Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 96
________________ ९२ व्युत्पतिवादः। ध्यभासकलामण्यभावादसौ मुख्यविशेष्यतयैष भासते । संख्यावाचकानां च एकवचन द्विवचन प्रथमान्तार्थस्य चैत्रस्य खकर्सकलसंबन्धेन द्वितीयान्तार्थस्य तण्डुलकर्मत्वस्य शुक्रकर्मत्वस्य तृतीयान्तार्थस्य काष्ठकरणत्वस्य सप्तम्यन्तार्थस्य स्थाल्यधिकरणत्वस्य च स्वनिरूपकपाकविषयकत्वसंसर्गेण तस्यामेव नसमभिव्याहारस्थले चैत्रस्याधेयतयाभावेतस्य प्रतियोगितया तस्यां तण्डुलकर्मलादीनां प्रतियोगितया भावे तस्य खाश्रयपाकविषयकत्वेन तस्याम् अथवा खवृत्त्यभावप्रतियोगिखस्वाभाववत्पाकादिविषयकलादिसंसर्गेण चैत्रतण्डलकर्मवादेरपि तस्यामेव नीलपदार्थस्य घटपदार्थस्य च सत्ताश्रयत्वरूपायां धात्वान्विताख्यातार्थभूतायां भावनायामेवान्वयः एवं पचत्येव चैत्रः पचत्यपि चैत्रश्चैत्र एव पचतीत्यादावपि खवृत्यभायप्रतियोगिक्रियाकर्तृत्वनिष्ठभेदप्रतियोगिलादिसंसर्गेण चैत्रादेर्भावनायामेवान्वयः एवं कर्माख्यातस्थलेऽपि कीख्यातस्थले कर्तृलक्षणावत्कर्मलक्षणायामपि भावनाप्रतीयत एव तस्यामेव तण्डुलादेः खकर्मतानिरूपकपाकविषयत्वसंसर्गेण चैत्रकर्तृकत्वस्य चान्वय इति सर्वत्रैवाख्यातार्थस्य विशेष्यतयैव भानेन भावनाविशेष्यकशाब्दबोधं प्रत्याख्यातजन्योपस्थितित्वे. नैकमेव कारणत्वं व्युत्पत्तेरपि नानेकखं न्यायमतवदिति महल्लाघवमित्युच्यते अभिधानानभिधाननिर्वचनस्य न्यायमतेऽनुपपत्तिश्चप्रपञ्चिता तत्कथं प्रथमान्तार्थस्य कुत्रापि मुख्य विशेष्यलमुरीक्रियत इति चेदुच्यते--संबन्धभेदेन शाब्दबोधस्य विजातीयत्वे तत्र तत्र शाब्दबोधे तत्तदाकाहाज्ञानानां पृथक्पृथगेव कारणलं वाच्यमन्यथा संबन्धमाननियमो न स्यात् । नच शाब्दबोधे संबन्धत्वेनैव सामान्यतस्संबन्धमानम् पश्चान्च योग्यवतात्पर्य विषयखाद्याकलनेन संबन्धस्यविशेषरूपेणावगाही बोधो मानस एव तेनैव बाधबुद्धिविरोधप्रवृत्तिनिवृत्यादिनिर्वाहः अतएव वह्निमान्पर्वतइत्यतः शाब्दबोधेऽपि संबन्धविशेषसंशयः संबन्धवि. शेषेण बाधाहेऽपि शाब्दबोधः एवं राज्ञःपुरुषइत्यादावपि स्वखामिभावजन्यजनकभावस्वामिभृत्यभावादी संबन्धविशेषे संशयः एवंच न संबन्धभेदनिबन्धनो व्युत्पत्तिभेदइतिवाच्यं केषुचित्संबन्धविशेषेषु नियताभ्योवृत्तिभ्य आकासाभ्यश्च संबन्धविशेषभानस्य दुर्वारखात् योग्यतायास्तात्पर्यस्यापि प्रागेव प्राह्यलात् तज्ज्ञानकारणताया व्यवस्थापितत्वात् मतुपः सामान्यतः संवन्धिशतत्वेन तत्र तद्विशेषसंशयस्योचितत्वात् राज्ञःपुरुष इत्यत्र पुत्रभृत्यादौ पुरुषविशेषे तात्पर्यग्रहे जन्यजनकभावखामिभृत्यभावादी संबन्धेसंशयस्याभावात् अनुभवविरुद्धप्रतिबध्यबुध्यनुत्पादविलम्बप्रवृत्त्यादिविलम्बकल्पनायाश्चाप्रामाणिकत्वात् तदनुरोधेन सर्वत्र तादृशमानसकल्पनाया अप्यनुचितलात् सार्वत्रिकेण तेनैव शाब्दसकलफलसम्पादने कर्तव्येऽतिरिक्तशब्दप्रमाणविल. यापत्तेश्च । अथच संबन्धस्य सामान्यभानेऽपि प्रकारविशेष्यन्यूनाधिकवैपरीत्यादिप्रयुक्तकार्यवैलक्षण्यस्य पदन्यूनाधिकभावपौर्वा पर्यवैलक्षण्यप्रयुक्ताकालावलक्षण्यस्य च दुर्वारतया कार्यकारणभावनानास्वस्य दुरितैव एकशब्दोपबन्धादिना केषाञ्चिदनुगमसंभ वेऽपि शब्दैक्यस्याकिश्चित्करतायास्तत्र तत्र व्यवस्थापनेन तस्याप्यकिञ्चित्करवमेव । यच्च धावाख्यातार्थकालादिकं प्रति भावनाया विशेष्यत्वे सिद्धेऽन्यस्य विशेष्यत्व विमर्श झटित्युपस्थित विशेष्यभावाया भावनाया एव तथालमुचितमिति तदपि न रमणीयम् विवक्षितार्थप्रतिपत्तेः पुत्रस्ते जातः कन्या ते गर्भिणीत्यादौ प्रयुक्तशब्दमात्रादेव निष्पत्तौ क्रियापदाध्याहारस्य निष्प्रमाणिकतया प्रथमान्तार्थस्यापि मुख्य विशेष्यतायाः कुप्तवाद्विशेष्यतया तदुपस्थितेरपि झटिति संभवात् । नचास्तिर्भवन्ती परः प्रथमपुरुषेऽप्रयुज्यमानोग्यस्तीतिस्मृतिप्रामाण्यात्तत्राप्यस्तीतिक्रियापदाध्याहार इति वाच्यम् एतस्य विधायकवाभावात अस्तित्वस्य चैत्रादौ विवक्षितत्वे विवक्षितबोधान्यथानुपपत्त्यैवास्तीत्यस्याध्याहारस्य सिद्धत्वादेतस्यानुवादमात्रखात् । नच तथात्चे वैयर्थ्य शयं वेदे क्रियान्तरस्य योग्यत्वेन्यस्त्यध्याहारनियामकत्वेन सार्थक्यस्योपपादयितुं शक्यत्वात् विधायकत्वेऽपि खस्य परस्य शौर्यमानं यत्र प्रतिपिपादयिषितमतीतस्य खपित्रादेर्वा तत्र वंशूरोऽहंच मत्पिताचेसत्रास्तीत्यस्यायोग्यतया तदध्याहारस्यासंभवात् । नचास्तिरितिधातुसामान्यस्य प्रथमेति मध्यमोत्तमयोर्भवन्तीति लकारमात्रस्योपलक्षकमिति वाच्यं विधी न परःशब्दार्थ इति तवैव सिद्धान्तात् । नच प्रातिपदिकार्थप्रकारकशाब्दबोधं प्रति प्रत्ययजन्यायाः सुबजन्याया वोपस्थितोर्वेशेष्य तया कारणवान शूर प्रकारकस्य युष्मदर्थादिविशेष्यकस्य बोधस्य संभवः चैत्रइत्यत्र प्रथमार्थे स्वरूपे चैत्रादेरन्वयः चैत्रपदं तात्पर्यग्राहकं प्रथमार्थ एववा चैत्रः प्रथमायाः प्रातिपदिकार्थेऽनुशिष्टत्वादिति वाच्यं विभक्त्यर्थसंसर्गतोपपादनप्रकरण उक्तकार्यकारणभावस्यनिराकृतसादनीकृतस्यचाप्रतिकूलखात्। किञ्च सुन्दरश्चैत्रः शुक्रतण्डुलंपचतीत्यत्र चैत्रतण्डुलगतसौन्दर्यशौक्लथयोः प्रतिपिपादयिषितयोः प्रतिपत्त्यर्थे सर्वत्रमानससामग्रीकल्पनस्य विषयान्तरसंन्चारानुभवापलापस्य श्रुतत्वानुभवकदर्थनस्य भावनामात्रविशेष्यलाग्रहप्रसंजितायाः संभवत्साक्षात्संबन्धोल्लङ्घनावर्जितानौचित्यायाः संसर्गघटकतयोपस्थितपदार्थस्याप्यनेकधाभानेन संजातगौरवकलुषितायाः संभवात्स्वार्थबोधतात्पर्यमात्रग्राहकलव्याजनिरर्थकलकल्पनदूषितायाःपरम्परासंबन्धविषयतायाः कल्पनस्य च शब्दव्युत्पत्तिमसणीकृतहृदयारुन्तुदस्य तवमते प्रसङ्गएव हि संभवत्प्रथमान्तार्थविशेष्यखव्यवस्थापनायालम् । प्रकृतिप्रत्ययौ सहाथै ब्रूत इत्यादिस्मृतिपर्यालोचनया भावप्रधानमाख्यातमिति स्मृतेरपि धाबर्थ प्रत्येव कालादिकं प्रत्येव वा भावनया विशेष्यत्वज्ञापकवं नतु सर्वथैवेत्यस्यापि मुवचत्वान्न ततोऽपि सर्वत्र न भावनाया मुख्यविशेष्यत्वसिद्धिः तथात्वे भावप्राधान वाक्यमित्येव ब्रूयात् नहि धातुतिसंघातात्मकरख्याते क्रियाया भावनाया वा प्राधान्येऽपि वाक्यार्थे प्राधान्यं लभ्यते तस्याः अन्यथा सत्त्वप्रधानानि नामानीत्यतोऽपि वाक्यार्थे सत्त्वस्य प्राधान्यभवगतं स्यादिति स्मृत्यंशी सुन्दोपसुन्दाविव निहती स्थातार

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218