Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 93
________________ गूढार्थतत्वालोकव्याख्यासहितः । एष तत्रोपेयते इति वाच्यम् । तथा सति सर्वत्राभाववत एव नर्थतया मुख्यार्थपरनो दुर्लभस्थापत्तेः । अभावस्य भेदान्वयबोधोपगमेऽपि कार्यकारणभावकल्पनाधिक्यविरहेणाभाववति ल. क्षणानौचित्यात अभाववतोऽभेदान्वयबोधोपगमे भूतले घट इत्यादिवाक्यजन्यबोधे भूतले न घट इत्यादिवाक्यजन्यबोधस्याविरोधितापत्तेश्च, लाघवात् स्वरूपसंबन्धेन ग्राह्याभावनिश्चयस्यैव विशि वुद्धिविरोधित्वान स्वभेदसंसर्गकग्राह्याभावाश्रयप्रकारकनिश्चयस्येति । नीलो घट इत्यादौ विशेपणविमत्रभेदार्थकत्वमतेऽपि यद्यप्युक्तरीत्या लाघवं संभवति तथापि तत्रापि न नो विद्वष इति संसर्गवानभ्युपगमे संकोचस्यावश्यकत्वादाह । एवमिति । अभाववतोऽभेदान्वयबोधोपगम इत्यादि । इदं चा. पातत उक्तम् अभाववतस्तादात्म्येन प्रकारत्वे धर्मिपारतन्त्रयेण खरूपेणाभावस्यापि प्रकारखाप्रतिबन्धकलसंभवात् । इदं रजतमित्यादि शाब्दे धर्मिपारतलयेण रजतलादेः प्रकारलं न्यायकौस्तुभे उक्तम् कथमन्यथा भूतलावृत्तिर्घट इत्यादि वाक्यजन्यबोधकाले भूतलवृत्तिर्घटइत्यादिवाक्यजन्यवोधानुत्पत्तिः सर्वानुभवसिद्धायुपपद्यते सामानाधिकरण्यानुरोधेन भूतलबृत्तिमेदवतएव तादात्म्येन प्रकारत्वस्य तत्र सर्वानुमतलात् एवं पर्वते वहिर्नास्तीत्यादिबुद्धीनां वहिमान्पर्वत इति वाक्यजन्ययोधोत्तरं धन्यभाववान्पर्वत इत्यादि वाक्यजन्यबोधोत्तरं च पर्वतोवह्निमानित्यादिबुद्धीनामनुत्पत्तिः कथमुपपयते उक्तशाब्दबुध्योमवर्थस्यैव तादात्म्येन प्रकारत्वस्य सर्वसंमतखात् तयोरतिरिक्तप्रतिबन्धकखे वा दर्शितनअसमभिव्याहारस्थलीयबोधस्यातथाले कोविशेषः प्रदर्शनीयः स्यात् यद्यतिरिक्तप्रतिबन्धकत्वाकल्पनलाघवानुरोधेन दर्शितनजसमभिव्याहारस्थलेऽभावस्यैव प्रकारबमुचितमित्युच्यते तदा मतुबादिसमभिव्याहारस्थलेऽपि तत एव लाघवात्प्रकृत्यर्थस्य भेदेनैव प्रकारत्वमुचितं निपातातिरिक्तलवत्किञ्चिद्विशेषणप्रक्षिप्य व्युत्पत्तिनिर्वाहस्य सममिव्याहारविशेषकारणतयातिप्रसङ्गवारणस्य च संभवादित्येतदप्यकामेमाभ्युपेयस्यादिति । उक्तरीत्या लाघवं संभवतीति । नीलतादात्म्याभाववान् घटःसुन्दर इत्यादिभिन्नविषयकप्रत्यक्षप्रत्यधिकप्रतिबन्धकलाकल्पनेन लाघवं संभवतीत्यर्थः॥ तत्रापि न नो विद्वेष तिदिगिति । अत्र नस्सम्मतिरित्यभिधाय न नोविद्वेष इत्युक्त्येदमवगम्यते अन्नयोभेदार्थकयमभियुक्तरुक्तं यच प्रत्यक्षादिना गृहीतस्य घटादौ पटादिभेदस्याभिलापलं घटःपटोनेत्यादीनां स्वरसतः साजनीनम् । यच्च यन्न पृथिवी न तत्र गन्धइत्यादेः पृथिवीखखाद्यग्रहदशायामपि व्याप्तिपरिच्छेदकव्यतिरेकोदाहरणखमप्रसिद्धसाध्यकस्थलेऽभियुक्तानुमतं यच्च धर्मात्यन्ताभावेन गतार्थयतो वादिनो विमतानां भेदानां खशब्दोल्लेखिप्रत्ययैरयमेतदवानित्याकारैरयं शशगवानित्यादीनामसाधकत्वेन संप्रतिपन्नानां सपक्षैः साधयितुमशक्यानां पृथक्खवदिदमिह नास्ति इदमिदं नैति प्रतीतिवैलक्षण्यैकशरणलं तैयवस्थाप्यमाना नवसममिव्याहारस्थले भगवती भेदानुभूतिः प्रागुक्ततादात्म्यशक्तिग्राहकशास्त्रयुक्त्याद्यभावेनासत्प्रतिपक्षतया प्रबलस्य प्रतियोग्यभावान्वयतुल्ययोगक्षेमतानियमस्य साहायकमासादयन्ती लाधवसहस्रमपि बाधमाना विशेषण विभकेरभेदार्थकलमपाकर्तुमीष्टे कथमन्यथा नोयते अलि. तादात्म्यवृत्तितादात्म्यवदत्तिलविशिष्टधर्मादेरेवोक्तरीत्या ततो यतिलाघवलोभेन विशेषणविभक्त्यर्थता । नचैवमुक्तलापवमकिजिस्करमेव यन्त्र बनभतिरेव नेतरैरेकत्र व्यवस्थापिता मानः । तत्र तयवस्थापकतयोपयुज्यते। यथा षधादिसमभिव्याहारस्थले वृत्त्यनियामकस्याभावप्रतियोगितावच्छेदकत्वेऽपि विवादेन कवलीकृतेऽन्यैरव्यवस्थाप्यमानानुभूतिः प्रकारतया स्वखार्थे निरुक्तलाघवेन प्रतिष्ठाप्यते । नच खनिरूपिताधेयतावत्खामितानिरूपकाधिकरणत्वेऽधिकपदार्थघटितेखत्वाद्यर्थे ततोऽपिलाघवेन किमिति न तस्याव्यवस्थापन मिति वाच्यं यतो येभ्यएव खतोदृष्टेभ्यः परेण दर्शितेभ्यो वावलम्बितुमुपकान्तेभ्यो यक्तिविभीषिकां कामप्यद्भाव्य वादिभ्यां निवारिता व्याकुलीभवन्त्यनाकलिता परालम्बनतयोपजाततदन्यतमासक्तिरनुभूतिरुत्सार्य विभीषिकां येन तेष्वेवैकं प्राहिता तमेव बहुमन्यतेतरां नापरालम्बनप्रदर्शकम् । प्रतिष्टिता च सती नापरमपर बहुपदार्थन्दिल वारविलासिनीव मृगयते पर्यन्तविरसत्वात् संलमजगजालतया चालिमितुमप्यशक्नुवाना विफलमनोरथैव हि स्यात् । नच पर्यन्तविरसपरिग्राहकसपक्षमनुचिन्योक्तलाघवमादावेव कुतोन। ततोजुगुप्सतेऽनुभूतिर्भवति च तादृशलाघवोपन्यासो जात्युत्तर वपक्षव्याघातकखाद्वादिनोऽतएव संसर्गवलाघवमेवातथाभूतं स्वप्रतिष्ठापकतयाद्रियमाणां मन्यन्ते तां प्राञ्चोविचक्षणा इति वाच्यं यत् तण्डुलंपचति राज्ञः पुरुष इत्यादिवाक्यतो लब्धजनिरनुभूतिः किमालम्बनेतिजिज्ञासुभिर्भूसत्तायामेधवृद्धावित्यादि समानतया व्यवहारादिजन्मवाक्यघटकसकलपदसार्थकलप्राथमिकप्रतिपत्तियावत्संभवानुग्रहमूलनिरर्थकलकल्पनान्याय्यतया च लाघवसहकृतया ग्राहितभावप्रधानकर्मादिपदघटितखकर्मखाद्यर्थशक्तितत्परभावाः कर्मणिद्वितीयाशेषेषष्ठीत्यादिस्मृतय एवानभतिरहस्यवेदिन्यस्समाश्रियन्ते यावश्च तास्तबमावेदयेयुस्तावदेव कैश्चिल्लाघवेन कमोदिशक्तिपरित्यागवदतिलाघवेन शक्तिसामान्यमेव परित्यजद्भिस्तासां द्वितीयादिनिष्ठाकारनिर्वाहकलज्ञापनपरलोद्भावनसमाश्वासनसहकारिणी तत्त्वाख्यानावचमकृतिकुशला संसर्गलाभ्युपगममात्रनिहितबुभुत्सितार्थप्रतिपत्तिवचनाखवायुपस्थितिगर्भलकृतशाब्दसामग्रीप्रतिबन्धकल १२ व्युत्प.

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218