Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
गूढार्थतत्वालोकव्याख्यासहितः ।
करण्यपदार्थोऽत्र विवक्षणीयस्तथासत्येकवविशिष्टनीलाधभिभघटादिबुबोधयिषया प्रयुक्त नीलघटादिकर्मधारये विवक्षितसा. मानाधिकरण्यस्य स्वोत्तरमुत्पत्तियोग्यप्रथमार्थकखावच्छिन्नलक्षणां विना निर्वाहासंभवादन्याप्तिः स्यादिति विभक्त्यर्थे स्वा
न्वितत्वं विशेषणं देयं । तथाच प्रकृत्यान्वितैकत्वावच्छिन्ने लक्षणाभावान्न दोषः । अथ नीलवृत्त्येकलावच्छिनलाक्षणिकनीलपदघटितकर्मधारयेऽव्याप्तिः तत्र लक्षणाया नीलपदार्थान्वितविभक्त्यर्थैकलावच्छिन्ननिरूपितत्वात् । किंच स्वोत्तरमुत्पत्तियोग्यवं प्रातिपदिकप्रकृतिकत्वं स्वोत्तरत्वेनानुसन्धीयमानत्वं वा । नप्रथमः सुबर्थावच्छिन्नेत्यस्यैव वक्तुमुचितत्वात् न द्वितीयः अव्यावर्तकत्वेन व्यर्थखापातात् समासविशेषत्वनिश्रयाधीननिश्चयकत्लेन समासविशेषलक्षणे प्रवेशानहलाच । नच तन्नोपादेयमेव प्रयोजनाभावादिति वाच्यं कुलालस्यघटइति विग्रहवाक्यात्कुलालसंबन्धिवेनैव घटः प्रतीयते नतु कुलालकर्तृकलेन कुलालेनघट इत्यतोऽपिन तथा प्रतीयत इति कुलालकर्तृकलाक्षणिककुलालादिपदघटितकुलालघटादिपदस्य कर्मधारयखमेवं ग्रामस्यगतः विधिनाश्रितः विधेःश्रित इत्या दिवाक्यानां निराकासत्वेन ग्रामसंबन्धित्वेन गमनकर्तुः विधिकर्तृकत्वेन श्रयणकर्तुः बोधाय तत्र तदर्थलक्षणायामाश्रितायां प्रामगतविधित्रितादीनां कर्मधारयलमेव तत्रचाव्याप्तेरतिव्याप्तेश्च कर्तृलादेः मुरर्थत्वादिति चेदुच्यते स्वघटकविशेष्यपदप्रयोज्यविषयतावच्छेदकतापर्याप्त्यधिकरणधर्मपर्याप्तावच्छेदकताकविषयतानिरूपिताकाङ्क्षाप्रयोज्यसंसर्गतानिरूपितविषयताप्रयोजकाकाड्डाघटको यः स्वघटकविशेषणपदार्थतावच्छेदकावच्छित्रविषयताप्रयोजकपदाव्यवहितोत्तर विभक्तिवृत्यानुपूर्वी रूपो धर्मस्तद्धर्मावच्छिन्नविषयताकनिश्चयखावच्छिनकारणतानिरूपितकार्यतावच्छेदकतादृशानुपूर्व्याश्रयविभक्त्यर्थवृत्तिविषयतावच्छेदकावच्छिन्नोऽत्र विभक्त्यर्थेत्यन्तार्थः । तथाच नीलोनीलमित्यादि सवि. भक्तिकपदवृत्तिनैकाप्यानुपूर्वी नीलविशिष्टैकलमर्थ बोधयितुमलमिति न तादृशैकलस्य तादृशविषयतावच्छेदकावच्छिअलसंभवः संभवश्च नीलकर्मवादेतदवच्छिनलक्षणां विनैव च विवक्षितसामानाधिकरण्यनिर्वाहानीलघट इत्यादिकर्मधारये लक्षणसमन्वयः । एकलविशिनीलविशिष्टलाक्षणिकनीलादिपदघटितनीलभूतलादिकर्मधारये एकलविशिष्टनीलरूपविभक्यर्थान्तार्थमादायाच्याप्तिवारणाय तादृशानुपूर्व्याश्रयविभक्त्यर्थवृत्तित्वेन विषयता विशेषिता गमनश्रयणादिकतखावच्छिन्नविषयता निरूपितविषयताप्रयोजिका चाकाङ्का न ग्रामस्यगतो विधिनाश्रितो विधेःश्रित इत्यादिसममिव्याहारात्मिका किन्तु ग्रामंगतो विधिश्रित इत्यादिसमभिव्याहारात्मिकैव तद्धटकत्वं च नास्ति ग्रामस्थ विधिनेत्यादेरिति ग्रामसंबन्धविधिकर्तृत्वादेरुक्तविषयतावच्छेदकावच्छिन्नलविरहालक्षणसमन्वयः एवं कुलालेन घटइति समभिव्याहारस्यापि घटलावच्छिन्नविषयता निरूपितविषताप्रयोजकाकाडाखाभावात्कुलालकर्तृत्वस्याप्युक्तविषयतावच्छेदकावच्छिन्नवस्य न संभव इति तत्रापि लक्षणसगतिः गमनत्वश्रयणवाद्यवच्छिन्नविशेष्यतानिरूपित विषयताप्रयोजकाकासालस्य ग्रामस्यगमनं विधिनाश्रयत इत्यादिसमभिव्याहारस्य सत्त्वेन तद्धटकत्वस्य ग्रामस्यविधिनेत्यादेः सत्त्वेऽपि विशेष्यपदार्थतावच्छेदकतापर्याप्त्यधिकरणगमनश्रयणकर्तृखलावच्छिन्नलस्योक्तविशेष्यतायां बिरहानाव्याप्तिसंभावना । नच ग्रामगत इत्या ग्रामकर्मकस्य गमनएवान्वयेन गमनकर्तृवावच्छिन्ना नास्ति विशेष्यता अपितु गतलावच्छिन्नैवेति भवत्येवाव्याप्तिरिति वाच्यम् खप्रयोजकबुबोधयिषानिरूपिताकालाप्रयोज्यसंस
खतनिरूपितप्रकारलतदवच्छेदकत्वाद्यवृत्तिविषयतावच्छेदकतापर्याप्यनुयोगितावच्छेदकरूपवृत्तिबुबोधयिषानिरूपितविषयतावत्त्वेन विशेष्यताया उपादेयत्वात् । बुबोधयिषायां रूपवृत्तिखंच निरुक्ताबृत्तित्व विशेषितस्वीयविषयतावच्छेदकतालावच्छिन्नपर्याप्यनुयोगितावच्छेदकलसंबन्धेन । तथाच स्वप्रयोजकबुबोधयिषायाः उक्तावृत्तित्वविशेषितविषयतात्वं गतित्वकर्तृत्वाद्यवच्छिन्न विषयतालावच्छिन्न विषयल एव तदवच्छेदकतापर्याप्त्यनुयोगितावच्छेदकगमनखकर्तृवाद्यवच्छिन्नख विषयतात्वगतसमुदायत्रबृत्तियुबोधयिषाविषयीभूता कर्तृविषयतानिरूपितगमनविशेष्यतैवेति न दोषः स्वप्रयोज्यशाब्दबोधीयसंसर्गत्वाद्यन्यविषयतावच्छेदकता. पर्याध्यनुयोगितावच्छेदकरूपत्तिमुख्य विशेष्यताद्वयशून्यशाब्दबोधनिरूपितत्वेनापि कथञ्चिद्विशेष्यखोपादानं संभवदुक्तिकमिति बोध्यम् । अत्र स्वघटक विशेषणपदप्रयोज्यलमुपेक्ष्य विशेषणपदार्थतावच्छेदकावच्छिन्नत्वेन निवेशात् , सुजनः प्रपुरुषइत्यादेरविग्रहत्वेऽपि शोभनोजनः प्रकृष्टगतः पुरुष इत्यादिविग्रहह्मादायैव लक्षणसङ्गतिः सुजनादिनित्यसमासे कर्मधारयस्य वेलामतिकान्तइत्यादिविग्रहमादायातिचेलादिनित्यसमासे तत्पुरुषस्येति एतद्दलस्यापिच परिष्कारो दर्शितप्रकारजातीयः खयमूहनीयः । नचार्धपिप्पल्यादिसमासे उत्तरपदस्य समुदायलक्षकलं विभक्त्यर्थान्वयानुरोधेन स्वीकरणीयमिति तत्र तत्पुरुषलक्षणाव्याप्तिः पदयोः सामानाधिकरण्याभावादिति वाच्यम् एतदखरसेनैव विनैव समुदायलक्षणां विभक्त्यर्थान्वयस्य वस्तुतस्वित्यादिना प्राक्समर्थिततया दोषाभावात्। एवं रावंदले प्रकृतलक्षणस्य परिष्कृतस्य स्खलघटितत्वेनाननुगतस्यानुगमनं सुकरमेचेत्युपेक्ष्यते । इदन्तुबोध्यम् घनश्यामादीनां घनसदृशलाक्षणिकविशेषणपदघटितानां कर्मधारयलमेव । एवमन्येषां ब्यालोरीकृत्यादीनामुक्तलक्षणानाक्रान्तानां येषामस्ति तत्पुरुषप्रकरणे विहितं समासवं तेषां गौणमेव तद्बोध्यम् । अघटादिनसमासे प्रथमायाः प्रतियोगिलार्थकत्वे मुख्य तत् इतरथा तत्रापि तद्गौणमेव । वस्तुतस्तु तादृशलक्षणप्रयुक्तसामानाधिकरण्यघटितं न तत्पुरुषलक्षणमपितु तादृशलक्षणानपेक्षसामानाधिकरण्याभावघटितमित्युक्तसमासेषु सामानाधिकरण्यरूपविशेष्य विरहालक्षणसमन्वयः सामानाधिकरध्यविधुरसमासान्तरातिव्याप्तिश्च तत्तदन्यत्व विशेषणेन वारणीया कर्मधारयलक्षणे हि शब्दशक्तिप्रकाशिकायां द्विग्वव्ययीभावभिन्नत्वमस्त्युपात्तमित्येषा दिक् ।

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218