________________
७०
व्युत्पत्तिवादः। संबन्धेन नामार्थयो न्वयबोधः। तादात्म्यं च प्रकृते तद्वृत्तिधर्मवत्त्वम् एवं च नीलो घट इत्यादौ स्ववृत्तिनीलत्वादिमत्त्वसंबन्धेन घटाद्यंशे नीलपदार्थस्येव मुखं चन्द्र इत्यादौ स्ववृत्याह्लादकत्वादिमत्त्वसंबन्धेन मुखादौ चन्द्रादेरन्वयबोधः तादृशार्थान्वयबोधेऽपि समानविभक्तिकत्वं तत्रमित्यतो नातिप्रसङ्ग इति वदन्ति । अथ राजा पुरुष इत्यादौ पदार्थोपस्थित्यादिसत्वेन कथन्न भेदान्वयबोधः, सामग्रया कार्यजनने उक्तनियमभङ्गरूपायाः प्रयोजनक्षतेरकिंचित्करत्वात्, सामग्रीसत्त्वे अवश्यं कार्यमिति नियमात् । नच तत्र भेदान्वयबोधौपयिकाकालाविरहाच्छाब्दसामग्रयेवासिद्धेति वाच्यम्। समभिव्याहाररूपाया आकाक्षायास्तत्रापि सत्त्वात् । न च तादृशाकाङ्कायास्तत्र सत्त्वेऽपि राजादिपदार्थप्रकारकभेदान्वयबोधे राजादिपदाव्यवहितोत्तरङसूपदत्वादिरूपानुपूर्वीविशेषरूपाया आका साया अपि प्रयोजकत्वात् तदभावादेव न तत्र शाब्दसामग्रीति वाच्यम् । संबन्धादिविशेष्यकराजादिप्रकारकान्वयबोधपव तादृशाकाङ्क्षाज्ञानस्य हेतुतया पुरुषादी राजादिपदार्थप्रकारकान्वयबोधोत्पत्तौ ताटशाकाङ्क्षाज्ञानरूपकारणविरहस्याकिंचित्करत्वात् । अत्र के चित् । नामार्थप्रकारकभेदान्वयबोधं प्रति समानविशेष्यत्वप्रत्यासत्या प्रत्ययजन्योपस्थितेहेतुत्वकल्पना नामार्थप्रकारकभेदान्वयबोधे विशेष्यतया प्रत्ययार्थस्यैव भानं न तु नामार्थान्तरस्य । तत्र विशेष्यतासंबन्धेन प्रत्ययजन्योपस्थितेरसत्त्वात । न च संबन्धादेरपि नामार्थतया तत्प्रकारकान्वयबोधे पुरुषादिपदार्थस्य विशेष्यतया भानानुपपत्तेः, तत्तनामपदजन्यतत्तन्नामार्थप्रकारकशाब्दबोधत्वावच्छिन्नं प्रति प्रत्ययजन्योपस्थितित्वेन हेतुत्वेऽपि राजसंबन्धः प्रमेयः राज्ञः पुरुष इत्येताहशवाक्यस्यजन्यवाक्यार्थ
प्रयोजनक्षतेरिति । प्रयोजनमिष्टं तथाचोक्तनियमस्य स्वेष्टस्य हानेरित्यर्थः । अकिञ्चित्करत्वात् । कार्यप्रतिरोधाक्षमत्वात् । विनैवपदमुपस्थितयोरर्थयोरन्वयबोधवारणाय तत्तदर्थोपस्थापकपदयोस्समभिव्याहारस्याकालाविधया ज्ञायमानस्यान्वयबुद्धी हेतुत्वमुपेयते सच प्रकृतेऽप्यन्क्यप्रतियोग्यनुयोग्युपस्थापकराजपदपुरुषपदयोरस्त्येवेत्याह । समभिव्याहाररूपायाइति। घटः कर्मलमित्यादौ घटकर्मत्वोपस्थापकपदयोस्समभित्र्याहारे ज्ञातेऽपि घटीयकर्मत्वमित्याद्यन्वयबोधस्यानुदयाद्धटमित्याद्यानुपूर्वीरूपाया आकाढायाश्शाब्दबोधानुकूलत्वमवश्यं वाच्यं भेदान्वयबुद्धौ साच राजापुरुषइत्यादौ नास्तीत्याशङ्कते । नचेत्यादि । राजादिप्रकारकभेदान्वयबुद्धेः राजानं राज्ञा राझे राज्ञ इत्यादौ सर्वत्रैवोदयेन प्रत्येक राजानमित्याद्यानुपूर्वी ज्ञानानां व्यभिचरितत्वेन न हेतुत्वसंभवइति कर्मत्वादिविशेष्यकराजादिप्रकारकान्वयबोधादौ विशिष्यैव राजानमित्याद्यानुपूर्वी ज्ञानानां हेतुत्वं वाच्यं पुरुषविशेष्यकबोधे तद्विरहश्चाकिश्चित्करइत्युत्तरयति । सम्बन्धादीति।नच निपातार्धनिछ विशेष्यलानिरूपितभेदसम्बन्धावच्छिन्नराजपदप्रयोज्यराजनिष्ठप्रकारताशालिशाब्दबुद्धौराजपदाव्यवहितोत्तरवर्तिप्रथमान्यसुबज्ञानत्वेन हेतुतायां व्यभिचाराभावेनास्तिसंभवइति वाच्यम् अत्रकेचिदित्यादिनाह्यतो लधुभूतस्य सामान्यकार्यकारणभावप्रकारस्य वक्ष्यमाणत्वादिति । भेदान्वयबोधम्प्रतीति । निपातार्थाविशेष्यकमितिवक्तव्यमतोनिपातार्थस्य प्रत्ययानुपस्थाप्यत्वेऽपि न क्षतिः घटोनास्तीत्यादौ प्रथमार्थतयैव प्रतियोगिलादीनाम्भानमिति मताभिप्रायकमिदमिति कश्चित् ।
समानविशेष्यत्वप्रत्यासत्येति । समानेति कार्यतावच्छेदकत्वस्यापि विशेष्यत्वे लाभायान्यथा तृतीयान्तस्य हेतु. खान्वयित्वेन तदवच्छेदकत्वमात्रं तस्य लब्धं स्यात् समानखश्च यादृशविशेष्यलस्य कार्यतावच्छेदकसंबन्धवंतादृश विशेष्यतात्वमिति विशेष्यलस्य कार्यतावच्छेदकत्वं लभ्यते विशेष्यत्वयोरेकधर्मावच्छिन्नत्वञ्च अतएवैकरूपेण प्रत्ययात्सम्बन्धाद्युपस्थितावन्यरूपेण न तस्य शाब्दबोधइति । मामाथान्तरस्येति । नामार्थस्येति वक्तव्ये यत्तथाभिधानं तद्वस्तुगतिमनुरुध्य तस्यैव विशेष्यत्वयोग्यत्वेन निषेद्धमुचितत्वात्, यद्वा पदार्थे पदार्थतावच्छेदकस्य भेदात्मकान्वयस्यैव शाब्दबोधविषयवात्तधुदासाय नामार्थान्तरेति तथाच तयोरेकशक्तिविषयत्वेनार्थान्तरसविरहात् आकाङ्खाभास्यान्वयलाभानुकुलपदस्य भेदान्वयेत्यत्राभावेनोक्तोपवर्णनस्य नासत्यवकाशः । केचित्तु चित्रगुरित्या दिबहुबीही खगोस्वामिनोर्गोपदार्थयोरन्वयाभ्युपगमपक्षे तयुदासायनामार्थान्तरेति नामान्तरार्थेति तदर्थः तथालेखः प्रामादिकोवेति वदन्ति । यद्यपि नामार्थशब्दानामप्रयोज्यविषयताश्रयस्यबीधे तस्य प्रकारतायामन्वयेच विशियान्वयमहिना नामप्रयोज्यप्रकारवस्य लाभसम्भवानाशङ्कावकाशस्तथापि विशेष्ये विशेषणमितिरीत्या शाब्दबोधस्यौत्सर्गिकताया विशेषणतावच्छेदकज्ञानसम्पादनक्लेशभयेन व्यवस्थापितत्तयोक्तविषयताश्रयवृत्तिप्रकारत्वमात्रं स्वरसतः प्रत्येतव्यमिति तदभिप्रायेणाशते । नचलम्बन्धादेरपिनामार्थतयेति। सति तात्पर्ये विशिष्टान्वयस्य प्रामाणिकत्वादाह । तत्तन्नामपदजन्यतत्तन्नामार्थप्रकारकेति । राज्ञः पुरुषइति वाक्यजन्यशाब्दबोधस्य सम्बन्धादिनामार्थीभूतसंबन्धप्रकारकत्वाद्राजादिनामजन्यलाच कार्यतावच्छेदकाक्रान्तत्वेन विशेष्यतया