Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 83
________________ गूढार्थतत्वालोकव्याख्यासहितः । कत्वात् । न च स्वत्वादेः प्रकारतामतेऽपि स्वत्वादिसम्बन्धावच्छिन्नप्रतियोगिताकराजाद्यभाव. विशिष्टपुरुषादिवैशिष्टयबोधे तथाविधसामग्याः प्रतिबन्धकताधिक्येन गौरवम् । तत्संसर्गतामते कारणबमवश्यहि वाच्यम् तत्रच कारणनिरूपितमेव प्रयोज्यलमवच्छेदकमिति भवत्येवात्माश्यादिः खबृत्तिप्रागभावप्रतियोगिवखसामानाधिकरण्यखवृत्तिशब्दवृत्तित्वैतत्रितयसंबन्धेनेच्छावखमेवानुगतमव्यवहितोत्तरत्वमस्ववच्छेदक मित्यपि न वाच्यं तादृशपरम्परायाः संसर्गलानभ्युपगमात् अव्यवहितपूर्ववर्तिताया एककारणपरिशेषापत्त्यादिना पक्षताबिचारे कारणातावच्छेदकलस्य निराकृतत्वेनाव्यवहितोत्तरत्वस्य कार्यतावच्छेदकताया अपि निराकृतप्रायत्वात् अव्यवहितोत्तरत्वस्य कार्यतावच्छेदकत्वे कार्यविशेषणधर्मान्तरस्य व्यभिचाराद्यवारकतया गौरवेण कार्यतानवच्छेदकत्वापत्या प्रवृत्तिनिवृत्तिव्याकुलीभावः प्रसज्येत इष्टतावच्छेदकावच्छिन्नसाधनलस्य दुर्ग्रहत्वात् । वस्तुतः रात्प्रतिपक्षग्रन्थे निरुक्तप्रतिबध्यप्रतिबन्धकभावसरणिः संशयानुमितिखीकर्ता प्रतिबन्धकतायामिच्छाया उत्तेजकखयादिना बाधनिश्रयवदन्यबुद्धित्वावच्छिन्न प्रतिबध्यलस्य ततोऽपि दोष विशेषाजन्यत्वादेरवच्छेदकत्वाकल्पनेन लभूतस्यापादनरूपया प्रतिबन्धा दूषिता। अतएवावाहुरियादिना सन्दर्भेण सिद्धान्तभूतसंशयानुमित्यभावपक्षावलम्बिना उत्तेजकत्वपक्षएव संशयानुमितिनिराकृता अन्यथाऽव्यवहितोत्तरत्वघटितकार्यतावच्छेदकत्वपक्षस्यादुष्टताया ग्रन्थकाराभिमतत्वे च्याप्यवत्तानिश्चयवदन्यबुद्धिस्वावच्छिन्न प्रति प्रतिबन्धकत्वस्यानिराकृततया रत्नकोषकारमतस्यैव प्राबल्यापत्तेः अव्यवहितोत्तरत्वघटितकल्प दोषश्च तदन्थस्यैव निपुणविचारणया विज्ञायते । तथाहि इच्छावदन्यत्वेन प्रतिबध्यतायो लाघवेन बाधनिश्चयवदन्यत्वेन प्रतिवध्यत्वापत्तिरूपां प्रतिबन्दिमुद्भाव्य तत्र सिद्धान्तकल्पेऽनुत्पन्नाया अनुमितेः खीकारेण दोषाभावकथनेन इच्छावदन्य विशिष्टबुद्धित्वेन प्रतिबन्धकत्वे चाक्षुषेच्छातः स्पार्शनाङ्गीकारे क्षयभावेन तदापत्तेः सुरगुरुणापि वारयितुमशक्यतया फलानिर्णयरूपदोषः प्रतीयत इत्यलम् ।। ननु स्वसामानाधिकरण्यखखविषयत्वोभयसंबन्धेनेच्छावदन्यवं प्रतिबध्यतावच्छेदकं वाच्यं तत्र नोक्तदोषसंभव इति चेन्न प्रत्यक्षत्वेन शाब्दावगाहीच्छायां प्रत्यक्षानुपपत्तेः ख विषयतावच्छेदकतापर्याप्त्यधिकरणधर्मवत्वस्य हि संसर्गत्वे पटनत्वक्षेच्छादशायां शाब्दसामन्यां घटप्रत्यक्षपटप्रत्यक्षसामग्योः समूहालम्बनघटपटप्रत्यक्षापत्तिः । नचात्र कल्पे तत्तद्विषयकप्रत्यक्षप्रति तत्तद्विषयकप्रत्यक्षेच्छायाः कारणखस्यावश्यकतया पटप्रत्यक्षेच्छाभावानोक्तसमूहालम्बनापत्तिरितिवाच्यं ज्ञानंजायतामितीच्छायामपि शाब्दसामन्यां प्रत्यक्षोत्पत्तिस्वीकारे क्षत्यभावेन तदापत्तेर्वारयितुमशक्यतया फलानिर्णयस्यात्राप्यव्यवहितोत्तरत्वस्य कार्यतावच्छेदकलपक्षवद्दोषत्वस्य जागरूकलादिति विभावनीयम् । ननु मैत्रस्यपुरुष इतिवाक्यजन्यशाब्दसामग्र्याः प्रतिबन्धकत्वस्योभयमतसिद्धतया प्रतिबन्धकत्वस्यावश्यवक्तव्यत्वे लाघवाद्राजस्खत्वाभाववत्पुरुषविषयतानिरूपितसुन्दरविषयताकप्रत्यक्षप्रति तादृश विषयताबहिर्भूतविषयताकशाब्दसामग्रीत्वेन प्रतिबन्धकत्वं वाच्यमिति तस्या अप्युक्ताप्रतिबन्धकत्वेनैव गतार्थतया न प्रतिबन्धकताधिक्यमिच्छोत्तेजकत्वानुरोधेनाप्यस्यप्रतिबन्धकत्वस्य भेदासंभवादिति चेन प्रतिबन्धकताबच्छेदकस्योक्तसामग्रीवस्यानुगतानतिप्रसक्तस्य दुर्वचत्वात् । नच तादृशशाब्दविशिष्टत्वेनैव प्रतिबन्धकलं वाच्यमिति वाच्यं शाब्दसामग्यव्यवहितपूर्ववर्तिनो यत्किञ्चित्कारणस्य शाब्दबोधक्षणेऽपि सत्त्वेन तदुत्तरमपि प्रत्यक्षोत्पत्त्यनुपपत्तेः । नच तादृशशाब्दाव्यवहितपूर्ववर्तिलविशिष्टत्वेन प्रतिवन्धकत्वं वक्तव्यं विशिष्टस्यच न शाब्दक्षणे संभवइति याच्यम् अव्यवहितपूर्वत्वस्य विक्षणसाधारणस्य वाच्यतया यत्र पदार्थोपस्थित्यादिकारणानन्तरमुपनीतभानात्मकाकाहाज्ञानमनन्तरं शा. ब्बोधस्तत्र पदार्थोपस्थितेः शाब्दाव्यवहितपूर्ववर्तित्वेनाकाङ्क्षाज्ञानानुत्पादप्रसझात्।नच त्रिक्षणसाधारणमव्यवहितपूर्वरवं किमिति निवेश्य मिति वाच्यं यत्र घटप्रत्यक्षेच्छ। घटप्रत्यक्षसामग्री पटप्रत्यक्षसामग्री शाब्दसामग्रीच तदनन्तर घटप्रत्यक्षम् ततः शाब्दबोधस्तत्र शाब्दसामय्या द्वितीयक्षणवृत्तिनिष्टशाब्दाव्यवहितपूर्ववर्तित्वाभावेन पटप्रत्यक्षापत्तेरिति । नच स्वत्वादे प्रकारतामत इत्यादि। ननु राजखलवत्पुरुषविषयकबुद्धिबव्यापकप्रतिबध्यतानिरूपित प्रतिबन्धकत्वावच्छिन्नाभावएव शाब्दसामय्यां प्रकारतामते प्रवेशनीयस्तथाच नाभावद्वयप्रवेशः नच संसर्गतामते स्वत्वसंबन्धावच्छिन्नराजाभावप्रकारतानिरूपितपुरुषनिष्ठविशेष्यत्व निरूपकनिश्चयत्वावच्छिन्नाभावो लघुतरः सामय्यां निविशते प्रकारतामतेचोक्ताभावो गुरुतरइति वाच्यं संसर्गतामतेऽपिहि प्रतिबन्धकत्वावच्छिन्नाभावएव प्रवेशनीयोऽन्यथा राजाभाववान्पुरुषः पुरुषे राजाभावः राजव्यापकाभाववान्पुरुषइत्यादि निश्चयानामभावास्तादशनिश्चयत्वावच्छिन्नाभावत्वे न स्युर्निविष्टास्तथासति विशेष्यविशेषणभावव्यत्यासेन सामग्रीप्रतिबन्धकताबाहुल्यं स्यादिति चेन्न भाविज्ञानमप्रमेत्यप्रामाण्यग्रहोत्तरं यत्र बाधनिर्णयशाब्दसामग्रीप्रत्यक्षसामग्रीणामेकदासंवलनं तत्र तदुत्तरं प्रत्यक्षापत्तेः खतृतीयक्षणे कार्यानुत्पादानुरोधेन तद्बाधनिर्णयस्य प्रतिबन्धकत्वस्यावश्यकत्वात् अप्रामाण्यग्रहविशिष्टज्ञानक्षणेऽप्रामाण्यग्रहाभावविशिष्टज्ञानत्वावच्छिनाधिकरणत्वस्यासत्तया तादृशज्ञानत्वावच्छिन्नाभावस्य सत्वेऽपि प्रतिबन्धकत्वेन तादृशज्ञानाधिकरणत्वस्याविलक्षणत्वेन तदवच्छिन्नाभावस्य सत्वासंभवात्तद्धटितशाब्दसामग्र्यास्तदानीमसत्त्वात् । अथ प्रतियन्धकत्वस्याव्याप्यवृत्तित्वाभावेऽप्रामाण्यग्रहकालेऽपि बाधज्ञाने प्रतिबन्धकत्वसत्त्वापत्त्या तदुत्तरक्षणे कार्यप्रतिरोधा

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218