Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
गूढार्थतत्वालोकव्याख्यासहितः । अत्रेदं चिन्त्यते । व्यापारमात्रस्य धात्वर्थतायामपि सर्वानुपपत्तीनामुवृतत्वात् फलावच्छिन्नव्यापारस्य गुरुतया तथात्वमनुचितम् । अथ फले द्वितीयादेः शक्त्यन्तरकल्पनामपेक्ष्य धातोर्विशिष्टशक्तिकल्पनमेवोचितम् । नच भवन्मतेऽप्याधेयत्वे द्वितीयादेः शत्तयन्तरस्य कल्पनीयत्वात्तदंशे साम्यमिति वाच्यम् ग्राममध्यास्ते ग्राममधिशेते ग्राममधितिष्ठतीत्यादौ द्वितीयायाः सर्वमतएवाधेयत्वबोधकतया द्वितीयादेः फलवाचकत्वमतेऽपि आधेयत्ववाचकताया आवश्यकत्वात् । न च द्वितीयायाः संयोगादिवाचकत्वमते आधेयत्वे तस्या लक्षणैव न तु शक्तिरिति वाच्यम् आधेयतावस्याखण्डतया संयोगत्वादिसमशरीरत्वात् संयोगत्वाद्यवच्छिन्ने तवच्छिन्ने वा शक्तिः कल्प्यते इत्यत्र विनिगमकासंभवात् । अस्तु वा ममाप्याधेयत्वे लक्षणैव शक्तिस्तु संख्यायामेष । यदि च द्वितीयादः फलबोधकतामते फलेपि तस्या लक्षणैव न तु शक्तिः शक्तिस्तु संख्यायामेव संयोगविभागादिकप्रत्येकफलापेक्षया संख्यायां तत्प्रयोगप्राचुर्यस्य विनिगमकत्वादित्युच्यते तथापि तन्मते धातुजन्यशुद्धव्यापारोपस्थितेः शाब्दबोधहेतुताकल्पनम. धिकं द्वितीयाद्यसमभिव्याहारस्थलानुरोधेन फलविशेषावच्छिन्नव्यापारे धातोर्लक्षणया भवताम. प्यावश्यकत्वाद्धातुजन्यतादृशव्यापारोपस्थितिहेतुताया उभयसिद्धत्वात् । यदि च स्पन्दतइत्यादित इव शक्तिभ्रमाद्गच्छतीत्यादितोऽपि शुद्धव्यापारबोध आनुभविक इति मन्यते तथापि तन्मते शान्दबुद्धौ द्वितीयादिजन्यफलोपस्थितेः कारणतायाः कल्पनाधिक्यं तजन्याधेयत्वोपस्थितिहेतुत्वकल्प नस्य चोक्तस्थलानुरोधेन उभयमतपवावश्यकत्वादिति चेत् अस्तु तन्मते ताशकारणताया आ. धिक्यं नव्यमते तु ग्रामं गच्छतीत्यादिवाक्यज्ञानघटितशाब्दसामग्याः समानविषयकानुमित्यादिप्रतिबन्धकतायां फलप्रकारतानिरूपितव्यापारविशेष्यताशालित्वेन धातुजन्योपस्थितेर्निवेशनीयतया तस्यास्तादृशविशेष्यताशालित्वेन व्यापारविशेष्यतानिरूपितफलप्रकारताशालित्वेन या निवेश इत्यत्र विनिगमनाविरहात् सामग्रीप्रतिबन्धकताधिक्यमवच्छेदकगौरवं च । प्राचीनमते द्वितीयजन्यफलोपस्थितेः सामथ्यन्तर्निवेशस्तु नव्यमतसिद्धतजन्याधेयत्वोपस्थितिनिवेशस्थलीय इति । नव्यमते तादृशस्थले शाब्दबोधस्याधिकविषयतया तात्पर्यज्ञानादिकमप्यधिकविषयकमेव शाब्दधीहेतुर्भविष्यति, प्रतिबन्धकसामग्यामप्यन्तर्भविष्यतीतिगौरवम् । अथ फलस्य द्वितीयार्थत्वे भूमि
तोत्तरत्वरूपकार्यतावच्छेदकानाक्रान्तलात् पृथक् शक्तिपक्षे कार्यतावच्छेदकाकान्तत्वेऽपि कारणस्यापि सत्त्वायभिचाराप्रसक्तेरित्यर्थः । अथविशिष्टशक्तिपक्षे गमधातोस्संयोगेलक्षणायां गमनं न सन्द इत्यत्र संयोगविशेष्यकबोधस्येष्टतया फलव्यापारयोः शक्तिपक्षे संयोगविशेष्यकशक्तिप्रमयैव संयोगोपस्थितौ गमनं न स्पन्द इति शाब्दबोधापत्तिः स्वरसस्तारशप्रयोगापत्तिश्चेतिचेन्न विभक्त्यर्थान्यनिष्ठप्रकारतानिरूपितधातुप्रयोज्यफलनिष्ठविशेष्यताकशाब्दबोधे धातुजन्यव्यापारोपस्थितत्वेन प्रतिबन्धकलस्य कल्पनात् व्यापारविशेष्यकफलविशेषणकबोधतात्पर्यज्ञानप्रतिबन्धकलस्य वक्ष्यमाणत्वाच्च । व्यापारशक्तिमहाभावकाले चेष्टापत्तेः खारसिकप्रयोगेपि व्यापाराशक्तधातुधर्मिकफलशक्तिज्ञानस्य हेतुत्वाखारसिकप्रयोगानापत्तेश्चेति । ननु द्वितीयाया आधेयत्वेशक्तौ धातोः फलावच्छिन्नव्यापारवरूपगुरुधर्मावच्छिन्ने शक्तिः फलेशक्तौ च व्यापारलरूपलधुधर्मावच्छित्रे शक्तिरिति लाधवगौरवमेव विनिगमकमित्यत आह । अस्तुवेति । फलेऽपि तस्यालक्षणैवेति। एतेनाधेयताखरूपैकाखण्डधर्मावच्छिन्ने द्विती. याया ममैकैवशक्तिस्तवतु संयोगवविभागत्वाद्यनेकधर्मावच्छिन्नेऽनेकाशक्तिरिति गौरवमिति निरस्तम् । अन्तर्भविष्यतीति गौरवमिति । ननु भिन्नविषयकप्रत्यक्षं प्रति शाब्दसामम्याःप्रतिबन्धकत्वमस्तीति प्राचीनमत एव गौरवम् तथाहि आधेयत्वसंबन्धावच्छिन्नग्रामाभाववत्संयोगः प्रमेयो वाच्य इत्याद्यनेकभिन्न विषयकप्रत्यक्षप्रतिबन्धकत्वस्य नव्यमतकल्पनीयस्य निरूपितत्वसंबन्धावच्छिन्नग्रामाभाववदाधेयत्वं प्रमेयं वाच्यमित्यादिभिन्नविषयकप्रत्यक्षप्रतिबन्धकतया प्राचीनमतकल्प्यया समानत्वेऽपि प्राचीनमते प्रामविशिष्टाधेयखाभाववान् संयोगः प्रमेयोवाच्य इत्याद्यनेकभित्रविषयकप्रत्यक्षं प्रति प्रतिबन्धकत्वमधिकं कल्पनीयमिति तन्मत एव गौरवम् । नच प्राचीनमते प्राममित्याद्यानुपूर्वीज्ञानघटितशाब्दसामच्या ग्रामाभाववदाधेयत्वं प्रमेयनित्यादि प्रत्यक्षं प्रत्येव प्रतिबन्धकवं नवीनमते च प्रामाभाववान् संयोगः प्रमेयो ग्रामाभाववान् विभागः प्रमेयइत्याद्यनेकफलविषयकप्रत्यक्षेष्वनेक प्रतिबन्धकसमिति वाच्यम् । नबीनमते आधेयत्वतात्पर्यज्ञानग्राममित्यानुपूर्वीज्ञानघटिता कैवसामग्री तस्या प्रामाभाववत्संयोगादिफलदशकविषयकप्रत्यक्षदशकं प्रति प्रतिबन्धकलदशकं प्राचीनमते द्वितीयाया नानार्थकलासंयोगादिफल

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218