Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
८६
व्युत्पत्पदः ।
भवात् । तण्डुलः प्रमेय इत्यादौ विभक्त्यर्थामिश्रितस्यैव प्रकृत्यै महातशक्तः स्वार्थे लृप्ततया तत्र लक्षणासंभवादिति तु चिन्तनीयम् । राजादिपदस्य राजसंबन्ध्यादौ शक्तत्वभ्रमदशायामिव तदर्थलक्षणाग्रहदशायामपि राजसंबन्धिनः पुरुष इत्यादाविव राजसंबन्धिसंवन्धीपुरुष इत्याद्यन्वयबोधस्य सर्वजनानुभवसिद्धत्वात् | पचति चैत्र इत्यादावपि कृतिसंबन्धेन पाकादेश्चैत्राद्यंशे विशेषणत्खोपगमे चैत्रो न पचतीत्यादावन्वयबोधानुपपतिर्द्रष्टव्या कृतिसंबन्धस्यापि वृत्यनियामकतया तत्संबन्धावच्छिन्नप्रतियोगिकाभावस्याप्रसिद्ध्या तद्बोधनासंभवात् । अथैवमपि वैत्रो जानातीत्यादौ चैत्राद्यंशे ज्ञानादेराश्रयतासंबन्धेनान्वयबोधोपगमे क्षतिविरहः । आश्रयता संबन्धस्याभावप्रतियोगितावच्छेदकतया न जानाति चैत्र इत्यादावाश्रयतासंबन्धावच्छिअप्रतियोगिताकज्ञानाद्यभावस्यैव भानसंभवात् । तथा च तत्राख्यातस्याश्रयत्वार्थकत्वं निर्युक्ति. कम् । न च धात्वर्थज्ञानादेराश्रयतासंबन्धेन चैत्रादिरूपप्रातिपदिकार्थे साक्षात्प्रकारकत्वोपगमे
प्रत्ययेन घटादिविषयत्वत्तदभावौ नियन्तुं शक्यावित्यन्यथासिद्धावावापोद्वाप न प्रकृतिशक्ति परिच्छेत्तुं समर्थो कोषादिरपि तात्पर्यग्राहक एवेत्यस्माभिरप्युच्यते यथाच प्रकृतिरहितो न प्रत्ययो बोधकस्तथा प्रत्ययरहिता प्रकृतिरपि न बोधिकेयपि समानमिति विनिगमकाभावान्नोभयत्रैव शक्तिः स्यात्स्याद्वा प्रतीत्यन्यथानुपपस्योभयत्रैव शक्तिः प्रत्ययानां प्रकृत्यपेक्षयाऽल्पत्वेन तेषां शक्तौ लाघवमिति प्रत्ययएव वा शक्तिः यश्व तण्डुलः प्रमेय इत्यादौ विभक्त्यर्थामिश्रितस्यैव प्रकृत्यर्थस्य भानात्प्रकृतिशक्तेः स्वार्थे कॢप्ततयेत्याद्यग्रिमग्रन्थः सोप्यसङ्गत एव प्रागुक्तयुक्तया स्वादेरेकत्वशक्तत्वे कृप्ते सत्येकत्वाद्यमानेऽपि स्वादिप्रत्ययतो लक्षणया प्रकृत्यर्थभाने क्षतिविरहाद् यद्यजहत्स्वार्थेव लक्षणा स्यान स्यादपि स्वार्थाघटितः प्रकृत्यर्थमानो लक्षणया प्रत्ययेन प्रतिपादयितुं शक्यः नह्येवं जहत्स्वार्थाया अपि लक्षणाया अङ्गीकारात् आवापोद्वापसहकृतव्यवहारव्याकरणदिशक्तिग्राहकसद्भावेऽपि शक्तिस्तत्र न कल्प्यते यत्र बाधकं यथोपसर्गाणां प्रतिष्ठते प्रहरति संहरतीत्यादौ प्राद्यर्थगत्यादावाख्यातार्थान्वयासंभवात् गत्याद्यर्थप्रतीतिर्घातुलक्षणयैवागत्या वाच्येति तत्र द्योतकरवे ह्येकत्र निर्णीतन्यायेन सर्वत्र द्योतकताया एवाङ्गीकरणीयत्वात् प्रत्ययस्य तु वाचकतायां नास्ति किमपि बाधकमितिचेत् उच्यते प्रकृत्यर्थतयोक्तप्राहकात्संप्रतिपद्यमानस्यार्थस्य सर्वत्रैव शाब्दबोधे भानं यथाप्रमितं नयेवं प्रत्ययार्थतयोक्तग्राहकात्संप्रतिपद्यमानस्यार्थस्य तण्डुलः प्रमेय इत्यादौ संख्यादेरभानात् सतिचैवमुक्तशक्तिग्राहकप्रतिपत्तिमतां तद्विषयताप्रयोजकतया प्रकृतेः प्रतिपत्तिः प्रयोजकता चोपस्थितिद्वारैवेति प्रकृतिजन्योपस्थितेः शाब्दबोधसामग्रीनियतत्वे गृहीते प्रत्ययजन्योपस्थितेश्च तदभावे गृहीते शाब्दबोधविषयनियतोपस्थापकतया गृहीतायाः प्रकृतेरतथाभूतप्रत्ययार्थस्योपस्थापकलकल्पनं युक्तं पूर्वं प्रतिपत्तेरबाधात् प्रत्ययस्य प्रकृत्यर्थोपस्थापकत्वे च पूर्वप्रतिपत्तेर्बाधः स्यात्तत्रैव व्यभिचारेण नियमस्य बाधितत्वादिति प्रत्ययस्य च तलं न युक्तं । तथाच प्रकृत्योपस्थापकतया कृप्तया सर्वत्रैव प्रत्ययार्थत्वेन संप्रतिपन्नार्थस्य लभ्यत्वे प्रोक्तग्राहकः प्रत्ययांशेऽन्यथासिद्धो न प्रतिष्ठितां शक्तिप्रतिपत्तिमाधातुं समर्थः समर्थश्चानन्यथासिद्धः प्रकृत्यंशइति प्रामाणिकी प्रकृतिशक्तिर्न प्रत्ययशक्तिरिति सुश्रूक्तं तण्डुलः प्रमेय इत्यादिकम् । अतएव प्रत्य यानुपूर्वीणामत्पत्वात्प्रत्ययलाघवाच्छक्तिरित्यपि निरस्तम् । उक्तरीत्या प्रकृतिशक्तौ व्यवस्थितायां तत्र गौरवस्य फलमुखत्वेनादोपत्वात् लाघवमात्रस्याग्राहकतया ग्राहकस्य च विघटितसामर्थ्यतया च प्रत्ययश फेरपरिच्छेदकत्वात् नच यथापूर्वप्रतीतिबाधः प्रकृतिशक्तेरनुग्राहकस्तथा तत्तोऽपि पूर्वाया आवापोद्वापादिसहकृतव्यवहारजनितप्रत्ययशक्तिप्रतिपत्तेः प्रत्ययस्याशक्तौ बाधः प्रत्ययशक्तेरस्त्वनुग्राहक इति वाच्यं तादृशव्यवहारतोहि तत्र तत्र तत्तदर्थप्रतिपादकत्वमात्रस्य ग्रहोऽनन्तरमन्यथानुपपत्त्यादितः शक्तेरुक्तप्रतिपादकत्त्रग्रहावसरएव चोक्तयुक्तेरवतारो न तदानीं शक्तिग्रहो येन तद्वाधः स्यादुक्तव्यवहारसहकृतोक्तयुक्तयवतारानन्तरं जायमानश्च शक्तिग्रहः प्रकृतिविषयकएव जायते न प्रत्ययविषयक इति सिद्धं न प्रत्यये शक्तिरिति ।
सर्वजनानुभवसिद्धत्वादिति । तण्डुलंपश्यतीत्यादौ तण्डुलपदस्य तण्डुल कर्मके शक्तिभ्रमदशायामिव लक्षणाग्रहदशायामपि तण्डुलकर्मककर्मकदर्शनबोधस्यानुभवसिद्धत्वादित्यस्योपलक्षकं तथाचागत्या विभक्तिशक्तिरङ्गीकरणीया तथासति राजमात्रस्य राजपदार्थत्वे राजसंबन्धी पुरुष इति बोधः राजसंबन्धिनो राजपदार्थत्वे राजसंबन्धिसंबन्धी पुरुषइतिबोध इति नानुभवापलाप इतिभावः । अत्रच विभक्तेरशक्तौ तण्डुलं पचतीत्यस्य तण्डुलपरस्य वाक्यस्य मुख्यप्रयोगत्वं माषादिपरस्य गौणप्रयोगत्वमिति सर्वानुभवसिद्धाया मुख्या मुख्यत्वव्यवस्थाया अनुपपत्तिरपि दोषो बोध्यः लक्षणाया उभयत्रैव सत्त्वात् मुख्यार्थघटितार्थे यत्र लक्षणा तत्र मुख्यत्वमित्यपि न वाच्यं तण्डुलपदस्य तण्डुलसंप्रतमाषलक्षणास्थले मुख्यत्वापत्तेर्दुर्वारत्वात् विभक्त्यर्थमात्रघटितार्था यत्र लक्षणा तन्त्र मुख्यत्वमित्यपि न वचनीयम् भवन्मते विभक्त्यर्थस्यैवाभावात् विभक्त्यर्थतया पराभिमतत्वं यदि विभतत्यर्थत्वं तदापि तण्डुलकर्मकादिलक्षणायां भवदभिमतायां मुख्यत्वं न स्यात् विभक्त्यर्थकर्मत्वातिरिक्त क्रियाघटितत्वादुक्तार्थस्य संप्रदानतण्डुलादिलक्षणायां क्रियाकर्मतण्डुला दिलक्षणायां च मुख्यत्वं स्यादिति । अथैवमपीति । वृत्त्य नियामकस्याभाव

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218