Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 86
________________ व्युत्पत्तिवादः । जन्यशाब्दधीविरोधितया तादृशनिश्चयाभावस्य तथाविधसामग्रीप्रतिबन्धकतायां निवेशनस्याधिक्येन लाघवानवकाशात् । मग्मते राजस्वत्वाभाववान् पुरुष इत्यादिबाधकाभावनिवेशेनव कारकबोधस्य स्वीकरणीयतया तादृशबोधसामय्याः प्रतिबन्धकताया उभयमतसिद्धत्वात् स्वत्वादिसंसर्गकबोधसामन्याः प्रतिबन्धकताकल्पनेन गौरवस्य संसर्गतामते जागरूकत्वेन तन्मतखण्डनं प्रन्थकृतां संगच्छत एवेत्यपि निरस्तम् । गौरवाभावेन संसर्गतामतस्य समीचीनत्वमित्यस्य पूर्वपक्षाविषयलादुक्तरीत्या संसर्गतामते गौरवस्य प्रागेवनिराकृतत्वाच अत. एवान्यथातादृशसमभिव्याहारज्ञानघटितशाब्दसामग्रीकालइत्यादिग्रन्थेन भित्रविषयकप्रत्यक्षविशेषे संसर्गतामते सामग्याः प्रतिबन्धकबकल्पनेन गौरवप्रदर्शनमसमजसम् भिन्नविषयकप्रत्यक्षमात्रएव संसर्गतामते बोधद्वयसामग्याः प्रतिबन्धकताद्वयस्य प्रकारतामते प्रतिबन्धकतैक्यस्य च संभवाद्गौरवस्य स्फुटखात्ताव दूरानुधावनस्य निर्बीजत्वादिति निरस्तम् । किंचाप्रकेचिदित्यादिना यदुक्तं संसर्गतामते गौरवं निपुणतयालोचने विपरीतमेव तदवभासते । तथाहि घटादिभिन्नभिन्न विषयकप्रत्यक्ष प्रति शाब्दसामग्याः प्रतिबन्धकत्वे प्रकारतामते बाधनिर्णयाभावद्वयखलोपस्थितिराजोपस्थितिपुरुषोपस्थितियोग्यताकाहातात्पर्यज्ञानत्रयेल्यष्टकारणानां सामय्यां प्रवेशः संसर्गतामते चैकविधबाधनिश्चयाभावराजोपस्थितिपुरुषोपस्थितियोग्यताकावाज्ञानत्रयेति षकारणानां प्रवेशः । तत्र सामग्रीत्वस्य कारणकूटलरूपत्वात् कूटत्वस्य चैकविशिष्टापरत्वरूपत्वात्कारणाष्टकस्य विशेष्यविशेषणभावे विनिगमनाविरहे प्रकारतामते एकत्रैव प्रायः सर्विशतिशतत्रयाधिकचतुरयुतप्रतिबन्धकत्वमापद्यते । संसगतामते च तत्र विंशत्यधिकसप्तशतप्रतिवन्धकत्वं द्विविधवाधघटितभिन्नविषयद्यप्रत्यक्षद्वये संसर्गतामते च चत्वारिंशदधिकचर्तुदशशतप्रतिबन्धकत्वमेकविधबाघटितभिन्न विषयकैकप्रत्यक्ष प्रति प्रकारतामते सविंशतिशतत्रयाधिकचतुरयुत प्रतिबन्धकत्वमिति कियदाधिक्यं प्रतिबन्धकत्वस्य प्रकारतामत इति सुधीभिरालोचनीयम् । यदि चापेक्षाबुद्धिविषयलमेव समुदायत्वं तदा मोक्तरीत्या गौरवस्य संभवइति विभाज्यते तदाप्यपेक्षाबुद्धेस्तव्यक्तित्वेन प्रतिबन्धकतावच्छेदकले विनिगमकाभावादनन्तानां तब्धतीनामवच्छेदकखापत्त्याऽसर्वज्ञदुईयानन्तप्रतिबध्यप्रतिबन्धकभावापत्तिरिति तत्तत्कारणविषयताविशेषविशेषितज्ञानलेनैवावच्छेदकलमपेक्षाबुद्धर्वाच्यं तत्र च व्यासज्यवृत्यवच्छेदकल्लानङ्गीकारे एकविशिष्टापरविषयखस्यैवावच्छेदकलमशीकरणीय मिति विशेष्यविशेषणभावे विनिगमकाभावात्तत्तन्मते तावतामेव प्रतिवन्धकवानां प्रसङ्गो दुर्वारः कथमन्यथा सामन्यां न्यूनाधिकवस्तुप्रवेशविचारपरतत्तदन्थस्य स्यात्संदर्भशुद्धता । अन्नब्रूमः प्रकारतामते राजखलाभावराजखलव्यापकाभावखवाभावखलव्यापकाभावयत्पुरुषराजखलवदवृत्तिमत्पुरुषखबवदवृत्तिमत्पुरुषराजाभाववत्खत्वराजव्यापकाभाववत्स्वत्वराजवदवृत्तिमत्स्वत्वात्मका नववाधाः । संसर्गतामते च राजाभाववपुरुषराजव्यापकाभाववत्पुरुषराजवदवृत्तिमत्पुरुषात्मकास्त्रयोबाधाः ! सतिचैवं प्रकारतामते बाधनिश्चयाभावानां नवानां बाथनवकव्याप्यसंसर्गतामतसिद्धबाधनयवत्तानिश्चयानां सप्तविंशतीनां द्वयोर्द्वयोर्बिशेष्यविशेषणभावे विनिगमनाविरहावाधविशिटबाधात्मकविषयचतुष्टयस्य त्रयाणां विशेष्य विशेषणभावे विनिगमनाविरहाद्वाधविशिष्टबाधात्मकविषयषट्कस्य च बाधनबकव्याप्यतया निर्णयानां नवतीनामभावानां तावत्संख्यकानां सामय्यां प्रवेश इति सकलने सर्वेषां षड्विंशत्यधिकशतसंख्याकाभावानां प्रवेशः । संसर्गतामते च त्रयाणां बाधनिश्चयाभावानां बाधत्रयव्याप्यबाधनवकवत्तानिश्चयाभावानां सप्तविंशतीनां प्रवेशः । नवसु बाधेषु द्रुयोस्त्रयाणां चतुर्णा पञ्चानां षण्णां सप्ताना मष्टानां नवानां च विशेष्यविशेषणभावे विनिगमनाविरहेण बाधविशित्रबाधात्मकाविषया बहवः संपद्यन्ते । तथाहि द्वयोर्विशेष्यविशेषणभावे विनिगमनाविरहे द्वावेव ज्यादीनां च स्वगुणितखपूर्वफलात्मकखफललबभ्या षट्चतुर्विंशतिविंशत्यधिकशतर्विशत्यधिकसप्तशतचत्वारिंशदधिकपञ्चसहस्रसविंशतिशतत्रयाधिक चतुरयुतसाशीत्यष्टशताधिकद्विषष्टिसहस्राधिकलक्षत्रया जायन्ते तेषां संकलने सप्तत्यधिकनवसहस्राधिकचतुर्लक्षसंख्यकाविषयाः भवन्त्येकैकस्यैव याद्यात्मकसङ्घातस्य विशेष्यविशेषणभावे विनिगमकाभावेन विशिष्टरूपसंपादने नवसु च धात्मकः संघातः । षट्त्रिंशयात्मकः चतुरशीतिसंख्यकः चतुष्टयात्मकः घडिशत्यधिकशतसंख्यकः एवं पश्चाद्यात्मकोप्युत्तरोत्तरमधिकसंख्यकः । तेषां सर्वेषामुक्तक्रमेण विशिष्टसंपादने बहुकोटिसंख्यका विषयास्तेषां सर्वेषां राजाभावव्याप्यतया धर्मिणि निश्चयानां बहुकोटिसंख्यकाभावानां च प्रवेशः । तथासति विशेष्यविशेषणभावे बिनिगमकाभावात्सामग्रीलस्य प्रतिबन्धकतावच्छेदकस्य संसर्गतामते परार्धादिरूपतापद्यत इति गौरवे किं वक्तव्यम् । नच राजखलाभाववत्पुरुषराजाभाववत्स्वत्लयोरेकविशिष्टघटकले तज्ज्ञानस्याहार्यतया न प्रतिबन्धकलसंभव इति तादृशबिशिष्टसंपादनं व्यर्थमिति वाच्यम् । खले राज्ञोऽव्याप्यवृत्तिलग्रहकालेऽनाहार्यस्य प्रतिबन्धकीभूतस्योक्तविशिष्टज्ञानस्य संभवात् । नच प्रकारतामते प्रमेयलादिधर्मचतुष्टयस्य राजस्वलाद्यभावनवकव्याप्यस्य निर्णयानां षत्रिंशत्संख्यकाभावाना प्रवेशः संसर्गतामते च द्वादशाभावाना प्रवेश इति गौरवमिति वाच्य नवबाधात्मकविषयाणां हि विशेष्यविशेषणभावव्यत्यासेन विशिष्टविषयरूपतासंपादने यदोक्तरीत्या व्याप्यनिश्चयामावानां संसर्गतामते प्रकारतामतादयाधिक्यं तदा कैव कथा षट्त्रिंशब्याप्यानां परस्परविशेष्यविशेषणभावव्यत्यासतो विशि

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218