Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 66
________________ व्युत्पत्तिवादः । - अथ समर्थः पदविधिरिति सूत्रापेक्षितं सामर्थ्य न निरूप्यनिरूपकभावापन्न विषयताकशाब्दबोधप्रयोजकाकालाशालिवरूपव्यपेक्षात्मकमपितु एकधर्मावच्छिनशक्तिमत्त्वरूपैकार्थीभावात्मकमेव लाघवादिति शक्तिः समासादिवृत्ताववश्यमभ्युपगन्तव्येति राजपदस्य राजसंबन्धिलक्षणाभ्युपगमो निरर्थकः शक्त्यैव राजसंबन्धविशिष्टपुरुषादिबोधसंभवात् । तथासति समासविग्रहवा. क्ययोः समानार्थकलमप्यौत्सर्गिकं निराबाधमवतिष्ठते, नापि नामार्थधात्वर्थयोभैदेनान्वयनियमस्यापि काचिदपि हानिः । नच समासावयवप्रत्येकपदात्कुप्सशक्तिकाच्छत्या लक्षणया वा बुभुत्सितार्थबोधसंभवेऽतिरिक्तशक्तिर्न कल्प्या घनन्यलभ्यो हि शब्दार्थ इति वाच्यं । शक्त्यभावे हि प्रातिपदिकसंज्ञा प्राचीन विभक्तिलोप विभत्यन्तरोत्पत्त्यादिकार्य न स्यात् अर्थवदिति सूत्रेऽर्थवत्त्वस्य वृत्तिमत्वलक्षणस्यैव सद्भावात् । नच कृदादिसूत्रेण प्रातिपदिकसंज्ञा तस्यास्विति वाच्यं कृत्तद्धितेत्यादिसूनेपि तदनुवृत्तरावश्यकत्वेन शक्त्यभावे समासादेः प्रातिपदिकसंज्ञायास्ततोऽन्यसंभवात् । नचोत्तरसूत्रे तदनुवृत्तिना प्रेक्षणीयेति वाच्यम् कृत्तद्धितशब्दाभ्यांहि कृत्तद्धितान्ती चिवक्षितौ तादृशविवक्षाग्राहकच तत्तत्पदस्य विशेषणपदत्वं तच विशेष्यपदं विना नोपपद्यत इति विशेष्यसमर्पकस्यार्थवदित्यस्यानुवृत्तिरावश्यकी विशेष्यसमर्पकपदान्तरकल्पनायामथैवदित्यस्य निरर्थकलप्रसङ्गानिरर्थकस्य सार्थकधालादिपर्युदासेनैव व्यावृत्तेः पर्युदासे नजस्तत्सदृशतद्भित्रबोधकत्वात्सादृश्यस्यार्थवत्वस्यैवादरणीयलात्। नच व्यर्थमेवास्थितिवाच्यम् उत्तरपदे हि कस्यचिद्विशेष्यपदस्य कल्पनीयत्वेऽर्थवदित्यस्य तथात्वे पूर्वसूत्रस्थत्वे च सति ननोभेदमात्रार्थकलस्यैव वाच्यत्वेन लाघवात् । वस्तुतः कृदादिसूत्रस्य विधायकत्वमेव नास्ति । नच कथं न तस्य विधायकलमिति वाच्यं तथासति कृहणे गतिकारकपूर्वस्यापि ग्रहणमिति परिभाषया मूलकेनोपदंशमित्यन्तवाक्यग्रहणापत्त्या तस्यापि प्रातिपदिकसंज्ञापत्तेः तदन्तपरिभाषया तद्धितग्रहणे तद्धितान्तस्यैव ग्राह्यत्वेन बहुगुडादिपदे प्रातिपदिकसंज्ञानुपपत्तेश्च तद्धित. ग्रहणे तद्धितविशिष्टस्यैव हि ग्राह्यत्वे पचतकीत्यादिमध्यस्थिततद्धितकेऽपि प्रातिपदिकसंज्ञा स्यात् एवञ्च कृदादिसूनं येषां पूर्वसूत्रेणार्थवतां धातुभिन्नप्रत्ययभिन्नानां प्रातिपदिकसंज्ञा विहिता तेषां परिगणनत्वेन तत्प्रपश्चमात्रमिति न ततः समासस्य प्रातिपदिकसंज्ञा संभव इति चेन्न अर्थवदितिसूत्रेऽर्थवत्त्वं न बृत्तिमत्त्वमपितु वृत्तिमदविषयकप्रतीत्यविषयखमेव वाच्यानच तत्र गौरवम् अनन्तसमासेष्वनन्तशक्तिकल्पनापेक्षया लाघवस्यैव सत्त्वाताएवंच वृत्तिमत्संघातरूपे कृत्तद्धितान्तपूर्वविहिततद्धितकसमासादौ वृत्तिं विनैवार्थवत्त्वस्य सद्भावात्प्रातिपदिकसंज्ञानुपपत्त्यभावात् वृत्तिमद्विषयकप्रतीतिविषयखन्तु समूहालम्बनमादाय निरर्थकेऽपि स्यादिति निषेधव्यगर्भता अत्र प्रत्ययान्तपर्युदासश्चेत्कृदन्तादीनां नस्यात्प्रातिपदिकसंज्ञा नचेत्सुबन्ततिङन्तादीनामपिस्यादिति प्रत्य यान्तस्यचेत्प्रातिपदिकसंज्ञा कृत्तद्धितान्तयोरेव वाक्यस्यचेत्समासस्यैवेति नियमार्थ कृदित्यादुत्तरसूत्रं कर्तव्यमेव इतरथा वृत्तिमत्त्व. स्यार्थवत्वरूपत्वे कृत्तद्धितान्तसमासादीनामर्थवत्त्वात् सुप्तिडन्तवाक्यानामतथाखात्प्रातिपदिकसंज्ञातदभावयोःसंभवात्प्रत्ययान्तपर्य दासस्यास्मत्पक्षइव तयाप्यकर्तव्यत्वस्य तुल्यत्वेऽपि कुदित्यादिसूत्रस्य व्यर्थलमनिटमापनं स्यादिति । न चैवं धनं वनमित्यादौ प्रत्येक वर्णस्य प्रातिपदिकसंज्ञा स्थानान्तभागस्यापि तत्संभवात्तत्प्रयुक्तो नकारलोपत्र स्यादिति वाच्यं समुदायशक्त्या ह्यर्थवत्त्व विवक्षितमवयवशक्त्या वा। नाद्यः तादृशशक्तिमत्समुदायाविषयकप्रत्येकविषयक प्रतीतिविषयत्वात्प्रत्येकस्य नान्यः शाब्दवोधानुकूलपदार्थोपस्थितिजनकवृत्तेरेव प्रवेश्यवात्समुदायघटकप्रत्येकवर्णशक्तेः शाब्दानुकूलपदार्थोपस्थित्यनाधायकखात् । नच विबन्तधातोः प्रातिपदिकसंज्ञा न स्यात् क्विपो लुप्तबाद्विद्यमानस्य धातुभिन्नत्वाभावादिति कृदित्यादिसूत्रं विधायकमेवाभ्युपगन्तव्यमिति वाच्यम् काल्पनिकविभक्त्यादिविशिष्ट राजन्हस्पुरुषसुइत्यलौकिकप्रक्रियावाक्ये समाससंज्ञाया इव काल्पनिकक्विवन्तखमादाय धातु. भिन्नत्वस्य संभवात् । यत्तु कृदन्तस्य धातुप्रत्ययसंघातात्मकत्वेन कथं धातुप्रत्ययभिन्नत्वस्य तत्र संभव इति ! नच धातौ प्रत्ययभेदस्य प्रत्यये धातुभेदस्य च सत्त्वेन संघाते भेदद्वयसंभव इति वाच्यं धातुघटकप्रत्येकवर्षे धातुलावच्छिन्नभेदस्य सत्त्वेन धातोरपि धातुभित्रलापत्तेरिति तदेतद्भेदप्रतियोगितावच्छेदकधातुलप्रत्ययलादिकं तद्धटकसाधारणं निरुच्य समाधेयम् । यद्पविशिष्टावच्छिन्नस्य प्रातिपदिकसंज्ञा विवक्षिता तद्रूपे धातुलादिपदजन्यवोध विषयखप्रकारतानिरूपितपाणिन्यादिसंकेतीयविशेष्यतावच्छेदकतालावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकरूपभिन्नलमुपादेयमिति कृदन्तादिगतानुपूर्वी वृत्तिसमुदायत्वे धातुकृदादिवृत्त्यानुपूर्वीवृत्तिरूपभिन्नलस्य सत्त्वेन न कोपि दोष इति । - अथापि समासशक्तिरवश्यमभ्युपगन्तव्याऽन्यथा चित्रगुरित्यादौ चित्राभिन्नगोस्वामिबोधस्थानुपपत्तिः । तथाहि गोपदस्य गोस्वामिलक्षकत्वे गोःपदार्थैकदेशत्वेन तन्त्र चित्रापदार्थान्वयस्यासंभवः । नच गोपदमेव चित्राभिन्नगोखामिलक्ष चित्रापदं तात्पर्यग्राहकमिति वाच्यम् एकार्थीभावरूपसामर्थ्याभ्युपगमे व्यपेक्षारूपसामध्यस्यव समासप्रयोजकत्वेन चित्रापदप्रयोज्यविषयत्वस्य तत्राभावे व्यपेक्षाया अप्यसंभवात् समासानुपपत्तेः । नापि गोपदस्य शक्त्या गौरर्थः लक्षणया च स्वामी तत्र स्वामिविशेषणतापनगवि चित्रापदार्थान्वयस्तथासति नैकदेशान्वयप्रसङ्गः नवा व्यपेक्षाहानिरिति वाच्यं युगपद्दत्तिद्वयाननीकारात् प्रातिपदिकार्थयोगिोखामिनोभैदेनान्वयस्याव्युत्पन्नत्वाच । नवा चि. अपदगोपदयोश्चित्राभिन्नगोखाम्यर्थः पदार्थयोश्च तादात्म्येनान्वयः । अतएव सर्वलाक्षणिकवाद्बहुव्रीहेस्तत्पुरुषापेक्षयाजघन्यलप्रवाद इत्यपि युक्तम् तादात्म्येनान्वयप्रयोजकविरूपोपस्थितेरभावात् । नच विरूपोपस्थित्यर्थ चिन्नपदस्योक्तखाम्यर्थः

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218