Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 106
________________ १०२ व्युत्पत्तिवादः । बोधकत्वे समानविषयकानुमित्यादिकं प्रति शाब्दसामग्रीप्रतिबन्धकतायां या प्रातिपदिकजन्या घटापस्थितिर्या च विभक्तिजन्या संख्योपस्थितिः प्रवेश्या तयोश्चमिथोविशेष्यविशेषणभावे विनिगमनाविरहात्प्रतिबन्धकताबाहुल्यम् । प्रकृतेर्विशिष्टलाक्षणिकत्वे तु तदुभयस्थलीयविशिष्टविषयकोपस्थितिरेकैव सामथ्र्यामन्तर्भवति इति लाघवम् । न च विशिष्टविषयको पस्थितेरपि एकत्वादिप्रकारतानिरूपितघटादिविशेष्यताशालित्वेन घटादिविशेष्यतानिरूपितैकत्यादिविषयताशालित्वेन वा प्रवेश इति विनिगमनाविरहात्साम्यमिति वाच्यम् । भवन्मते योग्यताज्ञानघटोपस्थित्येकत्वोपस्थितीनां तिसृणां विशेष्यविशेषणभावे विनिगमनाविरहेण प्रतिबध्य प्रतिबन्धकभावषङ्कं मन्मते तत्र योग्यताशाने विशिष्टविषयकोपस्थितेः प्रत्येकं दर्शितोभयरूपेण वैशिष्ट्यं निवेश्य तदुभयं प्रत्येकं साररूपद्रयावच्छिन्नायामुपस्थितौ योग्यताज्ञानस्य वैशिष्यं निवेश्य च द्वयमिति तचतुष्टयमात्रमितिरीत्यास्माकमल्पतरतत्कल्पने महालाघवम् । तादशरोत्यैव च प्रणमतीत्यादौ प्रकर्षविशिष्टनतिर्द्धातूनामेवार्थः प्रादयो द्योतका एव न तु प्रकर्षादिवाचका इति सर्वानुमतः पन्थाः परिष्कर्तु शक्यते अन्यथानन्तधातुजन्यप्रकर्षादिविशिष्टतत्तत्स्वार्थोपस्थितीनां शाब्दधीजनकतामपेक्ष्य कतिपयोपसर्गधीनप्रकर्षाधुपस्थितीनां तजनकताकल्पने लाघवास् । स्वादीनामिव प्रादीनामपि वाचकता निराबाधा सिद्ध्येतेति संख्यायाश्च प्रकृत्यर्थे पर्याप्तिसंबन्धेनैव विशेषणत्वं न तु समवायादिना । तथासति एकव्यक्तिबोधपरादाकाशशब्दादपि द्विवचन बहुवचनाद्यापत्तेः । तत्तदर्थयो द्विबहुस्वयोः समवायादिना आकाशाद्यन्वययोग्यत्वात् । न च पर्याप्तेः संसर्गत्वेऽपि तद्दोषतादबस्थ्यम् घटाकाशादौ द्वित्वादेः पर्याप्तिसत्वे प्रत्येकमाकाशादौ तत्पर्याप्तिर्नास्तीति वकुमशक्यत्वात् प्रत्येकस्योभयानतिरिक्तत्वादिति वाच्यम् । उद्देश्यतावच्छेदकन्यान्यत्वविशिष्टपर्याप्तेरेव संसर्ग तोपगमात् । आकाशत्वादिव्याप्यताया द्वित्वादिपर्याप्तावसत्वेनातिप्रसङ्गविरहात् । वैशिष्ट्यं दिस्मृतिभिर्वा कोषैश्च शक्यतावच्छेदकादिलाघवोपदर्शितोपस्थितिकार्यकारणभावलाघवप्रहसहकृतैर्घटादिप्रातिपदिकानां वटादौ स्वाद्येकवचनादीनामेकत्वादावमादिद्वितीयादेः कर्मवादी शक्तिषु परिच्छिन्नासु पश्चादुपनिपतितं प्रतिबन्धकत्वगौरवं फलमुखगौरवत्वात्प्रतिसन्धीयमानमप्यकिञ्चित्करं प्रकारतामतव्यवस्थापनावसरोक्तमपि लाघवगौरवं न स्वतः शक्तिव्यवस्थापकमपितुव्यवस्थितायाएवानुग्राहकं प्रपचितं चैतत्तद्व्याख्यानावसर एव । अथोक्तव्यवस्थामतिक्रम्य पश्चादुपनिपातिभिरुक्तलाघवगौरव प्रहैर्यदिशक्तिव्यवस्थास्वीक्रियेत तदा स्वादिसमभिव्याहृत घटपदादीनामेकत्व विशिष्टघटइवामादिसमभिव्याहतानां तेषां घटकर्मत्वादौ लक्षणां स्वीकृत्य विभक्तिमात्रस्य निरर्थकतैवोचिताङ्गीकर्तुम् विशिष्टोप स्थितिप्रयुक्तप्रतिबध्यप्रतिबन्धकभावलाघवग्रहेण कर्मत्यादिशक्तिग्राहकस्य दुर्बलीकरणात् नामार्थधात्वर्थयोरित्यादिनियमादपि न भेतव्यम् तत्प्रसञ्जितानिष्टवारके संसर्गतावादिदर्शिताकाङ्क्षावैचित्र्याभ्युपगमे जाप्रति नामार्थधात्वर्थयोर्न भवति साक्षादन्वयोविभक्तिग्रा हितात्पर्य कविशिष्टांशकर्मत्वाद्यर्थमन्तरीकरणं विनेत्यर्थकतयाऽपि तस्य गतेः संभवात् विभेषिचेत्ततोत्पानां विभक्तीनामेव प्रकृत्यर्थत्वेन पराभिमतविशेषितकर्मत्वादावङ्गीकुरुलक्षणाम् । तत्र प्रतिबन्धकखलाघवमिवानन्तानां प्रकृतीनां शक्यकल्पनालाघवमप्यधिकं भविष्यति । नच विभक्तीनामकॢप्तशक्तिकला नैवमिति वाच्यं प्रकृति विना कृतस्य प्रत्ययस्य प्रत्ययं विना कृतायाः प्रकृतेरपि प्रयोगविरह दुभयवादिसंप्रतिपन्नतदुभयविविक्तस्थलाभावात् लाघवेन लक्षण निर्वाहाय संख्यामात्रे कतिपय विभक्तीनां शक्तिकल्पनाया एव न्याय्यत्वात् विभत्त्यर्थघटितार्थे प्रकृतिलक्षणा निर्वाहाय प्रकृतिशक्तौ कल्पनीयायामनन्तशक्तिकल्पनाप्रसंगेन गौरवात् । नच प्रकृतेस्तत्रलक्षणाग्रह उभयवादिसंप्रतिपन्नशाब्दनिर्वाहाय तस्य कुप्तत्वमिति वाच्यं विभक्तेनं तत्रलक्षणाग्रह इत्यत्रविनिगमकस्य दुर्लभत्वात् । नच समासस्थले लाघवेनानुपलब्धविभक्तिकतदेकदेशस्य स्वार्थबोधानुरोधेन शक्तिरावरिय कीति वाच्यं समासोत्तरविभक्तेर्विशिष्टलक्षणयैव तदर्थस्यापि प्रतिपत्तिसंभवात् नच प्रत्ययानां प्रकृत्यर्थान्वित स्वार्थबोधकत्वनियमभंगात् तत्राप्यस्ति भीः संसर्गतावादिना विभक्तेरर्थस्यैवानभ्युपगमेन तस्य मूलतएवसमुच्छेदनात् प्रकृत्यर्थत्वेन प्राक्प्रतीयमानान्वितार्थपरतया तस्य समाश्वासनीयत्वाच्च विभक्त्यर्थानुशासनानामिव प्रातिपादिकार्थानुशासनानामपि तात्पर्यग्राहकखोक्तः संभवान्नतद्वैयर्थ्याप्रामाण्यप्रसंगादपि करणीया भीतिः । अस्तुवा धातूनामेव तण्डुलकर्मकपाकाद्यर्थे लक्षणा विभक्तिमात्रार्थबोध इव न तत्र तचाप्यस्ति विमतिः प्रातिपदिकानुपूर्व्यपेक्षया धालानुपूर्वीणा मल्पत्वेन तन्त्रशक्तिकल्पने लाघवात् पचतीत्यादिस्थलानुरोधेन तच्छक्तेः कृप्तत्वात् बहुतरलाघवप्रयोजकलक्षणानुरोधेनैव वा कल्प्यत्वात् एतेन तण्डुलमियादिस्थलानुरोधेन कर्म

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218