Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 75
________________ गूढार्थतत्वालोकव्याख्यासहितः । प्रयान्वयबोधे पुरुषस्य राजसंबन्धविशेष्यतया भानानुपपत्तिरिति वाच्यम् । प्रत्ययाधीनतत्तरपदायोपस्थित्यजन्यतदर्थप्रकारकशाब्दत्वावच्छिन्नं प्रत्येव प्रत्ययजन्योपस्थिते:समानविशेष्यताप्रत्यासत्त्या हेतुत्वोपगमात् । अथैवमपि यत्र राजा पुरुष इत्यत्र पुरुषपदाधीनपरुषोपस्थिती प्रत्ययार्थोऽपि विषयीभूतः तत्र प्रत्ययजन्यतथाविधसमूहालम्बनोपस्थितेर्विशेष्यतासंबन्धेन पुरुषेऽपि सत्त्वात्तस्य राजप्रकारकान्वयबोधे विशेष्यतया भानापत्तिारैव । न च प्रत्ययजन्यतावच्छेदकीभूतविशेष्यतासंबन्धेनोपस्थितेर्हेतुत्वोपगमानानुपपत्तिः। तादृशसम्हालम्वनोपस्थितिनिरूपितपुरुषनिष्ठविशेष्यताया नान एव जन्यतावच्छेदकत्वादिति वाच्यम् । ज्ञानभेदेन विशेष्यताभेदाभावात् । यत्रकुत्रचित्प्रत्ययादेष लक्षणादिना पुरुषाधुपस्थितिस्तत्र तादृशोपस्थितिनिरूपितप्रत्ययजन्यतावच्छेदकीभूतविशेष्यतातः पुरुषादिपदजन्यपुरुषाद्युपस्थितविशेष्यताया अभिन्नतया तावताप्युक्तातिप्रसङ्गवारणासंभवादिति चेन्न । स्वजनकक्षानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यता विशिष्टविशेष्यतासंबन्धेनैवोपस्थितेहेतुतयोक्तसमूहालम्बनोपस्थितिनिरूपितपुरुषनिष्ठविशेप्यतायाश्च ताशोपस्थितिजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यतासामानाधिकरण्यविरहानातिप्र. सङ्ग इति वदन्ति । तदसत् । प्रत्ययत्वस्यानुगतानतिप्रसक्तस्य दुर्वचतया उक्तकार्यकारणाभावकरूपनाया असंभवात् । राजसंबन्धः पुरुष इत्यादी संबन्धादिपदे ङसपदत्वादिभ्रमदशायां संब पुरुष तस्यसत्त्वेन च्यभिचारस्स्यादिति तत्तदिति नामविशेषणं तथाच तस्य सम्बन्धादिनामपदाजन्य खात्रदोषः । अथ राजपदजन्यस्य राजपदार्थप्रकारकस्य च राज्ञः पुरुषइतिवाक्यजन्यशाब्दबोधस्य पुरुषे विशेष्यतया सत्त्वेन तत्र प्रत्ययजन्योपस्थित्युभावाद्यभिचारो दुर्वारएवेति तत्तन्नामपदप्रयोज्यतत्तन्नामार्थनिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेन शाब्दबुद्धिवावछिन्नं प्रतीत्येव वक्तव्यंतथासति तत्तदितिव्यर्थ पुरुषनिष्टविशेष्यतानिरूपितप्रकारताया नामपदप्रयोज्यलाभावेन दोषाभावात् । एवञ्च कार्यकारणभावबाहुल्यमपि नग्रसज्यते नापिच राजसंबन्धः प्रमेयइत्याद्यनुपदोक्तानुपपत्तिः पुरुषनिष्ठविशेष्यतानिरूपित्तसम्बन्ध. निष्ठप्रकारतायाः सम्बन्धपदाप्रयोज्यत्वात् । किञ्च तत्सनामार्थत्यपिव्यर्थमिति चेत्सत्यं तत्तदित्यादि नोपादेयमेव सम्बन्धपदप्रत्ययपदाभ्यां यत्रैकैवोपस्थितिस्तत्रोपस्थितिविषयताद्वारकप्रयोज्यलस्य प्रत्ययनिरूपितस्येव सम्बन्धादिनामनिरूपितस्यापि पुरुषनिष्ठविशेष्यतानिरूपितविषयत्वे सत्वेनानुपपत्तिस्तु सङ्गच्छतएव । तत्तन्नामेत्यादिकंतु तत्तनामार्थनिष्टप्रकारतानिरूपितविशेष्यतासंबन्धेन तत्तनामपदजन्यशाब्दबुद्धिम्प्रति प्रत्ययजन्योपस्थितेः कारणखाभिप्रायेणोक्तमित्यवधेयम् । परेतु तत्तत्प्रकारकखविशिज्ञानस्य विशेष्यतया तत्तत्यकारतानिरूपितविशेष्यताश्रयएवसत्वमङ्गीक्रियतइति राजपदजन्यराजप्रकारकत्व विशिष्टशाब्दबोधस्य पुरुषे सत्त्वासंभवेन व्यभिचाराप्रसक्तरुक्तविवक्षायाः प्रयोजनाभावेनोक्तरीत्यातत्तदिति भवत्येव सार्थकमिति प्राहुः। प्रत्ययाधीनतत्तत्पदार्थोपस्थित्यजन्येति । राजापुरुषइत्यादिवाक्यात्प्रथमाथैकत्वविषयकस्य राजप्रकारकशाब्दबोधस्य पुरुषे प्रसझवारणाय तत्तदिति । उभयत्र तत्तदित्यस्य प्रवेशात्प्रत्ययाधीनोपस्थितिविषयलाप्रयोज्यनामार्थनिष्ठप्रकारताकशाब्दबुद्धौ हेतुत्वम्पर्यवस्यति अतएव राजसंबन्धोऽथः राज्ञः पुरुषइति बाक्यात्समूहालम्बनशाब्दवोधस्य खरूपसबन्धेन राजसंबन्धप्रकारकस्य इस्प्रत्ययजन्यसंबन्धोपस्थितिजन्यस्याश्वेन प्रसङ्गानचैवमपि राजापुरुषइत्यादौ राजपदाद्यस्यकस्य. चित्प्रत्ययाद्रहीतराजसंगतिकाच्चैकैबराजोपस्थितिरुक्तस्थलेच डस्प्रत्ययात्सम्बन्धपदाचैकैवसंबन्धोपस्थितिर्यदा जाता तदा पुरुषाश्वयोर्भेदान्वयबोधो दुरुद्धरइति वाच्यं विशेष्यपदसाकाप्रत्ययस्यविवक्षितत्वात् यत्प्रत्ययार्थस्य यत्प्रत्ययान्तार्थस्य वा यद्विशेष्येऽन्वयोविवक्षितस्तत्प्रत्ययस्यैव तत्साकाङ्कखात् । तथाच विशेष्यताविशिष्ट विशेष्यत्वस्य संसर्गत्वं फलितं वैशिष्टयंच खतादात्म्यस्खप्रयोजकाकाहाघटकप्रत्ययाप्रयोज्यनामार्थप्रकारताकखोभयसंबन्धेनेति न कश्चिद्दोषइति । वजनकज्ञानीयप्रत्ययेत्यादि । नच राजापुरुषइत्यादौ पुरुषपदाद्यस्य कस्यचित्प्रत्ययाद्गहीतसंगतिकाच यत्रैकैवपुरुषोपस्थितिस्तत्रातिप्रसङ्गोदुरिइति वाच्यं तत्तन्नामार्थप्रकारकान्वयबुद्धौ तत्तन्नामपदसाकाहप्रत्ययजन्योपस्थितेहेर्तुत्वस्य विवक्षितत्वात् । एवञ्च खीयविषयताप्रयोज्यविशेष्यप्तानिरूपितप्रकारताप्रयोजकनामसाकाहप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्टविशेष्यतासम्बन्धेन हेतुलं फलितम् । अत्रापि विशेष्यतावैशिष्ट्यपर्यन्तानुधावनं राज्ञः पुरुषइत्यादौ डस्पुरुषपदसमूहालम्बनबृत्तिज्ञानात्संबन्धपुरुषसमूहालम्बनोपस्थितेः संवन्धइव पुरुषेऽपि भेदान्वयवारणायादरणीयमिति ध्येयम् । प्रत्ययत्वस्य सङ्केतविशेषसंबन्धेन प्रत्ययपदवत्त्वस्यान्यस्य वा कथञ्चिदनुगतस्य संभवेऽपि तस्य न कारणतावच्छेदककुक्षौ प्रवेशस्सम्भवतीत्यभिप्रायवानाह । राजसम्बन्धःपुरुषइत्यादावित्यादि।

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218