Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 42
________________ व्युत्पत्तिवादः । गौरवविरहात् सत्र विशेषणविभक्तेर्वृत्तिकल्पनमनुचितम् । न च यत्राभेदे विशेषणविभक्तेः शक्तिभ्रमः स्वारसिकलक्षणाग्रहो वा तत्र सर्वमतएवाभेदप्रकारकबोधस्य नीलोघट इत्यादिवाक्यादुत्पत्त्या तादृशसमभिव्याहारज्ञानस्य द्विविधबोधे हेतुताद्वयं कल्पनीयम् अभेदस्य संसर्ग ३८ प्रतिपत्त्यनुपपत्तिरहितवाक्यघटकत्वे सत्यवर्जनीयप्रयोगत्वेन हेतुना निर्दुष्टेन साधनीयस्य निरर्थकलस्य प्रामाणि कतया न दोषत्वमित्यत्र तात्पर्यान्न संदर्भविरोध इति गृहाण । हेतुप्रसिद्धिन यथा तथानुपदमेव व्यक्तीभविष्यति । नच दिवादाभ्यासिता विशेषणविभक्तिरर्थवती विभक्तित्वादितरविभक्तिवदित्यनेन सत्प्रतिपक्ष इति वाच्यं पक्षएव व्यभिचारसन्देहेनातुल्यबलत्वात् । नच स्थापनानुमानेऽपि सोस्तीति वाच्यं नृत्यकल्पनालाघवतर्केण प्रतिरोधकशक्तिविगमादिति ध्येयम् । गौरवविरहादिति । इदं च भिन्नविषयकप्रत्यक्षंप्रति भिन्नविषयकशाब्दसामग्रीप्रतिबन्धकतालाघवं वक्ष्यमाणमव्यवहितोत्तरवस्य प्रतिबध्यतावच्छेदककोटौ प्रवेशमाहत्य शाब्दसामग्री मदन्यप्रत्यक्षप्रति शाब्दसामय्याः सामान्यतः प्रतिबन्धकताकल्पनेन तिरस्कुर्वतो मतेनोक्तमिति बोध्यम् । अग्रेचाव्यवहितोत्तरत्वस्य प्रतिबन्धकाभावकार्यतावच्छेदककोटौं प्रवेशस्य निर्युक्तिकल माकलय्या भेदस्य प्रकारत्वं स्वीकुर्वतो मतेन विशेषणविभक्तेरभेदार्थ कत्वमतेऽपियद्यप्युक्तरीला लाघवं सम्भवतीत्यायुक्तिरिति वेदितव्यम् । नचाव्यवहितोत्तरत्वस्य कार्यतावच्छेदकाघटकत्वे न किमपि मानं कार्यतावच्छेदकघटकत्वे तु लाघवमेव तदिति वाच्यं सर्वस्य कार्यकारणभावस्य प्रवृत्तिनिवृत्तिफलकत्वेनाव्यवहितोत्तरत्वस्य कार्यतावच्छेदकघटकत्वस्थ ले तत्तत्कारणफलविशेषस्यानिर्णयेनेष्टविशेषसाधनत्वज्ञानस्यासंभवात्तदधीनप्रवृत्त्यनुपपत्तेरेव तत्र मानवात् । अव्यवहितोत्तरत्वस्य कार्यतावच्छेदकघटकलं तु तत्रैव यत्र गत्यन्तरविरहः अतएव वैजात्येन संभवत्कार्यभावस्य वहेर्न तृणाद्यव्यवहितोत्तरलादिना कॢप्तेन कार्यत्वं । नचैवमाकाङ्क्षाज्ञानाद्यव्यवहितोत्तरत्वस्य कार्यतावच्छेदकत्वं न स्यादिति वाच्यं तत्र वैजात्येन साङ्कर्ययाधितेन गतेरसंभवात् । साङ्कर्ये चाकाङ्क्षाद्वयज्ञानाव्यवहितोत्तरशाब्दबोधे सामानाधिकरण्यस्यैकैकाकाङ्गाज्ञानोत्तरशाब्दबोधे परस्परव्यावृत्तत्वस्य सत्वेन बोध्यमितिदिक् । द्विविधबोधे हेतुताद्वयं कल्पनीयमिति । ननु पर्यायघटितवाक्यजन्यबोधे व्यभिचारवारणाय कारणानन्तर्यस्य कार्यतावच्छेदकलमवश्यं वाच्यं तथा च सति विषयत्वस्य तथात्वे प्रयोजनाभावोऽतएव भेदान्वयबोधविचारप्रसङ्गे उक्ताभेदान्वयबोधे तथा विधानुपूर्वीत्यादिवक्ष्यमाणमपि संगच्छत इति कथं कारणत्वद्वैविध्यमिति । नन्वोपस्थितिविशिष्टज्ञानत्वेन तत्रय सकलाकाङ्क्षाज्ञानानामेकरूपेणैव कारणत्वं लाघवादुपेयं वैशिष्ट्यं च स्वविशिष्टस्वत्वावच्छिन्न विषयतानिरूपित विषयताकत्वसंबन्धेन । वैशिष्ट्यं च स्त्रीय नीलत्वावच्छिन्नविषयताप्रयोजकरृप्तिनिष्टविषयतानिरूपितविषयतावच्छेदकतापर्याप्त्यधिकरणानुपूर्व्यवच्छिन्नविषयतानिरूपितखत्वावच्छिन्न विषयतानिरूपितत्वस्वकालीनोपस्थितीय घटत्वावच्छिन्नविषयताप्रयोजकवृत्तिनिष्टविषयतानिरूपितविषयतावच्छेदकतापर्यात्यधिकरणानुपूर्व्यवच्छिन्नत्वोभयसंबन्धेन बोध्यम् । तथासति कारणानन्तर्यस्य कार्यतावच्छेदकत्वाभ्युपगमे प्रयोजनाभावात् कार्यद्वैविध्येन दुर्वारमेव कारणताद्वैविव्यमिति वाच्यं तत्तद्वर्णत्वेन पदार्थान्तरावगाहिवृत्तिज्ञानीय विषयतावच्छेदकत्वस्य भ्रमात्मकाकाङ्क्षाज्ञानविषयत्वावेच्छदकत्वस्य च विशिष्टानुपूर्व्यामभावात् यत्किंचिदेकधमीवच्छिन्नविषयताकत्वस्याकारणज्ञानेपि सत्वात् साक्षात्परम्परासाधारणनिरूप्यनिरूपकभावानभ्युपगमे वृत्तिविषयतानिरूपितवर्णत्वव्याप्यधर्मावच्छिन्नस्वप्रयोजकविषयतात्वव्यापकस्वत्वावच्छिन्नविषयताकत्वादिसंसर्गस्याप्युक्तेरसम्भवात् स्वावच्छेदकावच्छिन् त्यसंबन्धेन खनिरूपितविषयतावत्यस्य व्यापकताघटकसंसर्गस्यासंभवात् नीलपटवान् घट इति समभिव्याहारज्ञानस्य कार णत्ववारणाय सामनैययोपादाने च तादृशनिरूप्यनिरूपकभावाभ्युपगमेऽपि घटादिपदघटकवर्णविषयतान्तर्भावेण व्यभिचारप्रसंङ्गेन संसर्गासंभवात् कथंचिन्निवेशस्य संभवेप्यप्रामाण्यज्ञानाभावनिवेशानुरोधेन कारणतावच्छेदकभेदस्योपेयत्वात् नीललावच्छिन्नविषयतानिरूपिततादात्म्यत्वावच्छिन्नविषयतानिरूपितघटत्वावच्छिन्नविषयताकत्वस्यैकस्य कार्यतावच्छेदकत्वस्यापि च संभवात् । नचैवं कालिकेन तादात्म्ये नीलावगा हिशाब्दबोधस्यापत्तिस्तस्याप्युक्तरूपवत्वादाधेयत्व संबन्धावच्छिन्नत्वोपादाने तादात्म्य संसर्गकबोधासंग्रह इति वाच्यम् तादात्म्यत्वावच्छिन्नविषयतायामाधेयत्व संबन्धातिरिक्तसंबन्धानवच्छिन्ननीललावच्छिनविषयत्वानिरूपितत्वतादात्म्यसंबन्धातिरिक्तसंबन्धानवच्छिन्नतादृशविषयत्वानिरूपितत्वोभयाभावस्य विवक्षितत्वात् नीललावच्छिन्नविषयतायामेव वाधेयत्वसंबन्धातिरिक्तसंबन्धावच्छिन्नलतादात्म्यत्वावच्छिन्न संसर्गलानिरूपितत्वोभयाभावस्य विवक्षितत्वात् खरूपसंबन्धातिरिक्तसंबन्धानवच्छिन्नत्वस्य तादात्म्यविषयतायां निवेशेनच कालिकेन तादात्म्यप्रकारकबोधव वारणीयः । यत्तु स्वखरूपिखरूपादिपरम्परासंबन्धघटकाद्यखरूप संसर्गतायाः स्वरूपत्वमात्रावच्छिन्नत्वे तत्संसर्गकबोध संग्रहतादात्म्यत्वावच्छिन्न विषयतानिरूपितस्त्ररूपत्वावच्छिन्न विषयतानिरूपित घटत्वावच्छिन्न विषयखोपादाने च तादात्म्यसंसर्गकवोधासंग्रह इति तत्र तादात्म्यविषयतायां घटत्वावच्छिन्नविषयतानिरूपितस्वरूपत्वावच्छिन्नसंसर्गला निरूपितत्रतादात्म्यत्वावच्छिन्नसंसर्गताभिन्नत्वोभय'भावस्यापि विशेषणीयत्वात् । परम्परासंसर्गस्थले चकसंसर्गस्य प्रकारत्व विशेष्यलोभयानिरूपितत्वादिति चेन्न कारणानन्तर्यमानस्य कार्यतावच्छेदकतायाः प्रागेव निराकरणात् विषयत्वस्यावच्छेदकत्वे च प्रसङ्गः

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218