________________
गूढार्थतत्वालोकव्याख्यासहितः । प्रयान्वयबोधे पुरुषस्य राजसंबन्धविशेष्यतया भानानुपपत्तिरिति वाच्यम् । प्रत्ययाधीनतत्तरपदायोपस्थित्यजन्यतदर्थप्रकारकशाब्दत्वावच्छिन्नं प्रत्येव प्रत्ययजन्योपस्थिते:समानविशेष्यताप्रत्यासत्त्या हेतुत्वोपगमात् । अथैवमपि यत्र राजा पुरुष इत्यत्र पुरुषपदाधीनपरुषोपस्थिती प्रत्ययार्थोऽपि विषयीभूतः तत्र प्रत्ययजन्यतथाविधसमूहालम्बनोपस्थितेर्विशेष्यतासंबन्धेन पुरुषेऽपि सत्त्वात्तस्य राजप्रकारकान्वयबोधे विशेष्यतया भानापत्तिारैव । न च प्रत्ययजन्यतावच्छेदकीभूतविशेष्यतासंबन्धेनोपस्थितेर्हेतुत्वोपगमानानुपपत्तिः। तादृशसम्हालम्वनोपस्थितिनिरूपितपुरुषनिष्ठविशेष्यताया नान एव जन्यतावच्छेदकत्वादिति वाच्यम् । ज्ञानभेदेन विशेष्यताभेदाभावात् । यत्रकुत्रचित्प्रत्ययादेष लक्षणादिना पुरुषाधुपस्थितिस्तत्र तादृशोपस्थितिनिरूपितप्रत्ययजन्यतावच्छेदकीभूतविशेष्यतातः पुरुषादिपदजन्यपुरुषाद्युपस्थितविशेष्यताया अभिन्नतया तावताप्युक्तातिप्रसङ्गवारणासंभवादिति चेन्न । स्वजनकक्षानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यता विशिष्टविशेष्यतासंबन्धेनैवोपस्थितेहेतुतयोक्तसमूहालम्बनोपस्थितिनिरूपितपुरुषनिष्ठविशेप्यतायाश्च ताशोपस्थितिजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यतासामानाधिकरण्यविरहानातिप्र. सङ्ग इति वदन्ति । तदसत् । प्रत्ययत्वस्यानुगतानतिप्रसक्तस्य दुर्वचतया उक्तकार्यकारणाभावकरूपनाया असंभवात् । राजसंबन्धः पुरुष इत्यादी संबन्धादिपदे ङसपदत्वादिभ्रमदशायां संब
पुरुष तस्यसत्त्वेन च्यभिचारस्स्यादिति तत्तदिति नामविशेषणं तथाच तस्य सम्बन्धादिनामपदाजन्य खात्रदोषः । अथ राजपदजन्यस्य राजपदार्थप्रकारकस्य च राज्ञः पुरुषइतिवाक्यजन्यशाब्दबोधस्य पुरुषे विशेष्यतया सत्त्वेन तत्र प्रत्ययजन्योपस्थित्युभावाद्यभिचारो दुर्वारएवेति तत्तन्नामपदप्रयोज्यतत्तन्नामार्थनिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेन शाब्दबुद्धिवावछिन्नं प्रतीत्येव वक्तव्यंतथासति तत्तदितिव्यर्थ पुरुषनिष्टविशेष्यतानिरूपितप्रकारताया नामपदप्रयोज्यलाभावेन दोषाभावात् । एवञ्च कार्यकारणभावबाहुल्यमपि नग्रसज्यते नापिच राजसंबन्धः प्रमेयइत्याद्यनुपदोक्तानुपपत्तिः पुरुषनिष्ठविशेष्यतानिरूपित्तसम्बन्ध. निष्ठप्रकारतायाः सम्बन्धपदाप्रयोज्यत्वात् । किञ्च तत्सनामार्थत्यपिव्यर्थमिति चेत्सत्यं तत्तदित्यादि नोपादेयमेव सम्बन्धपदप्रत्ययपदाभ्यां यत्रैकैवोपस्थितिस्तत्रोपस्थितिविषयताद्वारकप्रयोज्यलस्य प्रत्ययनिरूपितस्येव सम्बन्धादिनामनिरूपितस्यापि पुरुषनिष्ठविशेष्यतानिरूपितविषयत्वे सत्वेनानुपपत्तिस्तु सङ्गच्छतएव । तत्तन्नामेत्यादिकंतु तत्तनामार्थनिष्टप्रकारतानिरूपितविशेष्यतासंबन्धेन तत्तनामपदजन्यशाब्दबुद्धिम्प्रति प्रत्ययजन्योपस्थितेः कारणखाभिप्रायेणोक्तमित्यवधेयम् । परेतु तत्तत्प्रकारकखविशिज्ञानस्य विशेष्यतया तत्तत्यकारतानिरूपितविशेष्यताश्रयएवसत्वमङ्गीक्रियतइति राजपदजन्यराजप्रकारकत्व विशिष्टशाब्दबोधस्य पुरुषे सत्त्वासंभवेन व्यभिचाराप्रसक्तरुक्तविवक्षायाः प्रयोजनाभावेनोक्तरीत्यातत्तदिति भवत्येव सार्थकमिति प्राहुः।
प्रत्ययाधीनतत्तत्पदार्थोपस्थित्यजन्येति । राजापुरुषइत्यादिवाक्यात्प्रथमाथैकत्वविषयकस्य राजप्रकारकशाब्दबोधस्य पुरुषे प्रसझवारणाय तत्तदिति । उभयत्र तत्तदित्यस्य प्रवेशात्प्रत्ययाधीनोपस्थितिविषयलाप्रयोज्यनामार्थनिष्ठप्रकारताकशाब्दबुद्धौ हेतुत्वम्पर्यवस्यति अतएव राजसंबन्धोऽथः राज्ञः पुरुषइति बाक्यात्समूहालम्बनशाब्दवोधस्य खरूपसबन्धेन राजसंबन्धप्रकारकस्य इस्प्रत्ययजन्यसंबन्धोपस्थितिजन्यस्याश्वेन प्रसङ्गानचैवमपि राजापुरुषइत्यादौ राजपदाद्यस्यकस्य. चित्प्रत्ययाद्रहीतराजसंगतिकाच्चैकैबराजोपस्थितिरुक्तस्थलेच डस्प्रत्ययात्सम्बन्धपदाचैकैवसंबन्धोपस्थितिर्यदा जाता तदा पुरुषाश्वयोर्भेदान्वयबोधो दुरुद्धरइति वाच्यं विशेष्यपदसाकाप्रत्ययस्यविवक्षितत्वात् यत्प्रत्ययार्थस्य यत्प्रत्ययान्तार्थस्य वा यद्विशेष्येऽन्वयोविवक्षितस्तत्प्रत्ययस्यैव तत्साकाङ्कखात् । तथाच विशेष्यताविशिष्ट विशेष्यत्वस्य संसर्गत्वं फलितं वैशिष्टयंच खतादात्म्यस्खप्रयोजकाकाहाघटकप्रत्ययाप्रयोज्यनामार्थप्रकारताकखोभयसंबन्धेनेति न कश्चिद्दोषइति । वजनकज्ञानीयप्रत्ययेत्यादि । नच राजापुरुषइत्यादौ पुरुषपदाद्यस्य कस्यचित्प्रत्ययाद्गहीतसंगतिकाच यत्रैकैवपुरुषोपस्थितिस्तत्रातिप्रसङ्गोदुरिइति वाच्यं तत्तन्नामार्थप्रकारकान्वयबुद्धौ तत्तन्नामपदसाकाहप्रत्ययजन्योपस्थितेहेर्तुत्वस्य विवक्षितत्वात् । एवञ्च खीयविषयताप्रयोज्यविशेष्यप्तानिरूपितप्रकारताप्रयोजकनामसाकाहप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्टविशेष्यतासम्बन्धेन हेतुलं फलितम् । अत्रापि विशेष्यतावैशिष्ट्यपर्यन्तानुधावनं राज्ञः पुरुषइत्यादौ डस्पुरुषपदसमूहालम्बनबृत्तिज्ञानात्संबन्धपुरुषसमूहालम्बनोपस्थितेः संवन्धइव पुरुषेऽपि भेदान्वयवारणायादरणीयमिति ध्येयम् । प्रत्ययत्वस्य सङ्केतविशेषसंबन्धेन प्रत्ययपदवत्त्वस्यान्यस्य वा कथञ्चिदनुगतस्य संभवेऽपि तस्य न कारणतावच्छेदककुक्षौ प्रवेशस्सम्भवतीत्यभिप्रायवानाह । राजसम्बन्धःपुरुषइत्यादावित्यादि।