Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
व्युत्पत्तिवादः।
दितात्पर्येण एकवचनान्तस्येव द्विवचनान्तस्यापि पदस्य खारसिकप्रयोगापत्तिरिति वाच्यम् । अनादितात्पर्यस्यैव स्वारसिकप्रयोगमूलत्वादेकवचनाद्यन्तपदस्यैव एकत्वादावनादितात्पर्योपगमेनातिप्रसङ्गविरहात् । व्यंकयोर्द्विवचनैकवचने इत्याद्यनुशासनं च तादृशतात्पर्यग्राहकमेवेति वैयाकरणमतम् । तदसत् । अनन्तानां प्रकृत्याद्यानुपूर्वीणां शक्ततावच्छेदकत्वापेक्षया अल्प. तरविभक्त्याद्यानुपूर्वीणामेकत्वादिशक्ततावच्छेदकत्वस्यैवोचितत्वात् । न च प्रातिपदिकत्वमेव
छेदक न तु घटपदत्वादिकांमति न शत्यानन्त्यमिति वाच्यम् । प्रातिपदिकत्वस्य दुनिर्वचत्वात् । तदझानेऽपि एकत्वादिज्ञानस्यानुभविकत्वात् । पदत्वेन वर्णत्वेन वा शकत्वे विभक्तरपि तहाचकतासिद्धे । एकत्वादिशाब्दबोधात्पूर्व वर्णत्वाद्युपस्थितेरप्यनावश्यकत्वाश्च।
फलतोऽन्वयाटघटत्वयोरेकयैववृत्त्या पदार्थखात् एवं च संख्याया अपि न प्रातिपदिकार्थलसंभवः किंच संसर्गतामतप्रस्ताव उक्तव्युत्पत्तेरप्रामाणिकलस्येष्टानिष्टप्रयोगगतेश्चोक्तवादिदमसंगतम् । नचैवं सति कर्मत्वेनान्वयापत्त्याप्रातिपदिकार्थत्वमपि कर्मलादीनां न स्यादिति वाच्यं प्रकारलपक्षव्यवस्थापकप्रतिवध्यप्रतिबन्धकभावलाघवगौरवस्य जागरूकत्वात् तथापि परमतस्य यथापराभ्युपगममियममुक्तिरितिवेदितव्यम् । स्वारसिकप्रयोगापत्तिरिति । खतोरसः स्वरसः रसइच्छा सा च प्रयोगमूलीभूता तात्पर्यापरपर्याया बुबोधयिषा स्वतस्त्वं च तस्यांशक्तित्रमाद्यनधीनत्वे सति प्रयोजनानुसन्धानाजन्यत्वमेवञ्च यः स्याच्छक्तिभ्रममूलको यश्च शैत्यपावनखादिप्रतिपत्तिप्रयोजनाभिसन्धिजन्मा गङ्गायांघोषइत्याद्याधुनिकलक्षणामूलकः सएव न भवति स्वारसिक एकत्खतात्पर्येण घटाविति तु वारसिक एव स्यादिति भावः । लाघवादनादितात्पर्यमूलकलमेव खतरलं वाच्यं शक्तिभ्रमस्थल एवाधुनिकलक्षणास्थले च तत्तदर्थेनास्त्यनादिस्तात्पर्यः क्वचिच तद्भम एवेति घटादित्यस्यानादितात्पर्यमूलकबुबोधयिषाजन्यवाभावान्न खारसिकत्व मित्यभिप्रेत्याह-अनादितात्पर्यस्येति । नचैवमपि तात्पर्यग्रहे घटावित्यतः शक्तिभ्रमं लक्षणाग्रहच विना शाब्दबोधापत्तिारैवेति वाच्यमिष्टलात् एकवचनान्तर्घटादिपदतात्पर्यस्यानादित्वे सूत्रेबोधित घटादिविशेप्यैकलप्रकारकशाब्दबोधे खाद्यन्तधटपदधर्मिकतात्पर्यज्ञानस्य घटइत्यानुपूर्वीज्ञानस्य वा हेतुतया तन तद्रमस्यावश्यकबादभ्रान्ततादृशशाब्दबोधस्यैवानिष्टलादितिभावः । अवच्छेदकत्वस्यैवोचितत्वादिति । प्रागुक्तोपस्थितिलाघवापेक्षया प्रकृत्यानुपूर्व्यानन्त्यनिबन्धननिरूप्यनिरूपकभावभेदकृतानन्त्यवदीश्वरेच्छीय विषयताकल्पनगौरवस्य जघन्यलादिति भावः । धालादिभिनार्थवच्छन्दखस्वार्थनिष्ठमुख्य विशेष्यताप्रयोजकप्रथमानिष्ठविशेष्यतानिरूपिताव्यवहितोत्तरवसंबन्धावच्छिन्नप्रकारतावच्छेदकतापर्याप्स्यधिकरणधर्मवत्वादेः प्रातिपदिकत्वस्य सुवचत्वेपि तदज्ञानदशायामप्यभ्रान्तस्य शाब्दबोधान्न तस्य शक्ततावच्छेदकत्वम् येन रूपेण यतोज्ञायमानानियमेन यद्धोधः तद्रूपावच्छिन्नस्यैव तत्र शक्ततायाउचितलादव्यभिचरति स्थानुपूर्व्यवच्छिन्नस्यैव शानन्नतु प्रातिपदिकत्वावच्छिन्नस्येत्यभिप्रेत्याह । तदज्ञानपीति । नन्वेकलांशशाब्दबोधः सर्वत्रैव घटः पट इत्यादौ परिदृश्यमानोनुगतं शतं स्वकारणमाक्षिपन् कुसशक्तिकपदरूपाश्रयोपस्थितिलाधवसहकारेण प्रातिपदिकत्वरूपानुगत. धर्मोपगृहीतमेव व्यभिचारपरिहाराय शक्तं स्वकारणं कल्पयतीतिप्रातिपदिकत्वेन सिद्धे शक्तत्वे तदज्ञानदशायां जायमानशाब्दबोधकारणीभूतज्ञानस्य शक्ततावच्छेदकलांशे भ्रमलमेव कल्प्यते लघुधर्मस्य प्रतियोगितावच्छेदकत्वे व्यवस्थिते प्रतियोगितावच्छेदकलांशे कम्बुग्रीवादिमानास्तीत्यादिसार्वजनीनप्रतीतेमववत् घटपदलादिना घटादिशक्तत्वे सिद्धेऽपभ्रंशस्थलीय. बोधकारणज्ञानस्य बहुलीभूतस्यापि भ्रमत्लवद्वा अपि बालत्वेन कर्तृत्वादिशक्तत्वे सिद्धे सर्वत्रैव प्रयोगेष्वधूयमाणस्यापि तस्य तत्त्वेन ज्ञान कल्पनवत्प्रातिपदिकत्वेन तज्ज्ञानं कल्प्यत इत्यतआह । पदत्वेनेति व्यभिचारपरिहारक्षमलात्प्रातिपदिकलापेक्षया लघुखाचोक्तक्रमेण पदलस्यैव तत्सिद्धिः स्यादितिभावः । ततोपि लाघवादाह वर्णत्वेनेति । नच वर्णवादिकं शक्तताव्य. भिचारीतिवाच्य शक्ततायाविषयतारूपत्वेन व्यभिचारस्यानवच्छेदकलेऽकिञ्चित्करत्वाद् यद्वानुगतधर्ममात्रस्यसर्वत्रैव फलोपधायकतारूपकारणताव्यभिचारित्वात्स्वरूपयोग्यतायाश्च प्रकृतेपि वर्णलादेरव्यभिचारित्वात्सहकार्यन्तरविरहाद्धि न यतः कुतश्चिद्वर्णाच्छक्यप्रतिपत्तिः तस्यैवहि रूपस्य न तवं यस्य कदाचिदप्यजनकेनिये साधारण्य मितिभावः। तेन रूपेण विभक्तरपि शक्तत्वे परेषामिष्टापत्तिमाशङ्कय प्रातिपदिकोक्तपक्षोक्तदोष एव स्मारयति एकलादिशाब्दबोधादित्यादिना । अनावश्यकत्वाञ्चति । ननु येन रूपेण शक्तता तद्रूपेण ज्ञानस्य शान्दात्प्रागनपेक्षितखे तदभावेन शक्ततावच्छेदकलनिराकरणमसङ्गतम् अपेक्षितत्वेचापेक्षितमनावश्यकश्चेति व्याहतं वचः उपस्थितेरभावादित्येव हि वक्तुमुचितमितिचेत्सत्यं तदेव वक्तमुचितमन्यथातु प्रमादादिति गृहाण । यद्वा यद्यानुपूर्वीमन्तरेण केवलवर्णत्वेन ज्ञानस्यै कलशाब्दसहचारः कार्यकारणभावकल्पनामूलं कापिचेस्परिदृष्टोवर्णवमन्तरेणानुपूर्वीज्ञानस्य चादृष्टस्तदा लाघवाढुष्टसहचारस्थलेकुप्तकारणभावस्य व्यभिचारवारणायान्यनापिकल्पनं भवेदावश्यकन्तदभावाश्चानुपूर्त्याएव नियतसहचारावच्छेदिकाया ज्ञानेनोपपत्तिसंभवाद्वर्णरवेनोपस्थितेरनावश्यकलन्तत्वादेव व न शक्ततावच्छेदकलं तेनरूपेण बोधजनकत्वस्येश्वरेच्छया ग्रहणेतस्याविसंवादिखापत्तेः अनादावपिदि

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218