Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 54
________________ व्युत्पत्तिवादः । वतीति वाच्यम् । योग्यताज्ञानस्य धर्मितावच्छेदकं निवेश्य तद्भेदेन अनन्तकारणताकल्पनमपेक्ष्य लाघवाधर्मितावच्छेदकतासंबन्धेन शाब्दबुद्धौ तादृशसंबन्धेन धर्मितावच्छेदकमनिवेश्य हेतुताकल्पनस्यैव युक्तत्वात् । --- किञ्चान पक्षे धर्मितावच्छेदकतायाः कार्यतावच्छेदकसंवन्धत्वविरहेपील्युक्तेनास्ति प्रयोजनम् कार्यतावच्छेदकसंबन्धेनैव बृत्तित्वं यदि स्यात्संभावितमपिस्यादपिशङ्कोत्थापकतया सार्थकत्वंनास्ति च तदिति । तद्भेदेनानन्तकारणताकल्पनमपेक्ष्य लाघवादिति । ननु धर्मितावच्छेदकसंबन्धेन कार्यकारणभावे पुरुषान्तरीयद्रव्यत्वाधवच्छिन्नविशेष्यताकयोग्यताज्ञानात्पुरुषान्तरस्य शाब्दबोधापत्तिवारणाय तत्तत्पुरुषीयत्वस्य कार्यतावच्छेदककारणतावच्छेदककोटी प्रवेशनीयतया तद्भेदेन तत्पक्षेपि कार्यकारणभावानन्त्यम् विषयपुरुषयोरनन्तत्वेन न्यूनाधिकभावस्य परिच्छेतुमशक्यखादिति चेत्र, पुरुषदशकं विषयदशक चानुमुल्य न्यूनाधिकभावविज्ञाने लाघबगौरवस्य गुज्ञानलात्, तथाहि पुरुषनिष्टप्रत्यासत्त्या कार्यकारणभावेन तत्तत्पुरुषसस्यापि धर्मितावच्छेदकत्वसंभवेन कार्यकारणभावदशकं विषयनिष्ठतत्तद्धर्मस्य धर्मितावच्छेदकतया तद्भेदेन कार्यकारणभावदशकमिति विशतिकार्यकारणभावः धर्मितावच्छेदकनिष्टप्रत्यासत्त्या हेतुत्वे तत्तत्पुरुषभेदेन कार्यकारणभावदशकमेवेति न्यूनाधिकभावः सुज्ञान एवेति । यत्तु पुरुषनिष्टप्रत्यासत्त्या कार्यकारणभावे प्रकारत्वविशेष्यत्वयोनिलप्यनिरूपकभावापन्नयोः कार्यकारणभावावच्छेदककोटी प्रवेशनीयत्वेन विशेष्यविशेषणभावे विनिगमनाभावाद्विषयदशकं पुरुषदशकं चानुनल विचारे विंशतिकार्यकारणभावः धर्मितावच्छेद कनिष्टप्रत्यासत्त्या कार्यकारणभावे च तत्तत्पुरुषीयत्वप्रवेशेन तत्तद्दशकमेवेति व्यक्तो न्यूनाधिकभावइति तन्न यथा कैकप्रकारस्य विशेष्यदशकं तथैकैकविशेष्यस्य प्रकारदशकमपि संभवतीति विनिगमकाभावात्प्रकारतावच्छेदकताप्रत्यासत्यापि कार्यकारणभावो वक्तव्यस्तथा च धर्मितावच्छेदकताप्रत्यासत्याकार्यकारणभावदशकं प्रकारतावच्छेदकताप्रत्यासत्त्या च कार्यकारणभावदशकं तत्रैकैकस्मिन् तत्तत्पुरुषीयलप्रवेशे कार्यकारणभावानां द्वेशते प्रकारत्वविशेष्यत्वयोर्विनिगमनाविरहेण परस्परविशेष्यविशेषणभावापन यो कार्यकारणभावघटकत्येपि पुरुषनिष्ठप्रत्यासत्या हेतु. हेतुमद्भावपक्षेपि द्वेशते एव अत्रत्वेकैकस्मिन्विशेष्ये प्रकारदशकमध्यात्रयाणां त्रयाणामेव विशेष्यत्रय एव चैककस्य प्रकारत्वेसंभविते द्वेशते एव कार्यकारणभावाना, धर्मितावच्छेदकनिष्ठप्रत्यासत्त्याहेतुहेतुमद्भावे पुरुषनिष्ठप्रल्यासत्त्याहेतुहेतुमद्भावे तु त्रयाणां प्रकारखसंभाबनायां प्रथमतस्त्रिंशद्विशेष्यविशेषणभावे विनिगमनाविरहेण च षष्टिः संभाव्यत इति विपरीतएव न्यूनाधिकाभाव इति न दूषणम् कालादेरनन्ततयैक्रपुरुषज्ञानेयेकस्मिन् विशेष्ये सर्वेषां प्रकारलसंभवात् अन्यथा तत्तत्पुरुषाणां विशेष्यत्वावलम्बनेनोद्भावितस्याधिक्यस्याप्यवकाशो न स्यात् पुरुषत्रयस्यैव विशेष्यत्वसंभावनयोक्तरीला षष्टिकार्यकारणभावेन विंशत्यधिक. शतकार्यकारणभायस्यैव प्रसकेः। अथ यदुक्तमात्मनिष्ठप्रत्यासत्त्याकार्यकारणभाये तत्तत्पुरुषस्य विशेष्यत्वेन तदाधिक्यं तन्न सङ्गच्छते तथाहि प्रागुक्तरीत्या प्रकारतावच्छेदकतासंबन्धेन कार्यकारणभावस्यापि स्वीकरणीयतया विषयनि प्रत्यासत्या हेतुहेतु. मद्भावपक्षेपि तत्तत्पुरुषत्वावच्छिन्नविशेष्यताकझाम्दबुद्धिवाद्यवच्छिन्नकार्यकारणभावदशकस्य वक्तव्यतया तत्र ततत्पुरुषीयत्वप्रवेशे पुरुषनिष्टप्रत्यासत्त्या कार्यकारणपक्षवत्पुरुषविशेष्यत्वनिवन्धनस्य कार्यकारणभावस्य प्रसन इत्येतदवोधविज़म्भितम् । विषयनिष्ठप्रत्यासत्या कार्यकारणभावपक्षे धाम धप्रकारत्वावच्छेदकल्वाभ्यां द्विविधकार्यकारणभावसद्भावेषि विशेष्यदशक प्रकारदशकं पुरुष दशक चानुसत्य विचारे सर्वेषां सर्वविशेष्यत्वप्रकारत्वसंभवेन तत्तद्धर्मावच्छिन्ननकारत्वघटितधर्मावच्छिन्नहेतु हेतुमद्भावदशकत्रये तत्तद्धर्मावच्छिन्नविशेष्यत्वघटितधर्मावच्छिनहेतुहेतुमद्भावदशकत्रयेच तत्तत्पुरुषीयत्वप्रवेश षटशत्येय कार्यकारणभावानां संभवति, पुरुषनिष्टप्रत्यासत्त्या कार्यकारणभावपक्षे तु त्रिंशतामेकैकधर्मावच्छिन्नप्रकारतानिरूपितखातिरिक्तोनत्रिंशद्धमार्वच्छिन्नविशेष्यत्वघटितधर्मावन्छिनोनविंशकार्यकारणभावे सप्तत्युत्तराष्टशती कार्यकारणभावानां, तत्र च प्रकारत्वविशेष्यत्वयोः विशेष्यविशेषणभावे विनिगमनाविरहाद्वैगुण्यप्रसक्तौ सुतरामाधिक्यमिति, वस्तुतः परस्परविशेष्यविशेषणाभावे तत्तत्पुरुषस्य विशेष्यत्याननुशरणेपि पुरुषनिष्टप्रत्यासत्या कार्यकारणभाव एवाधिक्यम् , तथाहि दशऋयमवलम्व्य. विचारे खातिरित्तोनविशंतितत्तद्धर्मावच्छिन्नविशेष्यतानिरूपिततत्तावच्छिन्नप्रकारत्वघटितोनविंशतिगुणितविंशतिकार्यकारणभावे प्रकार त्वविशेष्यत्वयोः परस्परं विशेष्यविशेषणभावे विनिगमनाविरहात् षष्ट्यधिकसप्तशती कार्यकारणभावानां विषयनिष्ठप्रत्यासत्या कार्यकारणभावे चतुःशत्येवेति । इदमुपलक्षणम् ततद्धावच्छिन्नविशेष्यत्वस्य कारणतावच्छेदकघटकत्वेऽवच्छेदकत्वविशेषणतया तत्तद्धर्माण तत्तत्संबन्धतया चाधेयत्वस्य कारणतावच्छेन्दक्रघटकत्वादपि गौरवं बोध्यम् ।। ननु दव्यत्वावच्छिन्नविशेष्यकप्रमेयत्वावच्छिन्नविशेध्यकज्ञाने ज्ञानमिदं घटाभाववति प्रमेये घटप्रकारताकमित्यप्रामाण्यज्ञानास्कन्दिते द्रव्यत्व इव प्रमेयत्वे प्रमेयत्वय द्रव्यत्वेऽप्यप्रामाण्यज्ञानस्योत्तेजकत्वानुत्तेजकत्वयोर्घटत्वावच्छिन्न प्रकारकशाब्दबोधस्यानुपपत्तिरापत्तिश्चेति पुरुषनिष्ठप्रत्यास त्या हेतुहेतुमद्भावोजीकरणीयः तत्र च प्रमेयत्वावच्छिन्न विशेष्यकशाब्दबोधे प्रमेय

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218