Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 55
________________ गूढार्थतत्वालोकव्याख्यासहितः । घटत्वादिमितावच्छेदकघटत्वाद्यवच्छिन्नप्रकारकयोग्यताज्ञानबलादेव घटत्वादौ धर्मितावच्छेदकतासबंन्धेन तदापत्तेः । न च योग्यताज्ञानस्य धर्मितावच्छेदकनिष्ठप्रत्यासत्या हेतुत्वोपगमे द्रव्यत्वाद्यवच्छिन्नस्य पदादनुपस्थितत्वेपि द्रव्यत्वादी तादृशप्रत्यासत्या प्रत्यासन्नयोग्यतानानात्तत्र प्रत्यासत्यातादृश शाब्दबोधापत्तिः। आत्मनिष्ठप्रत्यासत्या हेतुभूतां द्रव्यत्याद्यवच्छिन्नोपस्थितिमात. रेणापिताशप्रमेयत्वाद्यवच्छिन्नोपस्थित्यादिदशायां प्रमेयत्वादौ धर्मितावच्छेदकतासंबन्धेन योग्य ताज्ञानस्य फलजनकत्वात्तादृशद्रव्यत्वाद्यवच्छिन्नोपस्थितिविरहस्याकिचित्करस्वादिति वाच्यम् । समानप्रकारताप्रत्यासत्या पदार्थोपस्थितेः शाब्दबोधे हेतुत्वोपगमात् । त्वादन्छिन्न विशेष्यत्वघटिताप्रामाण्य ग्रह स्यैवोत्तेजकत्वं वाच्य मिति न दोषसंभव इति चेन्न स्वविशिष्ठावच्छन्दकत्वसंसर्गेण हेतुत्वे दोषाभावात् । वैशिष्ट्यं च स्वीयघटत्वावच्छिन्नप्रकारवानिरूपितविशेष्यताकत्वखनिष्ठविशेष्यतानिरूपितघटत्वावच्छिन्नप्रकारताकत्वनिष्टप्रकारतानिरूपितघटाभाववन्निष्टविशेष्यत्वनिष्ठविषयतानिरूपितावच्छिन्नलसम्बन्धावच्छिनावच्छेदकतावलसंबन्धावच्छिन्नप्रतियोगिताकखाभाववत्त्वोभयसंबन्धेन । अवच्छेदकतावत्ताच स्वसामानाधिकरण्यस्वानवच्छेदकानवच्छिन्नत्वस्ववृत्तित्वस्वावच्छेदकसंबन्धावच्छिन्नत्वैतचतुष्टयसंबन्धेन । नचोक्ताकाराप्रामाण्यज्ञानेनावच्छिन्नत्वसंसर्गेण विशेष्यत्वे प्रभेयखादेविशेषणलमनुभूयते नंबाघटाभाववतोविशेष्यत्वविशेषणतापीति वाच्यम् धर्मिपार तन्द्रयेण सप्तम्यभिलग्यमाने विशेष्यत्वे प्रमेयवादेः प्रकारत्वसंभवात् घटाभाववतोयाधेयतया विशेष्यत्वाएवमानाभ्युपगमाच प्रमेये तद्भाने वाधनिश्चयविधया प्रतिवन्धकलादेवापत्त्यसंभवेन तस्योत्तेजकलानावश्य कलात् अवच्छिन्नलप्रकारकज्ञानसङ्ग्रहाय च विशेष्यत्वनिष्ठविषयतानिरूपित स्वरूपातिरिक्तसंबन्धानवच्छिन्ननिरूपितत्वनिष्ठविषयतानिरूपितावच्छेदकतात्वावच्छिन्नविषयताबदवच्छेदकतावत्त्वस्य संसर्गघटकताविवक्षिता नातोऽननुगमइयेषादिक । घटाभाववतिघटप्रकारताकमिदंज्ञानमित्याद्यप्रामाण्यज्ञानानामभावस्तुयोग्यताज्ञानएव विशेषणीयइति।। योग्यताज्ञानवलादेवेति । उक्तज्ञानस्य कारणतावच्छेदकवत्त्वे तद्धटितसमुदायस्यापिसामग्रीत्वसंभवेन कार्यतावच्छेदकसंबन्धेन धर्मितावच्छेदकत्वेन कार्यतावच्छेदकघटत्वावच्छिन्नप्रकारकशाब्दबुद्धिवावच्छिन्नापादकत्वसंभव इति भावः । ननु योग्यताज्ञानस्यविषयनिष्टप्रत्यासत्त्यालाघवेन हेतुत्वेप्युपस्थितेः समवायेनै बहेतुत्वं युक्तं नच तत्तद्धर्मावच्छिन्नविषयकशाब्दबोधे तत्तद्धर्मावच्छिन्नविषयकोपस्थितित्वेन कारणत्वस्य वाच्यतया समवायेनहेतुत्वे अनन्तकारणखापत्त्या गौरवमितिवाच्यम् स्वत्वस्याननुगतत्वेन सर्वत्र परम्परायाः संसर्गत्वे मानाभावेन च स्वजनकज्ञानीयेत्यादिवक्ष्यमाणप्रकारेण विषयनिष्ठप्रत्यासत्या हेतुत्वस्यासंभवात् विशिष्टशक्तिज्ञानकारणत्वानुरोधेन वृत्तिशरीरेविषयप्रवेशस्यावश्यकत्वेन विषयनिष्ठप्रत्यासत्त्याहेतुत्वे तत्तत्पुरुषीयत्वप्रवेशेन विपरीतगौरवान्चेत्याशयवानाहू-आत्मनिष्ठप्रत्यासत्त्याहेतुभूतामिति । उपस्थितिमन्त रेणेति । ननु कारणतावच्छेदकेन समयायेन कार्याधिकरणे द्रव्यखादाक्प्रत्यासन्नत्वादेवोपस्थितेः सहकारित्यासंभवे व्यभिचारेण तत्प्रदर्शनमफलम् । किंचोपस्थितेयंतिरेको न कालगतो नवा संबन्धमात्रावच्छिन्न प्रतियोगिताको नचाप्यात्मनिष्टः प्रकृतेर्विवक्षितः तत्पुरुषस्य द्रव्यत्वावच्छिन्नोपस्थितिविरहकालेपि पुरुषान्तरस्य तत्सद्भावात् पुरुषान्तरीयोपस्थितेविषयतया द्रव्यत्वे सत्त्वात् आत्मनः कार्यदेशत्यविरहाचेति कारणतावच्छेदकसंवन्धावच्छिन्नप्रतियोगिताकः कार्याधिकरणनिष्टः सहकारिताविरहप्रयोजकतया विवक्षणीयः सच द्रव्यत्वावच्छिन्नोपस्थितेरिय घटलावच्छिन्नोपस्थितेरप्यभावो द्रव्यत्वे विद्यमानस्तस्याइब तस्या अप्यसहकारिता व्यवस्थापयतीति तद्विरहकालेऽप्यापत्तिः संभवतीति तदुपेक्षणं च निर्वाजमितिचेत्र तत्तद्धर्मावच्छिकार्यस्य तत्तद्धर्मावच्छिन्नकार्यतावच्छेदकसंबन्धेनोत्पत्तिस्तत्तद्धर्मव्यापकाशेषधांवच्छिन्नकारणानां स्वखकार्यतावच्छेदकसंबन्धेन कार्याधिकरणे कारणतावच्छेदकसम्बन्धेन प्रत्यासन्नानां पूर्वकालसत्वमपेक्षत इत्यभिप्रायात् । नच किमर्थमेतदङ्गीकार्यमिति वाच्यं ज्ञानत्वावच्छिन्नप्रति त्वङ्मनोयोगस्य हि लाघवेनात्मनिष्टप्रत्यासत्त्यैव हेतुत्वेन विषये तदभावसत्वेन तस्यासहकारितया तदभावदशायामापत्तिरितरथा दुरुद्धरैब स्यात् एवंच सहकारिता विरहप्रयोजको न कार्याधिकरणे तदभावः किंतुकारणतावच्छेदकसंबन्धेन खाधिकरणावच्छेद्यः पूर्वकालवर्तितदभावएवेत्युपस्थितिमन्तरेणेत्या दिग्रन्थसङ्गतिः । घटत्वावच्छिन्नोपस्थितिमन्तरेण घटलावच्छिन्नप्रकारकशाब्दबुद्धित्वावच्छिन्नस्य न वाप्युत्पत्तिसंभवः घटत्वावच्छिन्नविषयकशाब्दबुद्धित्वस्य तद्यापकत्वेन तदवच्छिन्नकारणीभूताया आत्मनि प्रत्यासन्नायाः तदुपस्थितेः पूर्वकालरात्वस्यापेक्षणीयत्वात् । नच यो ग्यताज्ञानकार्यतावच्छेदकस्य तत्पुरुषीयत्वघटितत्वेन तदवच्छिन्नस्य तत्पुरुषस्य घटलावच्छिन्नोपस्थितिविरहे पुरुषान्तरस्य तदुपस्थितिदशायां चापत्तिरेवमपि दुर्वारेति वाच्यम् खखकार्यतावच्छेदकसम्बन्धेन तत्तद्धर्मावच्छिन्न कार्याधिकरणे प्रत्यासन्नानामित्यस्य विवक्षणीयत्वात् तत्पुरुषीयघटखावच्छिन्न प्रकारकशाब्दबुद्धिवावच्छिन्नस्य समवायेनाधिकरणे तत्पुरुषे तदानीमुक्तोपस्थितेरप्रत्यासन्नत्वात् । नचैवं व्यत्वावच्छिन्नोपस्थितेः किमिति पूर्वकालसत्त्वं नापेक्ष्यत इसि वाच्यम् द्रव्यत्वावच्छिन्नविषयकशाब्दत्वस्योक्तोपस्थितिजन्यतावच्छेदकस्य घटत्वावच्छिन्न प्रकारकशाब्दबुद्धिवाव्यापकत्वादिति । उपस्थिते शाब्दबोधे हेतुत्वोपगमादिति । अथ घटो द्रव्यमित्याकाराकासाशानमन्तरेणापि योग्यताज्ञानात्प्रमेयत्वे शा

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218