Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 97
________________ गूढार्थतत्वालोकव्याख्यासहितः । भावशब्दश्च क्रियायां कृतौ च भावनात्मिकायां वर्तते यथाप्रयोगं च व्यवस्था अतएव भावशब्दस्य यत्नार्थकत्वे भावविहिताख्यातस्य यत्नार्थकत्वेन तृतीयाद्यनुपपत्तिप्रभृतिदोषमुद्भाव्य भावशब्दस्य क्रियार्थकत्वं व्यवस्थाप्योक्तस्मृतेः क्रियाप्रधानखार्थकलव्यवस्थापनं वैयाकरणानां क्लेशैकफलस्वमापादितम् तावता वाक्यार्थे प्राधान्यालाभात् नामार्थ प्रति क्रियाया इव क्रियां प्रति नामार्थस्याप्यन्वययोग्यत्वेनार्थतोऽपि वाक्यार्थे प्राधान्यालाभाच भावशब्दस्य क्रियार्थकत्वेऽपि लः कर्मणील्यादेः भावाख्यातस्य भावार्थपरत्वे क्रियाया द्विधाभानं दोष इति भावपदस्य कालातिरिक्तकर्तृकर्माद्यर्थकलव्यवच्छेदपरताया एव वाच्यत्वेन च क्रियाप्रधानमाख्यातमिति न्यायवार्तिकस्याप्युक्तार्थएव तात्पर्यम् । कृतेरप्याख्यातार्थभूतायालिङ्गसंख्यान्वयायोग्यत्वरूपसाध्यावस्थात्वेन क्रियापदार्थखात् । किंच परत्र स्वबोधसंकान्तये शब्दप्रयोग इति स्थितम् यत्र हि खस्य खविशेष्यक तण्डुलकर्मकपाककृतिप्रकारकं ज्ञानं तण्डलविशेष्यकं स्वकर्तृकपाककर्मखप्रकारकं ज्ञानं स्वकृति विशेष्यकं तण्डुलपाकप्रकारकं वा ज्ञानं परस्य तादृशतादृशज्ञानगोचरेच्छया तत्तद्वाक्यं प्रयुक्ते च तत्र वाक्यमात्रस्यैव खन्मते तादृशज्ञानाजनकतया तदनुपपत्तिः मन्मतेखहपचामि मया तण्डुलः पच्यते तण्डुलपाककृतिर्ममेति वाक्यानां तादृशबोधानुकूललात्तदुपपत्तिः। नच व्यञ्जनव्यापारमनभ्युपगच्छता भवताऽपि मानसबोधेच्छया वाक्यप्रयोगोभ्युपेय एव मानसस्यापि कथंचिच्छाब्दत्वादितिवाच्यं सम्भवन्त्यामपिगतौ सर्वत्र तथाकल्पनस्यानुचितत्वेनाप्रामाणिकखात् शान्दभिन्न विषयकनक्षत्रादिबहिरर्थप्रत्यक्षसामग्रीवैधादिदृढव्यावृतं प्रत्यपि कार्यवशेन ज्ञावापि निरुक्तेच्छया वाक्यप्रयोगस्य दर्शनात् तस्यचोपपादनासंभवात् भिन्न विषये प्रत्यक्षे शाब्दसामयाबलवत्त्वाच्छाब्दबोघस्य संभवेऽपि मानसे बाहिरर्थलौकिकप्रत्यक्षसामग्या बलवत्त्वान्मानसस्योत्पत्तमशक्यत्वात् एतादृशबलाबलज्ञानस्य वेधादिरूपदृढतरतादृशसामग्रीज्ञानस्य च प्रयोक्तुर्विद्यमानत्वात् विशेषदर्शिनस्तादृशप्रयोक्तुर्बलबत्प्रमाणं विना भ्रान्तिकल्पनाया नितरामनुचितलात् किंच विवरणवाक्यविद्रियमाणवाक्ययोस्सतिसंभवे समानार्थकलं तत्रापि यावत्संभव विशेष्यविशेषणभावयोरनतिक्रमश्च युज्यते दृश्यते च पचतीतिपाचकइतिपच्यतइतिपक्कइतिविवरणं व्यवस्थितमुभयत्रापि क्रियामुख्यविशेष्यकबोधस्यैवाभ्युपगमे वैपरीत्येनापि तरिक न स्यात् किंचाधीते वेद वा यइत्येतद्वाक्यार्थेऽध्ययन क्रियाकर्मवाचकपदादण्प्रत्ययोविहितस्त त्रास्मन्मते व्याकरणाभ्ययनकसुरेव वाक्यार्थत्वेन वैयाकरणपदात्तस्य बोधोयुज्यते भवन्मते च व्याकरणाध्ययनस्य सकर्तृकस्य तद्भावनाया एव वा वाक्यार्थत्वेन वैयाकरणपदात्तद्बोधस्यैवौचित्यं स्यात् एवं तद्वहतीत्यादिसूत्रेण तद्वहति य इति वाक्याथै वहनक्रियाकर्मपदाद्यत्प्रत्ययोविहित इति रथ्योऽश्वइत्यादौ रथकर्मकवहनकर्तुरश्वस्य बोधो न स्याद् वैयाकरणनये । यत्त्वत्र वैयाकरणैः क्वचिद्गुणप्रधानलमर्थानामविवक्षितमित्युपक्रम्यआख्यातं तद्धितकृतोर्यत्रार्थस्योपदर्शकम् गुणप्रधानाभाघस्य तत्र दृष्टोविपर्यय इति हरिकारिकां तद्बहतीतिसूत्रभाष्यस्थां यएवार्थों रथं वहति स एवार्थो रथस्य बोढेत्युक्तिचाकलय्य तद्धितादिविवरणस्थले आख्यातस्थलाद्विशेष्यविशेषणभावे वैपरीलमुरीकृत्य वैयाकरणादिपदानां व्य.करणाध्ययनकाद्यर्थकखमुपपादितम् । तत्तेषां खपक्षप्रतिकूलतामेवावहति तथाहि व्याकरणमधीते रथं वहतीत्यस्य यो यदाविवरणलं प्रतिसन्धे तं प्रति प्रथमान्तार्थमुख्यविशेष्यकबोधजनकलमितरंप्रत्यन्यदाचातथालमितिचेदभ्युपेयं कार्यतावच्छेदके तत्तत्पुरुषतत्तत्कालनबे. शस्यावश्यकलान्महागौरवं स्यात् । यदि तादृशस्थले सर्वत्रैव प्रथमान्तार्थमुख्य विशेष्यकएव बोधोभ्युपेयः तदा तण्डुलं पचतीत्यत्र कस्मानाभ्युपेयः सः, क्रियाप्रधानमाख्यातं भावप्रधानमाख्यातमित्यादिस्मृतेः वाक्यार्थे क्रियाप्रधानखार्थकतायास्सार्वत्रिकलस्य त्वयैवोक्तस्थलानुरोधेन त्यामात द्वयोः स्थलयोर्विशेषस्य चानाकलनात् विवरणखं विवरणजातीयलं वा विशेष इति चेत् न पचतीस्यस्यापि पाचक्रपदविवरणवस्य सत्त्वेन विशेषलासंभवात् । नच व्याकरणसूत्रभाष्यादिप्रतीयमान विवरणलं तथेति वाच्यं प्रामाणिकेऽन्यत्र दृष्टे विवरणे तथालत्यागस्यानुन्वितत्वात् उक्तस्मृतौ संकोचस्य त्वन्मते दोषस्य प्रसंगात् अस्मन्मते च तदभावात् संकोचे चावश्यं कर्तव्ये भावाख्यातस्थलविषयत्वेनैव सोऽजीकरणीयः तत्र च भावपदस्य धालपरत्वेपि न क्षतिः नवा सरूपवाक्ययोरर्थतोऽपि बैरूप्यम् । एवंच तण्डुलं पचती चैत्रश्चैत्रेण पच्यते तण्डुलइत्यत्र प्रथमान्तार्थस्यैव मुख्य विशेष्यत्वमनुभवविरोधस्मृतिविरोधगौरवादेरभावात् । अनुभूयमानवाक्यद्वयार्थवैलक्षण्यस्यान्यथा निर्वाहाच चैत्रेण सुप्यत इत्यादौ क्रियाया एवमुख्यविशेष्यखमध्याहारे गौरवादध्याहृतपदार्थस्यानाकाशित्तत्वाचेति यत्र यादृशबोधाभ्युपगमेन काचिदनुपपत्तिस्तत्र तादृशएवाभ्युपेयते न कुत्रापि आग्रहइति। यत्तुयुष्मदस्मदर्थयोरेकत्वेऽपि वैकल्पिक बहुवचनं बिधाय सविशेषणयोस्तयोः तत्प्रतिषिद्धं तत्प्रतिषेधश्च प्रयोगानुसारात् क्रियायोगस्थल एवाभ्युपेयते धावस्यैव मुख्यविशेष्यत्वे पटुरहब्रवीमीयत्रेव वयमपि कुब्जाः किमौदास्यमित्यादावपि क्रियाध्याहारस्यावश्यकत्वेनैकवचनमेव स्यात् प्रथमान्तार्थप्राधान्यपक्षे क्रियाध्याहाराभावेन क्रियायोगाभावान तथालम्। किंच तदादेर्वाक्यार्थप्रधानपरामर्शकत्वेन क्रियातिरिक्तस्य तस्य पादयोरभिवादयेत्यादौ प्रातिपदितार्थस्य परामर्शो न स्यात् पूर्ववाक्ये क्रियाया एव प्राधान्यादिति तन्न युक्तम् विशेषणत्वस्य विधेयवातिरिक्तस्य प्रतिषेधापेक्षितखात् तत्र हि कुन्जावं विधेयमिति न प्रतिषेधप्रसक्तिः तदादीनां प्रधानपरामर्शकले प्राधान्यं वृत्तिग्रहमुख्यविशेष्यखमेव विवक्षितमतएव न्यायमतेऽपि “दशैते राजमातशास्तस्यैवामीतुरङ्गमा" इत्यत्र तदा राजपरामर्शः नहि भवति प्रजावतीयं मे खं तस्मै देहि कम्बलमित्यत्र च तदा भ्रात्रादिपरामर्शः । नच प्रथमान्तार्थविशेष्यकबोधाभ्युपगमे कीदृशश्चैत्र इति प्रश्नस्य चैत्रः पचतीत्युत्तरापंत्तिः

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218