Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 112
________________ १०८ व्युत्पत्तिवादः। रपि शाब्दबोधात्प्रागावश्यकत्वात् प्रकृतसंसर्गेण एकपदार्थविशिष्टापरपदार्थबोधपरत्वज्ञानस्य प्रकृतवाक्यार्थविषयकतया प्रागसंभवेनोपदर्शिततात्पर्यज्ञानस्यैव शाब्दधीहेतुत्वोपगमात् । एवं वाक्यार्थ. घटकसंसर्गस्याननुगमे घटौ स्त इत्यादौ वाक्यभेदप्रसङ्गाश्च । अनोच्यते । व्यासज्यवृत्तिधर्मावच्छिनोद्देश्यताकशाब्दबुद्धौ स्वव्याप्यताहशधर्मवत्वमपि विधेयसंसर्गतया भासते इति व्युत्पत्तिः । व्याप्यत्वं च तद्वदन्यावृत्तित्वम् व्यतिरेकिविधेयस्थले तादृशधर्मवत्त्वं चोद्देश्यतावच्छेदकताघटकसंबन्धेन बोध्यम् । अत्र घटौ स्त इत्यादौ एतद्देशवर्तमानस्वादिरूपविधेयस्य तदन्यावृत्तित्वरूपव्याप्तिमचैतद्देशस्यैकघटादिव्यक्तिमात्राधिकरणत्वे घटपटादिनिष्ठद्वित्वमेव घटत्वव्याप्तपर्यातिरूपोद्देश्यतावच्छेदकताघटकसंबन्धावच्छिन्नम् तद्वत्त्वं च घटादी बाधितमिति न तादृशवाक्यस्य प्रामा ण्यम् । अधिकरणस्य घटद्वयादिमत्वे च घटत्वादिव्याप्यं द्वित्वमेव तथेति घटत्वादिब्याप्यपर्याप्तिसंवन्धेन तद्वत्त्वं घटादावबाधितमिति ताहशवाक्यस्य प्रामाण्यं निर्वहति केवलान्वयिविधेयकस्थले च द्वित्वत्वाद्यवच्छिन्नव्यापकत्वमेव संसर्गघटकम् केवलान्वयिनि तादृशव्यापकताया अक्षतत्वात् । न तु तत्तद्वित्वत्वावच्छिन्नव्यापकत्वमिति न पूर्वोक्तदोषावकाशः । घटावानयति चैत्र इत्यादी चैत्रकर्तृकानयनकर्मत्वादिव्याप्यद्वित्वादिमनिष्ठनिरूपकताकाधेयत्वादिसंबन्धेन कर्मत्वादो घटादेर न्वयो व्युत्पन्नः तेन चैत्रादौ एकघटादिव्यक्तिमात्रानयनकर्तृत्वे न तादृशप्रयोगः। प्रकारतावच्छेदकीभूतघटत्वादिव्याप्यपर्याप्तिसंबन्धेन बोध्यम् तेन चैत्रस्य पटादिसहितैकघटादिव्यक्यानयनकर्तृत्वेऽपि न तादृशप्रयोगः। एवमन्यत्राप्यहनीयम् । यत्रानेकवृत्तिधर्मों द्वित्वान्वयितावच्छेदकतयाभासते तत्रोभयादिनैव समं पदार्थान्तरस्यान्वयः। यत्रैकमात्रवृत्तिधर्मस्तथा तत्रैकेनापि व्युत्पत्तिभेदावलम्बनात्कार्यकारणभाववैचित्र्याश्च सर्व समञ्जसमित्यपि वदन्ति । अथ घटादिव्यक्तिभेदेनानयनकर्मता भिन्नति प्रतिसंवधानस्य पुंसो घटावानयतीति वाक्याच्छाब्दबोधानुपपत्तिः तस्य कर्मतात्वावच्छेदेनाधेयतासंसर्गावच्छिन्नप्रतियोगिताकस्य द्वित्वाद्यवच्छिन्नघटाद्यभावस्य निश्च. यसंभवात् तस्य द्वित्वादिना तादृशसंसर्गकघटादिविशिष्टधीविरोधित्वादिति चेन्न उभयत्वाद्यवच्छिन्नाभाववत्ताज्ञानमुभयत्वावच्छिन्ननिरूपिताधेयतासंसर्गावगाहिज्ञानमेव प्रतिबध्नाति न तु के. वलं विशेष्ये विशेषणमिति रीत्या जायमानमुभयत्वादिविशिष्टज्ञानम् , अतो विशेषदर्शिनां ताश. वाक्याहोषायत्तमाधेयत्वांशे उभयत्वाधवच्छिन्ननिरूपितत्वावगाहिभ्रमात्मकशानं न भवत्येव । अपि तु तदंशे तदनवगाहिप्रमात्मकं ज्ञानमिति उभयत्वावच्छिन्ननिरूपिताधेयत्वं चोभयादिवृत्तावेकस्मिन्धमें एव न तु प्रत्येकमात्रवृत्ताविति कर्मत्वांशे तादृशाधेयत्वावगाहिज्ञानस्य भ्रमत्वमित्यवधेयम् । __ संख्याश्च प्रकृत्यर्थतावच्छेदकगताः क्वचित्प्रतीयन्ते यथा संपन्नो ग्रीहियवावित्यादौ । एतत्तत्वं प्रागेवाभिहितम् । विरुद्धसंख्यावच्छिन्नवाचकशतादिपदोत्तरविभक्त्युपस्थाप्या संख्या प्रकृत्यर्थतावच्छेदकसंख्यायामेवान्वेति यथा शतमेकं द्वे शते त्रीणि शतानीत्यत्र शतत्वादौ एकत्वद्वित्वबह त्वानामन्वयः अतएव च एकशतद्विशततात्पर्येण न शतानीति प्रयोगः तत्र प्रकृत्यर्थस्य शतस्य यहुत्वाद्यन्वययोग्यत्वेऽपि प्रकृत्यर्थतावच्छेदकशतत्वांशे बहुत्वाद्यन्वयएव बहुवचनस्य साकारत्वात् एकलाविवक्षायामपीतिशेषः । यत्रैकमात्रवृत्तिधर्मस्तथेति। इदश्च योग्यताम्रमेणाकाशावत्रस्त इत्यत्र शाब्दस्यानुभविकत्वात् तत्रानेकवृत्तिधर्मस्योद्देश्यतावच्छेदकखविरहात्तदसङ्कहप्रसङ्गात्तस्सङ्ग्रहायोपात्तम् । नन्च घटावत्रस्त इत्यत्र योग्यताभ्रमेणकपटविषयकशालदस्थले का गतिरुद्देश्यतावच्छेदकस्यानेकवृत्तित्वात् विषयस्यैकल्लादिति बाध्यम् योग्यताश्रमोहि द्वेधासंभवति द्वयोरेतद्देशवृत्तित्वभ्रम एकस्य द्विल भ्रमञ्च तत्र प्रथमभ्रमस्थले द्वयोरेव विषयलमनेकवृत्तिधर्मश्चोद्देश्यतावच्छेदकइति न कापि क्षतिः द्वितीयभ्रमस्थले चाकाशवस्येव तत्त्वेदन्वादेरेवद्विखोद्देश्यतावच्छेदकतायाः समुचितत्वेन घटपदस्य तत्र लक्षणायाएवोपेयतथैकमात्रवृत्तेरुद्देश्यतावच्छेदकल्पमेकस्यैव विषयत्वमिति नानुपपत्तिः यदि घटत्वेनैवैकस्य विषयलं घटत्वस द्विखोद्देश्यतावच्छेदकत्वश्चानुभविकमुक्तच प्राक् अन्थएव द्वावत्रस्तइत्यादिवाक्याखिलादिनानेकव्यक्तिमात्रविषयकपदार्थान्तरान्वय. बोधादिति तदेदमनुचिन्तनीयमनेकवृत्तिधर्मणानेकावगाहनमेव द्वित्वादिबोधानामौत्सर्मिकं तदेकव्यक्त्यवगाहनग्न कम्माच्चिद्दोषा

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218