________________
व्युत्पत्तिवादः । स्यागगमनादिप्रयोगः । एवं स्यजिगमिप्रभृतिसमभिव्याहृतकर्मप्रत्ययस्य फलविशेषएव नियतं तादृशं तात्पर्यमिति न विभागादितात्पर्येण ग्रामं गच्छतीत्यादिप्रयोगः । तदर्थबोधकत्वमात्र तु न तदर्थतात्पर्येण खारसिकप्रयोगनियामकं तथा सति शक्तिभ्रमादिना घटपदस्यापि पटा. दिबोधकतया पटेऽपि घटादिपदप्रयोगापत्तिः । नापि शत्या बोधकत्वं तथा निरूढलक्षणयापि स्वारसिकपदप्रयोगात् । शक्तिभ्रमं लक्षणाशानं चान्तरेण गम्यादेविभागादिरूपफलविशेपितस्पन्दादिबोधकत्वाभावनियमोऽसिद्ध एवेति तात्पर्यभ्रमसहकृतशक्तिप्रमया तादृशबोधजननेऽपि न क्षतिः। विना लक्षणाग्रहं भ्रमानधीनताशबोधो गमिप्रभृतितो न संभवतीत्येव नियमः स च तात्पर्यभ्रमेणैव निर्वहति विभागाद्यर्थे पूर्वपूर्वेषामनादितात्पर्यभ्रमवतो वक्तुः स्वकीयतात्पर्यण प्रामं गच्छतीत्यादिप्रयोगो यत्र तत्रश्रोतुस्तात्पर्यभ्रमासंभवेऽपि वकृतात्पर्यानादित्वभ्रम एव प्रयो. गसंपादनद्वारा तदर्थशाब्दबोधप्रयोजक इति न तादृशनियमक्षतिरिति प्राचीनपथपरिष्कारप्रकार:
नव्यास्तु संयोगादिरूपफलविशेषावच्छिन्नस्पन्दो गम्याद्यर्थः तद्धात्वर्थतावच्छेदकफलशालित्व. मेव तद्धातुकर्मत्वं नातो गम्यादिकर्मत्वस्य पूर्वदेशादौ प्रसङ्गः । न वा स्पन्देः सकर्मकस्वं तत्र फलस्य धात्वर्थतानवच्छेदकत्वात् । एवं च धातोरेव फलविशेषलाभात, फलान्ययिनी वृत्तिरेव द्वितीयार्थः । न च कर्मणि द्वितीयेत्यनुशासनविरोधः तस्य कर्मणि फलनिष्ठाधेयत्वान्वयिनि प्रकृतितात्पर्ये तदुत्तरं द्वितीयेत्यर्थकत्वात् । न चैवं तस्य शक्तिग्राहकत्वानुपपत्तिः अनादितात्पर्यग्रहसं. पादकत्वेन परंपरया शक्तिग्राहकत्वसंभवात् । न च फलस्य पदार्थकदेशतया तत्र द्वितीयार्थवृत्तेरन्वयासंभवः व्युत्पत्तिवैचित्र्येण प्रकृते एकदेशान्वयस्वीकारात्। अथ गमनं न स्पन्द इत्यादितो धात्वर्थतावच्छेदके भेदान्वयबोधसंभवेन एतादृशप्रयोगस्य वारणाय फलवि व्यकान्वयबोधे तद्विशेयकवृत्तिज्ञानजन्यफलोपस्थितिस्वेन हेतुत्वकल्पनस्यावश्यकत्वात् ताशकारणबाधेन धावताय. च्छेदकफले द्वितीयार्थान्वयासंभवः। न च यादृशपदसमभिव्याहारज्ञानातू फलविशेष्यकस्पन्दभेदान्वयबोधः प्रसिद्धः ताशपदसमभिव्याहारज्ञानताशपवज्ञानजन्यफलाधुपस्थितिघटितसामग्र्यास्ता. दृशान्वयबोधोत्पादप्रयोजिकाया असत्येनोक्तस्थले तदापत्त्यसंभव इति वाच्यम् यत्र गमनादिपदा. देव लक्षणया शक्तिभ्रमेण वा खातव्येण फलोपस्थितिस्तत्र फलविशेष्यकस्पन्दभेदान्वयबोधप्रसिद्ध्या गमनपदसमभिव्याहारतजन्यफलोपस्थितिघटितसामन्या फलविशेष्यकस्पन्दत्वाद्यवच्छिन्नभेदान्वय. बोधप्रयोजकताया आवश्यकत्वात् तदलेन शक्तिप्रमाधीनबोधेऽपि फलांशे रुपन्दभेदादिभानप्रसनः। एवं च फलव्यापारयोः पृथक्शक्तिस्वीकारपक्षेऽपि न निस्तारः। तथात्वेऽपि हि गमनं न स्पन्द इत्यादौ फले शक्तिप्रमया स्पन्दभेदान्वयबोधसंभवेन तादृशप्रयोगापत्ते१रित्वादिति चेन्न । तद्विशेयकवृत्तिमानजन्यतदुपस्थितिजन्यतावच्छेदककोटौ तादृशोपस्थित्यव्यवहितोत्तरत्वनिवेशनमावश्यकम । विशिष्य तत्तत्पदमन्तर्भाव्यैव पदार्थोपस्थितेरेकैकविधबोधे नानाहेतुताया व्यवस्थापि तत्वात् एकपदाधीनतद्विषयकशाब्दबोधे पदान्तरवृत्तिज्ञानजन्यतदुपस्थितेयभिचारस्य प्रकारान्तरेण वारणासंभवात् । एवं च धात्वर्थतावच्छेदकफले द्वितीयार्थान्वयबोधेऽपि क्षतिविरहात् तत्र ताहशकारणस्य व्यभिचाराप्रसक्तरिति वदन्ति ।
रित्यस्य नासङ्गतिरित्यपि बोध्यमिति । परम्परया शक्तिग्राहकत्वसंभवादिति । द्वितीयाघेयत्वशक्ताऽसति बाधके खघटितवाक्यघटकपदान्तराबोध्याधेयवान्वितखार्थतात्पर्यविषयप्रकृतिकवादित्यनुमानस्य शक्तिग्राहकस्य तात्पर्यघटितोक्तहे. तोग्रहोपयोगितात्पर्यग्रहसम्पादकत्वेनेत्यर्थः । यारशपदसमभिव्याहारज्ञानादिति । संयोगोन स्पन्दइत्यादिसमभिव्याहारज्ञानादित्यर्थः । व्यवस्थापितत्वादिति । कारणतावच्छेदककोटौ पदविशेषस्याप्रवेशे पदान्तरात्तदर्थोपस्थितौ तदर्थागृहीतशक्तिकपदसमभिव्याहारज्ञानात्तदर्थविशेष्यकशाब्दापत्तेर्वारणाय पदविशेषवृत्तिज्ञानघटितधर्मेण कारणताया व्यवस्थापितखादित्यर्थः । तादृशहेतुत्वे च पदविशेषघटितयोस्समभिव्याहारज्ञानोपस्थिस्योरेव सहकारिखकल्पनेन नोक्तापत्तिरिति भावः व्यभिचाराप्रसक्तरिति । विशिष्टशक्तिपक्षे फलविशेष्यकाधेयत्वप्रकारकबोधस्य फलविशेष्यकवृत्तिज्ञानजन्योपस्थित्यव्यवहि