Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
गूढार्थतत्वालोकव्याख्यासहितः ।
शिष्टवैशिष्यावगाहिप्रत्यक्षवारणाय तत्र तादृशसामथ्र्याः प्रतिबन्धकताकल्पनाधिक्येन गौरयात् । अस्मन्मते तादृशसमभिव्याहारघटितसामध्या राजस्वत्वाभाववान् पुरुष इत्यादिबाधाभावघटिततया तरसत्रे विशेष्यतावच्छेदकादिप्रकारकनिश्चयरूपकारणविरहादेव तथाविधविशिष्टवैशिष्ट्या वगाहिप्रत्यक्षोत्पत्त्यसंभवेन तादृशसामग्र्यास्तत्र प्रतिबन्धकत्वस्याकल्पनात् । अन्यादृशप्रत्यक्ष स्थलीयप्रतिबन्धकतया च न त्वन्मते निर्वाहः । अन्यत्रान्यविधप्रत्यक्षेच्छानामुतेजकतया तादृशेच्छायामसत्यां चोपदर्शितविशिष्टवैशिष्ट्य बोधत्वप्रकारेच्छाबला दुपदर्शि तविशिष्टवैशिष्ट्यबोधोपपत्तये अन्याद्दशविषयताया एव प्रतिबध्यतावच्छेदकत्वोपगमावश्य
७७
नियामकस्य प्रतियोगितावच्छेदकत्वयुक्तिम् । किमत्र वक्तव्यम् नृत्यनियामकस्य प्रतियोगितावच्छेदकत्वे यदिचेत् वृत्तिनियामकसंबन्धेनेव वृत्त्यनियामकेनापि वस्तुरात्तानिषेधोऽभियुक्तानामनुभवपथारूढः स्यादेवतत् नस्याचेदलं प्रमाणशतोपन्यासेनापि तस्य शास्त्रैकमात्रसमधिगम्यत्वाभावादिति । प्रत्यक्षवारणाय तत्र तादशसामग्र्याः प्रतिबन्धकताकल्पनाधिक्येनेति । अथविभिन्नविषयकप्रत्यक्षं प्रति शाब्दसामध्याः प्रतिबन्धकत्वे प्रामाणिकएवोक्तगौरवोद्भावनं संगच्छते । नच तंत्रोपलभ्यते मानमिति चेन्न जातिसाङ्कर्म्यस्य ज्ञानयौगपद्यस्य चानभ्युपगततयोभयसामग्रीसत्त्वे हि केनचिदेकेनैव कार्येण भवितव्यं नहि तत्र प्रतिबन्धकत्वादृतेऽन्यस्य संभवति विनिगमकत्वमित्यावश्यकं प्रतिबन्धकत्वमेकतरसामय्यास्तत्र प्रत्यक्षसामम्याः प्रतिबन्धकत्वेऽन्ततः सर्वत्र शान्दसामग्रीकाले योग्यत्वाका हाज्ञानादिमानसप्रत्यक्ष सामय्या नियमेन सत्तया शाब्दप्रमितिमात्रोच्छेदः स्यादिति शाब्दसामग्र्या एव प्रतिबन्धकत्वं स्वीक्रियते । किंच ऋते लौकिकप्रत्य - क्षसामय्या यस्या यदपेक्षया गुरुत्वं तस्यैवहिं प्रतिबन्धकत्वमानुभविकं तद्विघटने पुनः क्लेशेन तस्याः संपादनीयलासंपद्यमानतत्कार्यप्रतीक्षणस्यैव लघुसामग्र्या अनतिक्लेशसंपाद्याया युक्तत्वादिति बोध्यम् । ननु राज्ञः पुरुषइत्यादिवाक्यज्ञान घटितसामग्रीसत्त्वे घटपटादिप्रत्यक्षवारणाय तत्तत्प्रत्यक्षे तत्सामम्याः प्रतिबन्धकत्वं कल्पनीयं तत्र विशिष्यतत्तद्विषयकप्रत्यक्षेऽनन्तप्रतिबन्धत्वम प्रकल्प्य लाघवेन राजत्वावच्छिन्नविषयतानिरूपितपुरुषत्वावच्छिन्नविशेष्यत्वावच्छिन्नभेदप्रतियोगितानवच्छेदकविषयताकत्वरूपभिन्न विषयकत्व विशिष्टप्रत्यक्षत्वावच्छिन्नं प्रत्येकमेव प्रतिबन्धकत्वं कल्पनीयमिति संसर्गत्वमतेऽपि न प्रतिबन्धकताधिक्यमित्यत आह । अन्यादृशप्रत्यक्ष स्थलीयप्रतिबन्धकतथेति । उपदर्शितविशिष्टवैशिष्ट्यबोधोपपत्तयइति । नचोपदर्शितविशिष्टवैशिष्ट्यबोधलप्रकारकेच्छा विरह वैशिष्ट्यमपि निवेश्यं तथाचो'तरीत्यानुपपत्तिविरहात्प्रतिबध्यताभेदो नाङ्गीकरणीय इति वाच्यम् घटादिप्रत्यक्षेच्छाविरहकाले उपदर्शितविशिष्टवैशिष्ट्यबोधेच्छादशायां घटादिप्रत्यक्षापत्तिवारणाय तस्य तत्रानिवेशनीयत्वात्, आपत्तिवारणायैव प्रतिबन्धकत्वस्य कल्पिततया तद्वारणस्यैवाभ्यर्हितत्वादित्यनुपपत्तिपरिहाराय प्रतिबध्यताभेदस्यावश्यकत्वादितिभावः ।
अथोपदर्शितविशिष्टवैशिष्ट्यबोधेच्छादशायां घटप्रत्यक्षसामय्यां घटप्रत्यक्षापत्तेरुपदर्शितविशिष्टवैशिष्ट्य बोधेच्छादशायामुपदर्शितविशिष्टवैशिष्ट्यबोधसामम्यां तादृशबोधानुपपत्तेश्च वारणाय यद्यदिच्छासत्त्वे तादृशसामम्यां भिन्नविषयकं प्रत्यक्षमुत्पद्यते तत्तद्व्यक्तित्वेनैवाभाव प्रतियोगितयेच्छाव्यक्तीनां प्रवेशो विधेयो, नच प्रतिबध्यप्रतिबन्धकभावभेदः कल्पनीयः आवश्यकश्च प्रतिबध्यप्रतिबन्धकभावभेदपक्षेऽपि तत्तद्व्यक्तित्वेनैवेच्छाव्यक्तीनां प्रवेशः घटप्रत्यक्षेच्छायाः घटप्रत्यक्षविषयकखेन प्रवेशे शाब्दलादिना तद्गोचरेच्छायां तदापत्तेः घटप्रत्यक्ष प्रकारकेच्छात्वेन प्रवेशे शाब्दान्यज्ञानत्वादिना तदवगाहीच्छायां तदनुपपत्तेः यादृशयादृशेच्छाव्यक्तिसत्वे शाब्दसामग्र्यां प्रत्यक्षमुत्पद्यते तादृशत्वेन प्रवेशेऽपि राजपुरुषशब्दान्यज्ञानं जायतामितीच्छातो राजपुरुषशाब्दसामभ्यां घटादिप्रत्यक्षसामभ्यां च घटादिप्रत्यक्षोत्पत्तेरनुभवसिद्धतया राजपुरुषशाब्दसामभ्यां नीलघटादिशाब्दसामभ्यां घटप्रत्यक्षसामभ्यां च सत्यां विद्यमानाया निरुक्तेच्छायास्तादृशत्वेन तदानीं घटादि प्रत्यक्षापत्तैर्दुरुद्धरत्वात् अप्रतिवध्यनीलघटादिशाब्दोत्पत्या तादृशेच्छाया विषयपर्यवसानसंभवे प्रतिवध्यज्ञानार्जकत्वस्यानुभवविरुद्धत्वेनेष्टापत्तेरयोगादिति चेन्न भिन्नविषयकशाब्दसामग्र्यां घटप्रत्यक्षसामग्र्यां पटप्रत्यक्षसामग्र्यांच सत्यां घटप्रत्यक्षेच्छायां घटप्रत्यक्षमिव पटप्रत्यक्षमपि स्याद्वटप्रत्यक्षानुरोधेन तदिच्छाव्य केरुत्तेजकताया आवश्यकत्वात्प्रतिबध्य प्रतिबन्धकभावभेदे पटप्रत्यक्षप्रतिबन्धकतायां निरुक्तेच्छाव्य क्तेरनुत्तेजकत्वादिति । एतेन स्वविषयतावच्छेदकधर्मावच्छिन्नप्रत्यक्षसामग्रीविशिष्टत्वस्वविषयतावच्छेदकावच्छिन शाब्दसामग्रीविशिष्टत्व संबन्धावच्छिन स्वाभाववत्त्वस्व सामानाधिकरण्यैतत्रितयसंम्बन्धावच्छिन्नप्रतियोगिताकइच्छासामान्याभावएवास्तु सामग्र्यां विशेषणम् प्रथमसंबन्धनिवेशात् पदप्रत्यक्षेच्छायां घटप्रत्यक्षसामभ्यां च नप्रत्यक्षापत्तिः द्वितीयसंबन्धनिवेशाच्च राजपुरुषशाब्दान्यज्ञानं जायतामितीच्छादशायामनुपदोक्ताया आपत्तेर्नावकाशइति निरस्तम् । यत्तु भिन्नविषयकप्रत्यक्षत्वावच्छिन्नं प्रति स्वविशिष्टेच्छाभावविशिष्टसामग्रीत्वेन प्रतिबन्धकत्वं वाच्यं वैशिष्ट्यं व स्वविषयकत्वस्त्रसामग्रीविशिष्टत्वस्वकालीन शाब्दाभाववत्त्वैतत्रितयसंबन्धेन । शाब्दाभावश्च स्वविषयकत्वख सामग्री बिशिष्टत्वो

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218