Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
न्युपत्तिवादः ।
रक्तदण्डवानित्यादौ तादशशाब्दबोधस्य प्रसिद्धिः विधेयकोटावधिकावगाहिनः शाब्दबोधस्य नवीनैः स्वीकारादिति चेत्तर्हि घटाद्यंशे विशेषणतावच्छेदकविधया नीलादिभाननियामकनीलाधुपस्थितितात्पर्य ज्ञानविशेषादिघटितैच सामग्री घटत्वावच्छिन्नविशेष्य कनीलघटत्वाद्यवच्छिन्नाभेदान्वयबोधप्रयोजिका तदभावादेव घटो घट इत्यादिषु न तादृशशाब्दबोधापत्तिरिति केचित् । तन द्रव्यत्वादौ धर्मितावच्छेदकतासंसर्गेण प्रसिद्धस्य शुद्धघटत्वाद्यवच्छिन्नप्रकारकाभेदान्वयबोधस्य घटत्वादावापत्ति संभवात् । न च तत्रापादकाभावः तात्पर्यज्ञानविशेषादिघटिताया धर्मितावच्छेदकतया द्रव्यत्वादौ तदुत्पादनियामक सामग्र्या एवापादकत्वात् । न च धर्मितावच्छेदकतासम्बन्धेन
४८
विधेयकोटावित्यादि । विधेयांशघटकतयोद्देश्याद्यघटकं विषयीकुर्वतः इति तु नार्थः तथासति तादृशत्वस्य विधेयांशसर्वथापूर्वमत्रगाहमानेऽपि शाब्दबोधे सत्वेन तस्य प्राचीनैरभ्युपेतत्वाद्विशेषोक्तिरसंगता स्यात्, एकविशेषोत्तेर्विशेषान्तरव्यवच्छेदफलकतायाः स्वरससिद्धत्वात् । किन्तु विधेयघटकतयाखिलोद्देश्यघटकावगाद्दिनस्तदघटकमवगाहमानस्येत्यर्थः । अभेदान्वयः स्थले विधेयस्य नियमत उद्देश्यघटकत्वादखिलेत्युक्तम् । अत्रोद्देश्यस्य प्राक्प्रयोक्तव्योद्देश्यवाचकपदेन प्रथमावगन्तव्यकल्पतया तदंशस्याबुबोधयिषिततया न विधेयत्वेन भानसंभवः किन्लधिकांशस्यैव नचैवं नीलोघटइत्यादी नैत्यानयस्य विधेयतया भानं नस्यात्तस्योद्देश्यात्मकत्वेन बुबोधयिषितत्वासंभवादिति वाच्यम् आश्रयविनिर्मुक्तस्य नामतउपस्थितस्य नैल्यादेर्व्युत्पत्तिविरोधेन भेदेनान्वयासंभवेनावर्जनीयतया बुबोधयिषितत्वसंभवेन विधेयकोढाववगाहनसंभवात् । घटो नीलोघट इत्यादी घटांशभाने तादृशयुक्त्यभावादिति याचामभिमतमित्थमाक्षिपन्ति नवीनाः । तथाहि प्रवृत्त्युपयोगिविशिष्टज्ञानसम्पत्तये संशय निवृत्तये मार्थं प्रतिपिपादयिषन्ति वक्तारस्तत्र नीलघटभेदस्य विशेषाभावत्वेन घटत्वस्य तदविरोधितया घटोनीलवटो नवेयादिसंशयस्य संभवेन तादृशसंशयमेव बोधनीयपुरुषगतमनुसंधान स्तनिवृत्तिमभिलषन्तो घटे नीलघटमेव विधेयतया प्रतिपादयन्ति घटोनील इत्यादिबुद्धेरसमानप्रकारकत्वेन तादृशसंशयाविरोधित्वात् । समानविषयकत्वेन प्रतिबन्धकत्वस्य प्राचामभिमतस्याप्रामाणिकत्वादियगत्योक्तसंशयोत्सारणसमर्थो विधेयांशेऽधिकावगाही नीलघटो घट इत्यादिशाब्दबोधोऽभ्युपेयस्तदिदमनुसंधायोक्तं-नवीनै स्वीकारादिति । तर्हि घटाद्यंशेषिशेषणतावच्छ्दकविधयेत्यादि । ननु घटत्वावच्छिन्नविशेष्यतानिरूपितघटत्वावच्छिन्न प्रकारता कशाब्दबुद्धित्वावच्छिन्नस्य नीलाद्युपस्थितिव्यभिचारितया तदुत्पत्तौ तद्विरहस्याकिञ्चित्करत्वान्नतत्प्रयोजकत्वंतस्येति चेदत्र केचित् निर्विशेषस्य सामान्यस्याभावेन सामान्यधर्मावच्छिन्नोत्पत्तौ विशेषध
निसाम या अपेक्षितत्वनियमेन सामान्याश्रयव्यक्त्युत्पत्तौ तद्व्यक्तिनिष्ठयावज्जन्यतानिरूपित्तजनकतावच्छेदकावच्छिन्नसत्त्वनियम पर्यवसन्नेन नीलावुपस्थितिघटितसामम्या अवश्यमपेक्षणीयत्वमवगम्यत इत्याहुः । वस्तुतस्तु घटत्वावच्छिन्न विशेष्यतानिरूपितघटत्वावच्छिन्नप्रकार ताशा लिशाब्दबुद्धित्वावच्छिन्नं प्रति स्वातन्त्र्येण न कस्यापि कारणत्वमिति तद्धर्मावच्छिन्नसत्त्वं नीलघटो घट इत्यादिवाक्यनिष्टाकाङ्क्षाज्ञानजन्यतावच्छेदक नीलघटत्वावच्छिन्न विधेयतानिरूपितघटत्वावच्छिन्न विशेष्यताशालिशाब्दबुद्धित्वाद्यवच्छिन्नसामग्रीप्रयोज्यमेव वाच्यम् सा च सामग्री नीलाद्युपस्थित्यादिघटितेति तद्विरहदशायां नोक्तधर्मावच्छिन्नसत्त्वप्रसङ्गइत्याशयः । अत्र वक्ष्यमाणाया द्रव्योपस्थितिं विना द्रव्यत्वे शाब्दबोधापत्तेरसङ्गतिः पूर्वकल्पवन्न प्रसज्यत इति ।
शुद्धघटत्वावच्छिन्नप्रकारकेति । विधेयांशेऽधिकावगाहिशाब्दस्वीकारपक्षे घटत्वावच्छिन्नप्रकार कशाब्दबोधस्य घटत्वे इष्टत्वादापत्त्यभावाच्छुद्धघटत्वावच्छिन्नेत्युपात्तम् । आपत्तिसम्भवादिति । आपाद्यतावच्छेदकधर्मस्य प्रसिद्धत्वात्तदवच्छिन्नव्याप्तिज्ञानादिलक्षणापत्तिसामम्याः सम्भवादिति भावः । ननु कार्यापत्तिस्थले कार्यव्याप्यतयासामग्र्याएवापादकत्वं न चास्ति कापि सामग्री शुद्धघटत्वावच्छिन्नप्रकार कशाब्दत्वावच्छिन्नंप्रति कृतेत्यापादकाभाव इत्याह--नचतत्रापादकाभाव इति । तदुत्पाद नियामकसामय्या एवेति । नच धर्मितावच्छेदकतया द्रव्यत्वे घटत्वावच्छिन्नप्रकार ताकशाब्दत्वावच्छिन्नोत्पादनियामिका सामग्रीव्यक्तिद्रव्यत्वावच्छिन्नविशेष्यकयोग्यताज्ञानादिघटितैव साच कथमपि घटत्वे न वर्तत इति वाच्यम् यादृशी सामग्री द्रव्यत्वे तदुत्पादनियामिका तादृश्यास्तात्पर्यज्ञानादिघटिताया: सामग्र्या एवेत्यर्थकरणात् । तथाच ययोरर्थयोरन्वयाभिमतोऽभेदसंसर्गेणतेन संसर्गेण तद्विशेष्यकतत्प्रकारकज्ञानस्य योग्यताज्ञानत्वेन यथाघटोद्रव्यमित्यस्य योग्यताज्ञानत्वं तथाघटोघट इति ज्ञानस्यापि तस्वं यथातद्बोधकपदयोः समानविभक्तिकयोः समभिव्याहारस्याकाङ्क्षात्वेन घटोद्रव्यमितिवाक्यज्ञानस्याकाङ्क्षाज्ञानत्वं तथा घटोघट इतिवाक्यज्ञानस्यापि यथाच तदर्थान्विततदर्थपरत्वस्य तात्पर्यरूपत्वेन घटोद्रव्यमिति वाक्यं घटान्वितद्रव्यपरमिति ज्ञानस्य तात्पर्यमानत्वं तथाच घटोघट इदं वाक्यं घटान्वितघटपरमिति ज्ञानस्यापि तत्त्वम् तत्तदर्थोपस्थित्योरेक कालीनयोरासत्तिरूपत्वेन द्रव्यं घटइत्युपस्थियोर्यथाऽऽसत्तित्वमेवं घटो घट इत्युपस्थिलोरपीति प्रतिनियतेन तेन संबन्धेन परिपूर्णा निरुक्तशाब्दसामग्री द्रव्यत्वे विद्यमाना यथाकार्य घटत्वावच्छिन्नप्रकारकशाब्दबोधात्मकमुत्पादयति तथा घटत्वेपि विद्यमाना निरुका परिपूर्णा शाब्दसामग्री तत्कार्यमुत्पादयेदापायापादकयोश्च व्याप्तिर्यत्त्वतत्त्वोपरागानुगृहीता सामान्यतः परिच्छिन्ना विशेषतो गृ

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218