Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 74
________________ ७० व्युत्पत्तिवादः। संबन्धेन नामार्थयो न्वयबोधः। तादात्म्यं च प्रकृते तद्वृत्तिधर्मवत्त्वम् एवं च नीलो घट इत्यादौ स्ववृत्तिनीलत्वादिमत्त्वसंबन्धेन घटाद्यंशे नीलपदार्थस्येव मुखं चन्द्र इत्यादौ स्ववृत्याह्लादकत्वादिमत्त्वसंबन्धेन मुखादौ चन्द्रादेरन्वयबोधः तादृशार्थान्वयबोधेऽपि समानविभक्तिकत्वं तत्रमित्यतो नातिप्रसङ्ग इति वदन्ति । अथ राजा पुरुष इत्यादौ पदार्थोपस्थित्यादिसत्वेन कथन्न भेदान्वयबोधः, सामग्रया कार्यजनने उक्तनियमभङ्गरूपायाः प्रयोजनक्षतेरकिंचित्करत्वात्, सामग्रीसत्त्वे अवश्यं कार्यमिति नियमात् । नच तत्र भेदान्वयबोधौपयिकाकालाविरहाच्छाब्दसामग्रयेवासिद्धेति वाच्यम्। समभिव्याहाररूपाया आकाक्षायास्तत्रापि सत्त्वात् । न च तादृशाकाङ्कायास्तत्र सत्त्वेऽपि राजादिपदार्थप्रकारकभेदान्वयबोधे राजादिपदाव्यवहितोत्तरङसूपदत्वादिरूपानुपूर्वीविशेषरूपाया आका साया अपि प्रयोजकत्वात् तदभावादेव न तत्र शाब्दसामग्रीति वाच्यम् । संबन्धादिविशेष्यकराजादिप्रकारकान्वयबोधपव तादृशाकाङ्क्षाज्ञानस्य हेतुतया पुरुषादी राजादिपदार्थप्रकारकान्वयबोधोत्पत्तौ ताटशाकाङ्क्षाज्ञानरूपकारणविरहस्याकिंचित्करत्वात् । अत्र के चित् । नामार्थप्रकारकभेदान्वयबोधं प्रति समानविशेष्यत्वप्रत्यासत्या प्रत्ययजन्योपस्थितेहेतुत्वकल्पना नामार्थप्रकारकभेदान्वयबोधे विशेष्यतया प्रत्ययार्थस्यैव भानं न तु नामार्थान्तरस्य । तत्र विशेष्यतासंबन्धेन प्रत्ययजन्योपस्थितेरसत्त्वात । न च संबन्धादेरपि नामार्थतया तत्प्रकारकान्वयबोधे पुरुषादिपदार्थस्य विशेष्यतया भानानुपपत्तेः, तत्तनामपदजन्यतत्तन्नामार्थप्रकारकशाब्दबोधत्वावच्छिन्नं प्रति प्रत्ययजन्योपस्थितित्वेन हेतुत्वेऽपि राजसंबन्धः प्रमेयः राज्ञः पुरुष इत्येताहशवाक्यस्यजन्यवाक्यार्थ प्रयोजनक्षतेरिति । प्रयोजनमिष्टं तथाचोक्तनियमस्य स्वेष्टस्य हानेरित्यर्थः । अकिञ्चित्करत्वात् । कार्यप्रतिरोधाक्षमत्वात् । विनैवपदमुपस्थितयोरर्थयोरन्वयबोधवारणाय तत्तदर्थोपस्थापकपदयोस्समभिव्याहारस्याकालाविधया ज्ञायमानस्यान्वयबुद्धी हेतुत्वमुपेयते सच प्रकृतेऽप्यन्क्यप्रतियोग्यनुयोग्युपस्थापकराजपदपुरुषपदयोरस्त्येवेत्याह । समभिव्याहाररूपायाइति। घटः कर्मलमित्यादौ घटकर्मत्वोपस्थापकपदयोस्समभित्र्याहारे ज्ञातेऽपि घटीयकर्मत्वमित्याद्यन्वयबोधस्यानुदयाद्धटमित्याद्यानुपूर्वीरूपाया आकाढायाश्शाब्दबोधानुकूलत्वमवश्यं वाच्यं भेदान्वयबुद्धौ साच राजापुरुषइत्यादौ नास्तीत्याशङ्कते । नचेत्यादि । राजादिप्रकारकभेदान्वयबुद्धेः राजानं राज्ञा राझे राज्ञ इत्यादौ सर्वत्रैवोदयेन प्रत्येक राजानमित्याद्यानुपूर्वी ज्ञानानां व्यभिचरितत्वेन न हेतुत्वसंभवइति कर्मत्वादिविशेष्यकराजादिप्रकारकान्वयबोधादौ विशिष्यैव राजानमित्याद्यानुपूर्वी ज्ञानानां हेतुत्वं वाच्यं पुरुषविशेष्यकबोधे तद्विरहश्चाकिश्चित्करइत्युत्तरयति । सम्बन्धादीति।नच निपातार्धनिछ विशेष्यलानिरूपितभेदसम्बन्धावच्छिन्नराजपदप्रयोज्यराजनिष्ठप्रकारताशालिशाब्दबुद्धौराजपदाव्यवहितोत्तरवर्तिप्रथमान्यसुबज्ञानत्वेन हेतुतायां व्यभिचाराभावेनास्तिसंभवइति वाच्यम् अत्रकेचिदित्यादिनाह्यतो लधुभूतस्य सामान्यकार्यकारणभावप्रकारस्य वक्ष्यमाणत्वादिति । भेदान्वयबोधम्प्रतीति । निपातार्थाविशेष्यकमितिवक्तव्यमतोनिपातार्थस्य प्रत्ययानुपस्थाप्यत्वेऽपि न क्षतिः घटोनास्तीत्यादौ प्रथमार्थतयैव प्रतियोगिलादीनाम्भानमिति मताभिप्रायकमिदमिति कश्चित् । समानविशेष्यत्वप्रत्यासत्येति । समानेति कार्यतावच्छेदकत्वस्यापि विशेष्यत्वे लाभायान्यथा तृतीयान्तस्य हेतु. खान्वयित्वेन तदवच्छेदकत्वमात्रं तस्य लब्धं स्यात् समानखश्च यादृशविशेष्यलस्य कार्यतावच्छेदकसंबन्धवंतादृश विशेष्यतात्वमिति विशेष्यलस्य कार्यतावच्छेदकत्वं लभ्यते विशेष्यत्वयोरेकधर्मावच्छिन्नत्वञ्च अतएवैकरूपेण प्रत्ययात्सम्बन्धाद्युपस्थितावन्यरूपेण न तस्य शाब्दबोधइति । मामाथान्तरस्येति । नामार्थस्येति वक्तव्ये यत्तथाभिधानं तद्वस्तुगतिमनुरुध्य तस्यैव विशेष्यत्वयोग्यत्वेन निषेद्धमुचितत्वात्, यद्वा पदार्थे पदार्थतावच्छेदकस्य भेदात्मकान्वयस्यैव शाब्दबोधविषयवात्तधुदासाय नामार्थान्तरेति तथाच तयोरेकशक्तिविषयत्वेनार्थान्तरसविरहात् आकाङ्खाभास्यान्वयलाभानुकुलपदस्य भेदान्वयेत्यत्राभावेनोक्तोपवर्णनस्य नासत्यवकाशः । केचित्तु चित्रगुरित्या दिबहुबीही खगोस्वामिनोर्गोपदार्थयोरन्वयाभ्युपगमपक्षे तयुदासायनामार्थान्तरेति नामान्तरार्थेति तदर्थः तथालेखः प्रामादिकोवेति वदन्ति । यद्यपि नामार्थशब्दानामप्रयोज्यविषयताश्रयस्यबीधे तस्य प्रकारतायामन्वयेच विशियान्वयमहिना नामप्रयोज्यप्रकारवस्य लाभसम्भवानाशङ्कावकाशस्तथापि विशेष्ये विशेषणमितिरीत्या शाब्दबोधस्यौत्सर्गिकताया विशेषणतावच्छेदकज्ञानसम्पादनक्लेशभयेन व्यवस्थापितत्तयोक्तविषयताश्रयवृत्तिप्रकारत्वमात्रं स्वरसतः प्रत्येतव्यमिति तदभिप्रायेणाशते । नचलम्बन्धादेरपिनामार्थतयेति। सति तात्पर्ये विशिष्टान्वयस्य प्रामाणिकत्वादाह । तत्तन्नामपदजन्यतत्तन्नामार्थप्रकारकेति । राज्ञः पुरुषइति वाक्यजन्यशाब्दबोधस्य सम्बन्धादिनामार्थीभूतसंबन्धप्रकारकत्वाद्राजादिनामजन्यलाच कार्यतावच्छेदकाक्रान्तत्वेन विशेष्यतया

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218