Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
व्युत्पत्तिवादः ।
तादृशसामच्या स्वत्वादिसंबन्धावच्छिन्नप्रतियोगिताकराजाद्यभाववत्तानिश्वयाभावघटिततया तत्सत्वे कारणविरहादेव तथाविधप्रत्यक्षवारणसंभवादिति वाच्यम् । मन्मते ताशप्रत्यक्षं प्रति तथाविधसामन्याः प्रतिबन्धकताधिक्येऽपि निरूपितत्वादिसंबन्धावच्छिन्नप्रतियोगिताकराजाद्यभाष विशिष्टस्वत्वादिवैशिष्टयबोधे। तथाविधसामयाः प्रतिबन्धकताऽकल्पनेन तदंशे साम्यात् । तथाच पूर्वोक्तराजस्वत्वाभाववान् पुरुषः सुन्दर इत्यादिविशिष्टवैशिष्ट्यप्रत्यक्षं प्रति राक्षः पुरुषः इत्या. दिसामध्याः प्रतिबन्धकत्वकल्पनं संसर्गतावादिनां मतेऽधिकमिति ! न च स्वत्वादेः प्रकारतामते घटप्रत्यक्षादिकं प्रति ताशसामग्रीप्रतिबन्धकतायांविभक्तिजन्यस्वत्वाद्युपस्थितिनिवेशाधिक्येन राज
द्यभावनिवेशाधिक्येन च गौरवम् । अस्मन्मते तादृशोपस्थितितथा विधवाधाभावादीनां तथाविधवाक्यजन्यशाउदबोधं प्रत्यहेतुतया ताहशवाक्यघटितसामग्रीप्रति
पत्तिःस्यादिति तस्याव्याप्यवृत्तित्वमवश्यं वाच्यं तथाचाव्याप्यवृत्तिधर्मावच्छिन्नाभावस्तादृशधर्माभावकाले संभवत्येवेति नोक्तदोषः । यदिच कारणीभूताभावप्रतियोगित्वमेव प्रतिबन्धकत्वं प्रतियोगित्वस्य चाव्याप्यवृत्तित्वं सिद्धान्तविरुद्धम् अतिरिक्तस्यापि प्रतिबन्धकत्वस्याव्याप्यवृत्तित्वं नाङ्गीकरणीय कार्यानुत्पादे प्रतिबन्धकतावच्छेदकावच्छिन्नस त्वमेव प्रयोजकं कार्योत्पादेच प्रतिबन्धकतावच्छेदकावच्छिन्नाभावस्यैव सत्वमित्युक्तदोषस्य विरहादित्युच्यते तदापि निरुक्तप्रतिबन्धकतावच्छेदकावच्छिन्नाभावत्वेनाभावानां प्रवेशे न दोषइति गृहाण । नच प्रतिबन्धकतावच्छेदकतापर्याप्त्यधिकरणधर्मपर्याप्तावच्छेदकताकप्रतियोगिताकाभावत्वेनैव प्रवेशः कार्योऽन्यथा विशेषाभावादिकमादाय प्रतिबन्धकसद्भावेऽपि तस्य सत्वापत्तस्तत्र यदि यत्किश्चित्प्रतिबन्धकतावच्छेदकतापर्याप्तिर्निवेश्यते तदैकविधबाघसत्त्वेऽपि तादृशाभावसत्वापत्तिः यदि निरुक्तप्रतिबन्धकतावच्छेदकतात्वेनावच्छेदकतापर्याप्तिर्निवेश्यते तदापि सैव, प्रतिबन्धकनिश्चयस्य तावद्रूपाश्रयस्थ समूहालम्बनात्मकस्यैव संभयेन तदभावस्य तत्रसत्त्वादिति वाच्यं निरुक्तप्रतिबन्धकताविशिष्टरूपवृत्तिनिरूपकताकाधिकरणत्वसामान्यामावस्यैव प्रतिबन्धकसामग्यांनिवेशात् । वैशिष्टयंच खावच्छेदकतालावच्छिन्नपर्याप्यनुयोगितावच्छेदकलसंबन्धेन । वृत्तिलमपि तेनैवसंबन्धेन बोध्यम् एवञ्चाप्रामाण्यज्ञानाद्यभावबिशिष्टतत्तदाधनिश्चयवगतसमुदायस्य प्रतिबन्धकताविशिष्टतया तवृत्तिनिरूपकताकाधिकरणतात्वस्यानुगतस्य तादृशतत्तद्वाधनिश्चयाधिकरणतासु सत्येन तदवच्छिन्नाभावस्य नैकवाधसत्त्वे सत्त्वसंभवो नवा प्रामाण्यज्ञानक्षणे सत्त्वासंभवः । यद्युक्तपरम्परायाः संसर्गवं नाभ्युपेयते तदापि निरुक्तप्रतिबन्धकतावृत्त्युभयावृत्तिधर्मावच्छिन्ननिरूपितावच्छेदकतालावच्छिन्नपर्याप्यनुयोगितावच्छेदकरूपावच्छिन्नानुयोगिताकपर्याप्तीयावच्छेदकतालनिष्टावच्छेदकताभिन्नकिञ्चिनिष्टनिरूपितत्वसंबन्धावच्छिन्नावच्छेदकताभिन्नावच्छेदकलानिरूपितप्रतियोगितावदधच्छेदकताकनिरूपकताकाधिकरणलं नास्तीति प्रतीतिसिद्धाभावस्य ताशप्रतिवध्यत्वनिष्टावच्छेदकताभिन्न प्रतिबन्धकतात्वनिष्ठावच्छेदकताभिन्नावच्छेदकत्वानिरूपि. तावच्छेदऋताभिन्नाधेयखत्वनिष्ठावच्छेदकताभित्रावच्छेदकत्वानिरूपिताधेयत्वनिष्टावच्छेदकतेत्यादिक्रमेणावच्छेदकत्वानि निवेश्य तनिरूपित प्रतियोगितानिरूपकत्वेन निवेशः कार्यइति चेदुच्यते। येन रूपेण प्रतिवन्धकत्वं तद्रूपावच्छिन्नाभावत्वेनैव प्रतिबन्धकाभावः सामय्यां निवेश्यः तेनैव रूपेण तस्य कारणत्वात् कारणकूटस्यैव सामग्रीलादुन्तानुगताभावस्य चाकारणत्वात् प्रतिवन्धकखस्य कारणीभूताभावप्रतियोगिखरूपत्वेन तदवच्छिन्नाभावत्वेन. कारणत्वेऽन्योन्याश्रयप्रसङ्गात् । एकैकबाधनिश्चयाभावत्वे. नोपस्थितेनान्वयव्यतिरेकावच्छेदकतया गृहीतेन च लाघवात्कारणत्वे व्यवस्थिते ताशानेककारणत्वकल्पनागौरवस्य फलमुखत्वे. नादोषवाच शाब्दसामग्रीलिङ्गकशाब्दानुमाने प्रत्यक्षाभावानुमाने तथैवसामन्याः सुग्रहत्वादिति प्रतिबन्धकाभावस्यानेकलनिबन्धनो लाघवगौरव विचारो नादरणीयः । अथोक्तानुगताभावस्याकारणत्वेपि प्रतिबन्धककुक्षौ प्रवेशे काक्षतिः नचानेकाभावघटितोक्तरूपेण तस्य प्रवेशएव गौरवमिति वाच्यं तब्यक्तिलेनैव तस्य प्रवेशादितिचेन्न । कारणनिष्टसमुदायत्वेन प्रतिबन्धकत्वे तदच्छिन्नाभावत्वेन कारणत्वे चान्यतमत्वेन प्रतिबन्धकलकारणलादाविवान्यथासिद्धेरभ्युपगमात् । गगनाद्यभावनिष्ठताहशाभायस्य गगनाभावात्मकतया तळ्यक्तिलेन तदधिकरणलस्य बाधनिश्चयदशायामपि सत्त्वात् नचेत्यादिशङ्काग्रन्थस्य सामग्रीप्रतिबन्धकतायामवच्छेदककोटौ कारणस्यैव प्रवेशइति मत्योत्थानादुत्तर ग्रन्थस्यापि तादृशबुद्ध्यैव प्रवृत्तेरसङ्गतिविरहात् उत्तरमन्थेन वलप्रकारतामतव्यबस्थापकेनोक्तरूपेण प्रतिबन्धकलस्याप्युपलक्षणीयत्वाच । यत्तु साक्षात्परम्परासाधारणावच्छेदकवानङ्गीकारे निरुक्तकमेण निवेशो न संभवदुक्तिकः पुरुषविशेष्यलनिश्चयलाप्रामाण्यमहाभाववादिनामेव साक्षात्प्रतिब्न्धकतावच्छेदकत्वेन तदवच्छिन्ननिरूपकताकाधिकरणवस्य पुरुषविशेष्यकवाधानात्मकनिश्चयसत्त्वेऽपि सत्तया निरुक्ताभावासत्वेन शाब्दसामग्र्यनुपपत्तेरिति तन्न राजस्ववाभावप्रकारतानिरूपितपुरुषविशेष्यखानामेव प्रतिबन्धकतावच्छेदकत्वेन तावन्मा. नावच्छिन्नलस्य राजखलाभावत्यावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्न विशेष्यताकनिश्चयवावच्छिन्ननिरूपकतायामेबसत्त्वात् पुरुषलाधच्छिन्नविशेष्यताकनिश्चयवावच्छिन्ननिरूपकतावच्छेदकलस्य तादृशप्रकारवानिरूपितविशेष्यतास्वपि सत्वादिति ।

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218