Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 71
________________ गूढार्थतत्वालोकव्याख्यासहितः । मलाभावान सापेक्षता सप्रतियोगिकभिन्नत्वनिवेशाचैत्रस्य सुन्दरपुत्रोयमित्यत्र न सापेक्षता पुत्रवस्य सप्रतियोगिकत्वेन तद्भिन्नखाभवात् चैत्रस्यकृतोपकारः मैत्रस्यदृष्टपुत्र इत्यादयोऽपि प्रयोगा इष्यन्त एवेल्याहुः। तन्त्रेदमवधातव्यम्। तथपर्यालोचनया प्रधानार्थकपदसापेक्षताया भिन्नलं प्रतीयते तच्च समासाघटकपदार्थान्वितखार्थेऽप्रधानीभूतलं क्रियाभिन्नखं सप्रतियोगिकभित्रलं चेति विशेषणं प्रक्षिप्यैकोक्तिसंभवादग्राह्यम् । किंच तत्र सप्रतियोगिकत्वघटकप्रतियोगित्वं यदिविवक्षिताभेदान्यसंबन्धप्रतियोगिलं तदा चैत्रस्य दृष्टगुः-पुरुष इत्यत्र प्रधानार्थकगोपदार्थ विशेषणतावच्छेदकस्य गोः सप्रतियोगिकभिन्नत्वाभावात् सापेक्षत्वानुपपत्तिः। इष्टापत्तिस्तु न सम्भवति चैत्रस्य गोरूपमित्यस्यानिष्टतायास्तैः प्रागुक्तलात् । अत्र प्रागुक्तस्य प्रतियोगिखस्यत्वेतत्पक्षानभ्युपगम्यतायाः प्रागुक्तत्वात्तथासति प्रतियोगिपदादन्यदित्यायुक्तपक्षएव पर्यवसानापत्तेः । किञ्च क्रियात्वं यदिधातुपदबोध्यत्वं तदा कृतोपकारइत्यादिबहुव्रीही घअन्तसमुदायस्य शक्तिपक्षे चरमपदस्य तस्यैव घनः स्वरूपार्थकत्वे तस्य वोपकारघटितपदार्थलाक्षणिकतया तदर्थस्योपकारस्य धात्वर्थत्वाभावात् क्रियात्वं न स्यात् । क्रियास्वरूपभेदनिवेशे स्वारसिकतलक्षणावत्पदार्थेप्युपकारादावन्वये सापेक्षताविरहः स्यात् घनो निरर्थकत्वपक्षस्य समस्यमानस्यैव स्वपदग्राह्यतया घजन्तस्य घजश्च वृत्तिविरहेणानुपादेयत्वाद्धातोरसमस्यमानत्वात् अतिक्लेशपरिग्राह्यत्वेनैवोपेक्षणीयत्वात् । तण्डुलस्य दृष्टपाचक इत्यत्र तु सुतरामगतिः खघटकधातुवृत्तिग्रहस्य प्रकृतबोधानुकूलस्य विषयत्वं तूतलक्षणास्थलेऽपि धातुशक्तिग्रहस्यकथंचिदुपयोगित्वेन संभवदुक्तिकमपि चैत्रादिपदस्य विशेष्यपदत्वे खघटकधात्वप्रसिद्धरुपेक्षणीयम् । यदिच वृत्त्यनियामकसंबन्धस्याभावप्रतियोगितावच्छदेकत्वमनुमतं तदा तादृशस्य विषयलसंबन्धावच्छिन्नप्रधानार्थकपदाभाववत्वं क्रियाभिन्नत्वरूपं वक्तुं शक्यमिति ! इदंतुबोध्यम् । पितुः खर्गकामइत्यत्र कामनांशेऽन्वयाभ्युपगमे प्रापरिष्कृतस्य वीयवृत्तिग्रहविशेष्यत्वस्याभावादेव सापेक्षतप्रसङ्गस्यासंभवात् क्रियाभिन्नत्वमनुपादेयमेव चैत्रस्य कृतोपकारस्तण्डुलस्य दृष्टपाचक इत्यादीनामपि साधुत्वमुपपद्यत एव निरुक्तविशेष्यत्वस्योपकारपाकादावभावात् । एवं सप्रतियोगिकभिन्नत्वमपि नोपादेयम् पुत्रत्वेपि निरुक्तविशेष्यत्वाभावात् चैत्रस्यदृष्टगुरित्यत्र गोर्निरुक्तविशेष्यलस्य संभवान्न साधुताप्रसङ्ग इतिदिक् ॥ अथ समासशक्त्यस्वीकारे ब्राह्मणः पण्डितः पण्डितोब्राह्मण इत्यत्रेव पण्डितब्राह्मणइति समासेप्युद्देश्यविधेयभावेन शाब्दबोधापत्तिस्तत्प्रयोजिकाया असंसष्टोद्देश्यविधेयोपस्थित्यात्मकपृथगुपस्थितेः सत्त्वात् समासशक्त्यभ्युपगमे च पण्डिताभिन्नब्राह्मणोपस्थितौ समासशक्तिजन्यायामुभयोः संसृष्टयोरेव विषयत्वात्पृथगुपस्थितेरभावान्नोद्देश्यविधेयभावेनान्वयबोधः । अतएव वषदकर्तुः प्रथमभक्षा इत्यत्र वषदकर्तृविशिष्टभक्षायुद्देशेन प्राथम्यस्य न विधिरपितु प्राथम्य विशिष्टभक्षान्तरस्यैवेति मीमांसासिद्धान्तोऽपि संगच्छते अन्यथोद्देश्यविधेयभावे प्रयोजकपृथगुपस्थितेः सत्वात् भक्षणस्य प्रधानार्थत्वेन वषट्कन्वयेऽपि सापेक्षरवाभावात्तादृश विधाने क्षत्यभावादसंगतिः स्यात् । नचैवं लोहितोष्णीषा ऋत्विजः प्रचरन्ति सप्तदशारनिर्वाजपेयस्य यूप इत्यत्र लौहित्यसाप्तदश्यादेविधेयत्वोक्तिर्मीमांसकानामसंगता स्यादिति वाच्यम् अतिदेशादुपदेशस्य बलवत्वेनातिदेशालोचनात्त्रागुपदेशेन लौहित्यविशिष्टोष्णीषसप्तदशारनिविशिष्टयूपादिविधाने पश्चादतिदेशाकलनात्प्राप्ताप्राप्तविवेकेन लौहित्याचंश एव विधेयत्वव्यवस्थितेस्तदभिप्रायकलादुक्तोफरसंगत्यभावात् । वषट्कर्तृभक्षणस्य च प्राप्त्यभावानह्येवं तत्रापि गतिरिति चेन्न समासस्थले उद्देश्यविधेयभावेन बोधो न जायत इत्यस्य वासनामात्रविजृम्भितत्वात् सत्यां पृथगुपस्थितौ तादृशबोधाभ्युपगमे क्षत्यभावात् समासशक्त्यनभ्युपगन्तृमीमांसकानामुक्तसिद्धान्ते बीजान्तरस्यैव वक्तव्यत्वात् समासशक्त्यभ्युपगमे प्रसक्तस्य तत्पुरुषे लक्षणायाः कर्मधारये चालक्षणाया निषादस्थपत्यधिकरणीयकर्मधारयाभ्युपगममूलकनिषाद विद्योपगमसिद्धान्तमूलभूताया असंभवेन तत्सिद्धान्तविरोधस्य यथा वैदिकसमासस्थले तत्पुरुषकर्मधारयत्वान्यतरसन्देहे कर्मधारयलमेवेत्यनादिनियममूलकतात्पर्यबुद्धेः तत्सिद्धान्तमूलत्वमभ्युपेत्य निषादाभिन्नस्थपतिः समासार्थ उत निषादभिन्नत्रैवर्णिको निषादानांस्थपतिस्समासार्थ इति सन्देहे निषादभिन्नोपस्थितिकल्पनागौरवग्रहनिबन्धनकर्मधारयाधतात्पर्यबुद्धेर्वा तदभ्युपेत्य परिहारः क्रियते भवद्भिः तथास्माभिरपि वैदिकसमासस्थले समासैक देशार्थस्य विधेयत्वमुचितं विशिष्टार्थस्यवेति सन्देहे विशिष्टार्थस्यैवेति नियममूलकविशिष्टार्थविधेयखानादितात्यर्यग्रहमूलकलमुक्तसिद्धान्तस्याभ्युपेत्य वषट्कर्तृविशिष्टभक्षणस्याप्राप्तत्वेनोद्देश्यवासंभवात् भक्षणमात्रमुद्दिश्य प्राथम्यवषट्कोंविधाने वाक्यभेदप्रसङ्गन गौरवं स्यादित्यनुसन्धानमूलकविशिशिष्टविधितात्पर्यग्रहमूलकलं वा तत्सिद्धान्तस्याभ्युपेत्य सोऽस्माभिरपि परिहरणीयः वस्तुतो भवद्भिरप्ययमेव परिहारोऽभ्युपेयः । तथाहि समासशक्त्यभ्युपगमेऽपि समासघटकतत्तत्पदार्थवृत्तिप्रहसहकृतविशिष्टशक्तिग्रहजन्योपस्थितिरेव शाब्दकारणमभ्युपेयते नवीनवैयाकरणैः वाक्यात्तत्र विशेषश्च वाक्यस्थले पृथगुपस्थितयोरर्थयोः शाब्दबुद्धावेव संसृष्टतया भानं समासस्थले चोपस्थितावपीति प्रत्येकपदवृत्तिग्रहापेक्षाभ्युपगमे मूलंच समासघटकराजपदादेश्चन्द्राद्यर्थकखग्रहे नृपसंबन्धिपुरुषे समुदायशक्तरग्रहो प्रहेपि वा शाब्दबोधाननुभवः राजपुरुषपदशक्यसंबन्धित्वेन शुद्धघटादिग्रहे समासस्थलेऽविशिष्टघटादिशाब्दस्याननुभविकस्य प्रसङ्गश्च समुदायशक्तिग्रहप्रयुक्तविशिष्टविषयकत्वोपगमे च तथात्वे विशिष्टस्य प्रकृत्यर्थतया तत्र विभक्त्यर्थान्वयारस्यादिः प्राक्प्रदर्शितयुक्तिसंघातच मूलमिति

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218