Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 68
________________ व्युत्पत्तिवादः । रूपितत्वसंबन्धेन धात्वर्थीभूतनिरुतकर्तृत्व एवान्वयो वाच्यः कारकविभक्तेर्धातुसाकाङ्क्षादुतस्य संसर्गता च व्युत्पत्तिवै चित्र्यादभ्युपगन्तव्य इति सर्वनिर्वाहानाभ्युपगन्तव्या समासशक्तिः । तथाच राजपदस्य राजसंबन्धिनि लक्षणोक्तिरुपपन्नैवेति ६४ अथ समासशक्त्यभ्युपगमे सविशेषणानां वृत्तिर्नवृत्तस्य विशेषणयोगोनेति वार्तिकस्य भवति वै नित्यसापेक्ष समास इति वार्तिक स्यचानुवादकत्वम् इतरथा विधायकत्वं स्यादिति लाघवात्समासशक्तिरभ्युपगन्तव्या तथाहि ऋद्धस्य राजमातङ्गाइति वाक्यस्य ऋद्धाभिन्नराजमातङ्गादिबोधकतायां साधुतावारकस्य पदार्थैकदेशे पदार्थान्वये वाक्यमसाधु यथा नित्योगौरिति न्यायस्यानुबादकं प्रथमं वार्तिकं राजादेः पदार्थैकदेशत्वात, भवति नित्यसापेक्ष एकदेशान्वयो यथा चैत्रस्य नप्तेति न्यायस्यानुवादकं द्वितीयं समासशक्त्यभावे राजादेः पदार्थत्वादुक्तन्यायस्य तत्राप्राप्तलात्र तथा । नच तादृशस्थलेऽन्वयप्रयोजकाकाङ्क्षाया अभावात तादृशान्वयबोधस्यैवासंभवादसाधुत्वमिति वाच्यम् समासस्थले लुप्तविभक्त्यनुसन्धानेनान्ययोपगमपक्षे सर्वदैव तदभावपक्षेऽपि यदा लुप्तविभक्त्यनुसन्धानं तदाकाङ्क्षायाः सत्त्वादन्वयबोधस्य वारयितुमशक्यत्वात् शोभने वने चरः विरूपाया दास्याः पुत्रः शुक्रे कण्ठे काल: मिताया वाचस्पतिरित्याद्यलुक्समासस्थले सहजतएवाकाङ्क्षाप्रतिपत्तेरन्वयबोधस्य दुर्वारतापत्तेः । यत्त्वनभ्युपगमेऽपि समासशक्ते राजादिपदसंबन्ध्यादौ लक्षणायाः स्वीकृतत्वेन राजादेः पदार्थैकदेशत्वादनुवादकत्वमेवोक्तवार्तिकस्येति तत्र उक्तसमासेषु विभक्त्यर्थघटितार्थलक्षणाया अनावश्यकत्वेन वनप्रभृतेः पदार्थैकदेशत्वाभावादस्मन्मते तत्रापि विशिष्टशरभ्युपगमेन वनप्रभृतेः पदार्थैकदेशत्वसंभवात् तज्ज्ञानविषयत्वं यत्र घटत्वेन घडोनास्त्यपितु नीलत्वेनैव तत्र विशिष्टान्वयस्यौत्सर्गिकत्वेन घटपदार्थे घटत्वविशिष्टे तज्ज्ञानविषयत्वस्यान्वयासंभवेन नीलपदार्थएव तदन्वयस्य विवक्षणीयतया तज्ज्ञानविषयनीलघटा इत्यस्यैव साधुत्वं नतु तज्ज्ञानविषयो नीलघटइत्यस्य । तत्रच नीलस्य पदार्थैकदेशत्वाभावात्स्यात्साधुतेत्युक्तवार्तिकस्य विधायकत्वमेव स्यात् नामार्थयोर्विभक्त्यर्थ संबन्धेनान्त्रयपक्षेतु सुतरामिति चेत्र अनन्ताप्रामाणिकशक्तिकल्पनापेक्षया विधायकत्वे गौरवाभावात् सापेक्षमसमर्थवद्भवतीति स्मृत्या समासप्रयोजकसामर्थ्यविपरीतमसामर्थ्यमतिदिशन्त्या लभ्यस्यार्थस्यानुवादकताया एवोक्तवार्तिकस्याभ्युपगमाच्च । अथ किनाम सापेक्षत्वमिति चेत् समासाघटकपदार्थान्विताप्रधानीभूतस्वार्थकत्वं प्राधान्यं च प्रकृतसमासजन्यबोधे मुख्य विशेष्यत्वं भवति चैवमृद्धस्यराजमातङ्गाः शोभनेवनेचर इत्यादेः समासःघटकर्द्धशोभना दिपदार्थान्विताप्रधानीभूतराजघनादिखार्थकत्वस्य राजघनादिपदे सत्वेन समर्थतया तस्य पुरुषादिपदेन समासासंभवेनासाधुतया प्रयोगानलम् । अन्वितत्वं चान्वितत्वेन तात्पर्यविषयत्वं तेन ऋद्धस्य राजमाता इत्यत्र राज्ञः सर्वदैव ऋद्धान्विततया ऋद्धान्वितत्वेन तात्पर्याविषयत्वे सत्यपि सापेक्षत्वस्य न प्रसङ्गः । अप्रधानीभूतेति विशेषणात् शोभनोराजपुरुषइत्यत्र पुरुषपदस्य न सापेक्षत्यप्रसङ्गः । नच दर्शनीयं राजपुरुषमानयेत्यादौ पुरुषस्य मुख्यविशेष्यत्वाभावात्सोपक्षत्वं स्यादिति वाच्यम् समासजन्यावान्तरवाक्यार्थबोधे मुख्यविशेष्यत्वस्य पुरुषे संभवात् । यदि चावान्तरवाक्यार्थबोधस्य पुरुष मात्र विशेष्यकस्य न संभवः निर्विभक्तिकस्य राजपुरुषपदस्य निराकाङ्क्षत्वा दमन्तस्य तदुपस्थितकर्मत्वविशेष्यकबोधसा कालत्वेन तद्विशेष्यकबोधस्यैव संभवात् अमन्तत्वग्रहेऽपि यत्र प्रागमः कर्मत्वानुपस्थितौ कथञ्चित्पुरुषमात्र विशेष्यकबोधोत्तरं तदुपस्थितेस्तद्विशेष्यको बोधस्तत्र तथासंभवेऽपि विशेष्ये विशेषणमिति रीत्या शाब्दबोधस्य तात्पर्यविषयत्वस्धले वान्तरशाब्दबुद्धेरनपेक्षितलेन तत्रोक्तप्रसङ्गस्य दुर्वारत्वात् शाब्दबोधसकलकारणस्य तदव्यवहितपूर्वक्षणे संपत्तेः सौकर्याय विशेष्ये विशेषणमिति रीत्या शाब्दबोधस्य व्यवस्थापितवादिति विभाव्यते तदापि समासघटकपदप्रयोज्यविशेष्यतानिरूपित प्रकारत्वानवच्छिन्न विषयत्वस्य प्राधान्यरूपत्वं वकुं शक्यं पुरुषस्य समास बहिर्भूतद्वितीयार्थे कर्मले प्रकारत्वात्प्राधान्यम् नित्यसापेक्षस्य समासाघटकपदसापेक्षत्वेऽपि नासामर्थ्यम् । तेन चैत्रस्य गुरुकुलं चैत्रस्य दासभार्या देवदत्तस्य पुत्रधनं पितृधनं नप्तृधनम् शरैः शातितपत्र इत्यादी गुरुशातितादिपदस्य सापेक्षतायामपि नासामर्थ्यम् गुरुत्वादेः सनिरूपकत्वेन शातनादेः क्रियारूपत्वेन प्रतियोगिकारकाभ्यां नित्यसापेक्षलात् । नित्यसापेक्षतांच स्वार्थान्वय्यर्थजिज्ञासात्म काकाङ्क्षानियततत्प्रतिबन्धकविरह सहकृत स्वार्थप्रतिपत्तिकत्वम् । गुर्वादिपदार्थज्ञाते असति च प्रतिबन्धके कस्य गुरुर्दासः पुत्रोवेत्यादिजिज्ञासायाः शातितादिपदाच्छातनादिक्रियाज्ञाने कैरित्यादिकरणकारकजिज्ञासाया नियमेनोत्पादागुर्वादिपदस्य तथात्वम्, अत्रानुभववैलक्षण्यादुक्तसापेक्षत्वशरीरे नित्यसापेक्षस्थले तद्वारक विशेषणानामप्यस्ति वैलक्षण्यम् । तत्र केचिदाहुः समासाघटकपदार्थान्वितेत्यत्रान्वयस्तादात्म्यरूपो ग्राह्यः ऋद्धस्य राजमातङ्गा इत्यत्रर्द्धपदार्थस्याभेदेन वान्वयस्य विवक्षितत्वात्सापेक्षलम् चैत्रस्य गुरुकुलमित्यादौ गुरुपदार्थे समासबहिर्भूतपदार्थस्य चैत्रनिरूपितत्वादेर्भेदेनैवान्वयान सापेक्षलम् प्रमेयादिपदार्थस्य गुरुत्वदासत्वादिपदार्थेऽभेदेनान्वय विवक्षायां प्रमेयं गुरुकुलं दासभार्येत्यादौ सापेक्षता भवत्येव प्रमेयस्य गुरुकुलमित्यादिकं प्रभेयनिरूपितत्वान्वितगुरुत्वादिबोधतात्पर्यकमभ्युपेयत एव साधुतया परन्तु प्रमेयत्वादिसामान्यधर्मेण चैश्रादेर्गुरुत्वादिनिरूपकस्यावगतेर्जिज्ञासा निवर्तकत्वाभावेनाप्रतिपित्सितत्वात्तत्प्रतिपादकवाक्यप्रतिपादयिता निगृह्यत एवेत्यप्रयोगः । नच नित्यसापेक्षस्यासामर्थ्याभावप्रतिपादनादाभियुक्तादसामर्थ्यप्रयोजकसापेक्षत्वशरीरेऽन्वयस्याभेदात्मकत्वं कथं लभ्यत इति वाच्यम् योत्यभेदेन स्वान्वय्यर्थः स्ववात्मैवेति स्वपरिच्छेदाय स्वरसतः स्वरूपतो नापेक्षणीयः अपेक्ष्य

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218