Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
६६
व्युत्पत्तिवादः ।
मित्यस्य न प्रसङ्गः गवादेर्विशेषणतानवच्छेदकत्वात् । गुरुत्वसस्त्रित्वादेर्विशेषणतावच्छेदकलात् तत्र तत्रेतरान्वयेऽपि न सापेक्षता । अथान यद्यपि विभक्त्यर्थस्य संसर्गतामते लुप्तविभक्त्यनुसन्धानेनान्वयपक्षे च गोरूपं राजमाता इत्यादी गवादेन विशेषणतावच्छेदकलप्रसङ्गो नवा वृत्तिग्रहविशेष्यत्वस्य च हानिस्तथापि चात्र प्रन्थे राजादिपदस्य राजसंबन्ध्यादिलक्षणापक्षस्थाहतबारकौस्तुभेऽपि चैत्रसखिधनमित्यत्र चैत्रसंबन्धिनश्चैत्रपदार्थबमभ्युपेत्य प्रामुक्तपक्षद्वयं दूषयिला एतत्पक्षस्य परिग्रहादेतत्कल्पस्य संबन्धिलक्षणापक्षेऽपि निर्दोषवं प्रतीयते । तच न संभवति राजादेविशेषणतावच्छेदकलात् वृत्तिग्रहविशेष्यत्वाभावाच्च । तत्र समासाघटकपदार्थान्वयेऽपि सापेक्षलानुपपत्तः नच शक्तिरेव वृत्तिपदेन प्राह्येति वाच्यम् तज्ज्ञानविषयो नीलघटइत्यत्र पवित्राया गङ्गाधोष इत्यत्रच लक्ष्यार्थे नीलरूपवति गङ्गातीरे च समासाघटकपदा
न्वयेऽपि सापेक्षवाभावप्रसङ्गात् शक्तिलक्षणासाधारणवृत्तिलप्रवेशे गुरुवादेरपि गुर्वादिपदलक्षणाग्रहविशेष्यत्वसंभवादतः प्रकृतानुकूलत्वेनैव वृत्तिग्रहस्य प्रवेशनीयतया राजपदलक्ष्यार्थस्यैव शाब्दबोधे भाने लक्षणाग्रहस्यैव प्रकृतानुकूलखसंभवेन राजादेः पदार्थंकदेशवस्य दुरित्वात् । एवं शरैः शातितपत्र इत्यत्र शातनादेः पदार्थकदेशत्वकथनमपि न संगच्छते शातितादिपदानां यौगिकत्वेन तस्य वृत्तेरभावात् । नच तान्तस्य स्वपदग्राह्यत्वे क्तस्य स्वपग्राह्यतायाः संभवेन तवृत्तः प्रसिद्धतया तहाविशेष्यलाच्छातनादेानुपपत्तिरिति वाच्यम् आर्जुनियुद्धं शाबलेयरूपमित्यादौ तद्धितान्तस्य यौगिकत्वेन वृत्त्यभावात्स्वपदग्रायतद्धितवृत्तिग्रहविशेष्यखस्यार्जुनशबलादावभावेन पदार्थैकदेशलसंभवेन तत्र समासाघटकपदार्थान्वयेऽपि सापेक्षताविरहात्पाण्डवस्यार्जुनियुद्ध चैत्रस्य शाबलेयरूपमित्यादिकमपि हि साधु स्यात् तत्र शातनकर्मणः पदार्थलं कथं चिदुपपाय शासनस्य पदार्थकदेशवसमर्थनमर्जुनापत्यादेः पदार्थत्वेनार्जुनादेरपि पदाथैकदेशत्वस्य प्रसअवम् स्वखघटकवृत्तिप्रहविशेष्यत्वेन पदार्थलन्तु धातुवृत्तिग्रह विशेष्यतया शातनेष्यतिप्रसक्तमिति चेदुच्यते स्वघटितसमासप्रयोजकबुबोधयिषाविषयशाब्दानुकूलस्त्रवृत्तिग्रहविशेष्यत्वप्रवेशे न कोपि दोषः राजपदशक्तिग्रहस्यापि राजसंबन्धिलक्षणाग्रहानुकूलत्वेन प्रकृतशाब्दानुकूललात् राजादिपदशक्तिप्रविधुरस्योक्तशाब्दानुदयात् गज्ञायां घोष इत्यत्रापि गङ्गापदशक्तिलक्षणाग्रहयोरुक्तरीत्या शाब्दानुकूलतया गङ्गातीरे चान्वये भवत्येव सापेक्षता 1 गुर्वादिपदस्य गुरुत्वे लक्षणाग्रहस्तु गुरुकुलमिति समासप्रयोजकबुबोधयिषाविषयबोधस्य न कथंचिदप्यनुकूल इति तत्र नानुपपत्तिः कृदन्तस्य वपदग्राह्यत्वे कृत्प्रत्ययस्य ग्रहणसंभवेन शातनादेस्तवृत्तिग्रहविशेष्यत्वासंभवेन सापेक्षत्वविरहवदार्जुनिप्र भृतितद्धितान्तस्य स्खपदग्राह्यत्वे तद्धितस्य ग्रहणसंभवेन तद्वृत्तिग्रहविशेष्यवस्थार्जुनादावभावेन सापेक्षखविरहः समस्यमानस्य कृदन्तस्येव तद्धितान्तस्यापीष्यत एव समासासाधुखनिबन्धनो न तथाप्रयोगाभावः किन्तु तद्धितवृत्तेरसाधुतयैवताशवृत्त्यघटकपाण्डवादिपदार्थान्वितस्वार्थकत्वेनार्जुनादिपदस्य सापेक्षतया ततस्तद्धितोत्पत्तेरेवासंभवात् । नच कृदन्तस्यापि वृत्तित्वेन तदघटकशरैरिल्यादिपदार्थान्वितस्वार्थकत्वेन धातोः सापेक्षतया कृत्प्रत्ययानुत्पत्तेः शरैः शातितपत्रइत्यप्यसाधुः स्यादिति वाच्यम् कृदन्तवृत्तिसापेक्षखशरीरे वृत्त्यघटकपदे कारकपदभिन्नलस्य निवेशनीयतया तन सापेक्षवाभावाद्भवत्येव हि शरैःशातितपत्रइति साधुः । पाण्डवस्या निरिति तु न भवत्येव । अतएव दासलादौ प्रमेयादिपदार्थान्वये निरुक्तसापेक्षलस्यासंभवात्प्रमेयं दासभार्येत्यादिप्रयोगप्रसङ्गमाशङ्कय प्रमेयादिपदार्थस्य दासत्वाद्येकदेशेनान्वये प्रमेयंदासइति प्रयोगाभावेन निराकाहुतयैव तादृशप्रयोगाभाव उपपादितः चैत्रस्य गुरुर्दास इत्यादिप्रयोगात् गुरुत्वादौ चैत्रादिसंवन्धान्वयस्य साकाहत्वात् चैत्रस्यगुरुकुलमिति भवत्येव साधुः तदर्थ च सापेक्षत्वनिबन्धनसमासासाधुत्वस्य प्रसक्तस्याभावसंपत्तये सापेक्षलविरहमानं परमुपपादनीयमुपपादितं च तत्र तत्र ।
इदमत्रावधेयम् । परमःसुन्दर इत्यत्र सौन्दर्ये पदार्थकदेश एवान्वये साकाङ्कत्वमङ्गीकृतमस्तीति तत्र परमस्य सुन्दरप्रतिकृतिरित्यत्र प्रमेयं दासभार्येत्यादाविव निराकाहत्वस्य वक्तमशक्यत्वात्पदाथैकदेशेऽन्वयेन सापेक्षतस्याप्यभावात्साधुवं दुर्यारमेव, परमपदस्य प्रतियोगिपदकारकपदभिन्नत्वाच नेष्टापत्तिः स्वाभिन्न सौन्दर्यादिमत्त्वसंबन्धेन परमपदार्थस्य सुन्दरएवान्वयाभ्युपगमेन चैत्रादिसंबन्धस्यापि स्वाश्रयगुरुत्ववत्त्वसंबन्धेन गुरावेवान्वयोऽभ्युपेयः स्यादेकदेशानन्वयनियमसंकोचप्रसङ्गबीजस्य तुल्यत्वात्तथासति तत्रापि स्यात्सापेक्षता । यदिचैकत्र सापेक्षखमपरत्र न तथासमिति वैलक्षण्यायैवैकत्रैकदेशान्वयसाकाकत्वमन्यत्र न तथेति चेदुपेयते भवति तदानुपपत्तीनां परिहार इति । अथापि पितुः खर्गकाम इत्यादि प्रामाणिकवाक्यानां न साधुतोपपत्तिः स्वर्गपदस्य सापेक्षत्वेन समासानुपपत्तेरिति चेदत्रकौस्तुभकृतः षष्ट्यर्थस्य खर्गभागित्वेन विषयताविशेषरूपसंबन्धस्य कामनांशे कामपदार्थएवान्वयो हि स्वीकरणीयोऽन्यथा मुक्तपितरमुद्दिश्य प्रयुक्तस्योक्तवाक्यस्य बाधितार्थकत्सापत्तेः । नच शृङ्गीचित्रगुरित्यत्र गवाद्यंशे शृङ्गिणोऽन्वयतात्पर्ये प्रामाण्यस्य गोपदस्य प्रधानार्थकतया सापेक्षलविरहप्रसङ्गअसजितसाधुत्वस्य च वारणाय खार्थे प्रधानीभूतार्थभिन्नत्वस्यैव विशेषणतायाः प्रागुक्ततया कामनायाः प्रधानपदार्थत्वेऽपि प्रधानार्थलविरहेण सापेक्षवं दुर्वारमेवेति वाच्यम् प्रधानार्थपदस्य हि सापेक्षवं क्रियासप्रतियोगिकभिन्ने विशेषणीभूते खार्थे समासाघटकपदार्थाऽन्वये सत्येव खीकरणीयं तथासति प्रधानार्थककामपदार्थकामनाया विशेषणरूपत्वेऽपि क्रियाभि

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218