि तादृशकृतौ खानुकूले निरुताव्यापारनिष्ठविषयताविशेषसंबन्धेनान्बयानक्षतिः तादृशव्यापारस्य शान्दमताववश्यविषयता तादृशव्यापारज्ञानेनैव पचतीत्यादिप्रयोगचाकलव्य तादृशसंयोगानुकूलव्यापारस्य धाखर्थतां केचिदाहुः काष्ठपाटनादिन्यापारस्य कथेचि. सादृशानुकूलत्वेपि काष्ठपाटककृते रूपपरावृत्तिफलकतेजःसंयोगानुकूलत्वेन तादृशव्यापाराविषयकस्यान्न काष्ठपाटकादौ पचतीति व्यवहारहति भावः । उक्तयुतयेति । अधिकरणानवच्छिन्नसंयोगाश्रयत्वस्यैव कमलरूपताव्यवस्थापनेनेत्यर्थः ।

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218