Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 101
________________ गूढार्थतत्वालोकव्याख्यासहितः । कालानुरोधेन तस्कल्पने ख कल्पनागौरवात् । एवमानुपू:भिन्नधर्मस्य वाचकतापच्छेदकत्वे घटपर्द सुपदं च न संख्यावाचकमिति विपरीतनिश्चयकालेऽपि तादृशधर्मावच्छिन्नस्य वाचकताग्रहसंभवाद् घटइत्यादौ संख्याथा बोधापत्तिः । अथ विभक्तीनां संख्यार्थकतामते प्रकृतिविमस्योरेकवाक्य. ताविरहनिश्चयदशायां विभक्युपस्थाप्यैकत्वादेः प्रकृत्यर्थेऽन्वयबोधवारणाय तयोः समभिव्याहारहानस्य घटादिविशेष्यकैकत्वान्वयबोधं प्रति कारणत्वमधिकं कल्पनीयम् । एकपदोपस्थापितयो घटैक. त्वाधोरन्धयबोधोपगमे च न समभिव्याहारशानस्य तत्र हेतुता कल्प्यते इति लाघवात्, प्रकृत्याद्यानुः पूर्वीणां संख्यावाचकतावच्छेदकत्वमुपेयतइति चेन्न । आकाङ्क्षाविचारे समभिव्याहाराकासाझानस्य हेतुताया निराकृतत्वात् । अथैवमपि विभक्तेः संख्यार्थकत्वे विनिगमनाविरहेण प्रकृतिधर्मिकस्य शक्तिमहव्यवहारपरम्परायां व्यवहारेणैव सः व्यवहारश्च प्रत्यक्षसिद्धइति व्यवहारातिक्रमेण वर्णत्वेनापि जनकलावगाहिनी न भवति विसंवादिनीति वक्तुमशक्यमेवान्यथा सर्वापिशक्तिव्यवस्थाव्याकुलीभावमापद्येत वर्णखमात्रेणैव सर्वार्थशक्ततास्यात्स्याच सर्वेसर्वार्थवाचका न स्याच मुख्यगौणव्यवस्था नचानुपूर्व्यवच्छिन्नानांभूयोगृहीतखसमानोपकारकविधुरस्थलकार्यसहचाराणां पश्चात्परिदृश्यमानोपि व्यभिचारस्तृणारण्यादिवत्कार्यजननशक्तिमपाकर्तुमीष्टे लकारस्थलेपि च तिवादिनैव शक्ततेति गूढाभिसन्धिः । फलानुरोधेनतत्कल्पनेचेति । ननुवर्णखस्यापि योग्यतया कलादिग्राहकसामन्यैव ग्रहणसंभवात्किमितिफलानुरोधेन तत्कल्प कार्य मितिचेन्न नहियोग्यस्यापिहि सर्वत्र ग्रहणं संशयायनुपपत्तेः ततश्च यथानुभवं प्रतिबध्यप्रतिबन्धकभावादिकल्पनेन काचित्कलं समाधेयं दृश्यते च बाहुल्येन प्रवृत्त्यायुपयोगिग्रहाणां मध्यविधधर्माणां प्रहणं न सामान्यस्य नाप्यन्यस्य विशेषस्येति तत्तद्धर्मबुभुत्सापनेयदोषभावानां खरसवाहिमध्यविधर्मबुभुत्सानां संस्कारविशेषाणां वा दोषलं तत्तद्धर्माप्रहे कल्प्यमावश्यकञ्चोभयमतएव कत्यादिवर्णलव्याप्यधर्मग्रहणमिति सर्वत्र वर्णत्वग्रहाय फलानुरोधेन तद्भुत्सादिकल्पनापत्तन काचिदनुपपत्तिरित्यपरितोषादाह । एवमानुपूर्वीत्यादि।एकवाक्यताविरहनिश्चयेति । एकवाक्यख संभूयैकार्थप्रतीतीच्छयोचरितत्वम् निरूप्यनिरूपकभावापन्नतत्तत्पदार्थद्वयविषयताकबोधजननयोग्यवं तदुत्थाप्याकालानिवर्तकलतनिवर्तनीयाकाम्लोत्थापकत्वान्यतरयोग्यलं वेत्यन्यदेतत्तेष्वेकस्यापि ययोः पदयोरभावनिश्चयस्तत्तदर्थयोरन्वयबोधस्तु न भवत्येवानुभविक इतिभावः । तयोः समभिव्याहारज्ञानस्येति । अत्र समभिव्याहारो न पौर्वापर्यमात्रमुक्तैकवाक्यताविरबहानकालेपि तज्ज्ञानसंभवेनोक्तापत्तेः समभिव्याहारज्ञानकारणत्वकल्पनयापि वारणस्यासंभवात् किन्त्विदं पदमनेन पदेन सहान्वयबोधं जनयत्वितीच्छारूपं यत्पदतात्पर्यन्तद्विषयत्वन्तेनोचरितत्वं वा तज्ज्ञानन्तु भवत्येवोक्तवाक्यताविरहनिश्रयविरोधिप्रथमैकवाक्यत्वस्य विरहः खतएव समभित्र्याहारस्य विरोधी द्वितीयतृतीययोस्तु कथंचित् सन्नभवति तथाप्रतिपादनयोग्यं साकाई वा परस्पर कथंकार तद्युत्पत्रानां तथेष्टं भवेदित्यनुभवसिद्धम् समभिव्याहारोपि वा तदनुसारेणैव निर्वाच्य इति । न समभिव्याहारज्ञानस्य तत्र हेतुतेति । प्रथमायास्तात्पर्यग्राहकत्वात्प्रयोगसाधुत्वार्थत्वाच तदर्थमेवोश्चरितत्वेमार्थप्रतीतीच्छयोचरितत्वाभावात्तग्रहेपि शाब्दबोधस्येष्टत्वात्समभिव्याहाराभावाच न तहस्य हेतुत्वमित्यर्थः । हेतुताया निराकृतत्वादिति । अयमेति पुत्रो राज्ञः पुरुषोपसार्यतामित्यादौ राज्ञः पुरुष इति नैकं वाक्यमिति ग्रहेपि राजसंबन्धवत्पुरुषादिबोधापत्तिः योग्यत्वासल्या काहादेः संभवादतः समभिव्याहारज्ञानस्य खातन्त्र्येण हेतुत्वमाकाडाशरीर एव वा प्रवेश्यः समभिव्याहार इति तज्ज्ञानहेतुखं व्यवस्थाप्य नानार्थकशाब्दस्थलानुरोधेन तात्पर्यज्ञानस्य हेतुताया आवश्यकत्वे वाक्य. मिदमेतदर्थान्वितैतदर्थविषयताकबोधं जनयत्वितीच्छयोधरितत्वरूपस्य तादृशेच्छाविषयखरूपस्य वा वाक्यतात्पर्यस्य बुद्धेरेव हेतुख कल्पनीयं नत्सिद पदमेतदर्थबोधेच्छयोचरितमितिपदतात्पर्यज्ञानस्य नानार्थकानेकपदघटितवाक्यस्थलेऽनेककारणलापतेः पदतात्पर्यस्यानेकखात् वाक्यप्रयोजकबुवोधयिषातिरिक्तायास्तत्तत्पदे तत्तदर्थबोधजनकलप्रकारकेच्छाया अप्रा. माणिकत्वाच एतेन वाक्यस्याखण्डस्याभावेन विनिगमकाभावेन तत्तत्पदविशेष्यकतात्पर्यज्ञानस्यानेकहेतुत्वेपि न क्षतिः । तथा सत्ययमेतीत्यादौ निरुक्तकवाक्यतविरहनिश्चये राजसंबन्धान्वितपुरुषबोधेच्छयोच्चरितवरूपतात्पर्यग्रहरूपकारणविरहादेव शाब्दबुद्धरसंभवः सति च कथंचित्तात्पर्यग्रह एकवाक्यलस्य सममिव्याहारस्य वा सन्देहे व्यतिरेकनिश्चयेपि शाब्दबोधइष्ट एवेति न समभिन्याहारज्ञानं कारणं तात्पर्यघटकवाक्यवं च पूर्वापरीभूतपदसंघखमेवेत्येवं खण्डितम् एवञ्च घटपदसैवैकलं घटश्चार्थोभवतु प्रथमाया एकसं घटपदस्य घटइति वा सर्वथैव घटइति वाक्यमेकत्वविषयतानिरूपितघटविषयताकबोधेच्छयोचरितमिति तात्पर्यज्ञानमावश्यकन्तस्य कारणवात् तच्चैकवाक्यताविरहग्रहकाले न स्यादेव एकवाक्यलस्यार्थविशेषापटितत्वेन सामान्यस्याभावनिश्चये तात्पर्यस्यार्थविशेषघटितत्वेन विशेषस्यापि ग्रहस्यासंभवात् सति च कथंचित्तबहेशाब्दबोधोपीध्यत एवेति न समभिव्याहारज्ञानस्य कारणवं विभक्तिवाचकत्वपक्षेपीत्याशयः ॥ १३ व्यु

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218